संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
दिनकरार्तिक्यम्

दिनकरार्तिक्यम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


जय दिनकर जय भास्कर जय भग जय तरणॆ !
तरणिस्त्वमसि तमसि जनिमृतिभवभयतरणे ! -ध्रुव- ॥
कर्मनि सतां प्रवृत्तिं प्रकरोषि च वृष्टिम्
किं च ददास्यंधानामिव जगतां दृष्टिम्
पास्यनलस एव परिभ्रमणपरः सृष्टिम्
मन्ये लोकं वत्सं त्वां भगवन् गृष्टिम् ॥१॥
जगदालयदीपस्त्वं चक्षुर्लोकानाम्
दुःसहविरहमहार्तेरगदः कोकानाम्
हेतुर्मंदेहासुरसेनाशोकानाम्
तव भांबुय्रुहां सुखदारणिरिव तोकानाम् ॥२॥
किंबहुना स्तवमेकं ब्रूमस्तव सारम्
कुरुते पुरतस्तेंऽजलिमजयद्यो मारम्
त्वं खलु सद्गतिभाजामार्याणां द्वारम्
मुदिर इव मयूरकुलं सुखयसि सद्वारम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP