संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
शंकरस्तोत्रम्

शंकरस्तोत्रम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( स्वागतावृत्तम् )
पर्वरात्रिरमणामृतभासां सर्वगर्वहर ! निर्मलकांते !
पर्वतेश्वरसुताधव ! शंभो ! शर्व ! मामव नतं जनमार्तम्. ॥१॥
पंकराशिमपि पावनकीर्ते ! रंकराजमव मां करुणाब्धे !
शंकराऽनतमलं तव कर्तुं कं कराब्जमनघं न सदीड्यम्. ॥२॥
पादपा दिविषदां न यथा ते पादपांसुरखिलेश सुखाप्त्यै
सादरा तव मतिर्भजदिष्टे याऽदरादवति संश्रिवर्गम्. ॥३॥
स्वर्गवास्यरिशतक्षयकर्मानर्गलप्रथितनिस्तुलशक्ते !
भर्ग ! ते‍ऽस्य भजतोऽपि न षण्णां वर्ग एष निहतो द्विषतां मे. ॥४॥
नेदमन्नवसनादपि कालात्ते दरव्यसनमीश ! लभंते
वेदगीतगुण ! ते शिव ! दृष्टा ये दयाम्रुतरसार्द्रदृशात्र. ॥५॥
व्यालदष्टमिव भेकशिशुं मां कालदष्टमव दीनमनाथम्
भाललोचन ! महेश्वर ! शंभो ! बालशीतकरशेखर ! शर्व ! ॥६॥
संतु कल्पशतसंचितनानामंतुकोटय उमेश ! तथापि
जंतुभिस्तु शरणिकरणियस्त्वं तुषाररुगिवाखिलतप्तैः ॥७॥
कामकोपमुखशत्रुभिरुग्रैरामयैरतितराकुलचेताः
हा महेश ! किमहं वद कुर्यां नाम तेऽप्यलमयं न गृहीतुम्. ॥८॥
देव ! या मुदिह सा खलु तोयादेव यादसि महत्यपि वाल्पे
सेवया तव सुखं जगति त्वामेव यामि शरणं श्रुतकीर्तिः. ॥९॥
इंदुचूड ! गृणतां तव कीर्तिं बिंदुतां भजति संसृतिसिंधुः
विंदुना तदिह सैव निषेव्या किं दुरीश्वरगुणैर्बत गीतैः ? ॥१०॥
दासवत्सल ! भजंति सुरास्त्वां वासवप्रभृतयः प्रभुमाद्यम्
हा सहास ! पदमेव न नम्रो व्यासवत्कविरपि स्वगुरुं यः. ॥११॥
कापि नाकजनमंगलमूर्तिर्या पिनाकसमलंकृतपाणिः
पापिना करुणया द्रुतचित्ताप्यादृता बत मया न हृदिस्था. ॥१२॥
मूलमुग्रविपदां स्मरमक्ष्णा तूलमग्निरिव योऽदहदीशः
कूलमस्य महतो भवसिंधोः शूलपाणिरभयाय ममास्तु. ॥१३॥
साहिमुग्रमपटं जटिलं त्वां सा हिमाद्रितनयेश ! यथासौ
भो ! जडस्य मम धीस्तव पादांभोजमुत्कहृदयाभ्युपयाता. ॥१४॥
अस्तु नाम तव संपतभावो वस्तुना मम मुदीश्वर ! येन
तत्त्वयास्ति विधृतं खलु कंठे तत्त्वमाद्यमुरु मंगलमेकम्. ॥१५॥
अद्य हंत कृपणः किमु कुर्यां यद्यहं तव दृशा नहि दृष्टः
चित्रमेतदयि ! पंकजबंधुं मित्रमेव भवतो बहु मन्ये. ॥१६॥
योगिर्भिर्न शिव ! केवलमुग्रैर्भोगिभिः श्रितपदो‍प्यसि शंभो !
त्वां ततोऽस्म्युपगतः शरणं तत्स्वांततोषद यशोर्णव ! पाहि;. ॥१७॥
( औपच्छन्दसिकं वृत्तम् )
किमनंगपिशाचयुक्सदाहं न मनो भूतभयंकरं श्मशानम्
भवता भवतापभागशुद्धं मम वासाय हरोररीकृतं ते. ॥१८॥
( शिखरिणिवृतम् )
नतोऽहं ते हंतेश्वर ! चरणयोर्भूरिदययो -
रतः शंभो ! शं भो ! वितरहर ! मह्यं त्वमतुलम्;
कृतं नागो नागोत्तमवलयकैर्न भ्रमवशैः
क्षमा कार्या; कार्याधव ! तव कथा न क्षमिनुता ? ॥१९॥
( पृथ्वीवृत्तम् )
अनादृतमुमेश ! ते श्रुतिशतस्तवैकास्पदं
पदं तदितरद्गुरु स्वहितमित्यरं सेवितम्,
जनेन बत येन तत्सपदि तस्य कालाकुलं
किमुग्रविपदां भवेन्न जनकं पदं कंपदम्, ॥२०॥
पुनाति न भवान्प्रभो ! कमिह कीर्तितः कीर्तिः
ददाति न फलं मुदामतिशयाचितं याचितम्,
किमास्त उत नांतिकेऽप्यहह मेऽनया मेनया
तयेव कुधिया विभो ! त्वमपमानितो‍ऽसि ध्रुवम्. ॥२१॥
प्रसादमुपवर्णितं शिव ! तवोपमन्यावहं
शृणोम्यसकृदादरात्कविभिरुत्तमैरुत्तमम्,
भवंतमपि भूतपं सदयमाशुतोषं भवं
प्रभुं त्रिजगतां गुरुं शरणमागतस्त्वामतः. ॥२२॥
( द्रुतविलंबितवृत्तम् )
भव ! न तेऽवनते कठिनं मनः सुरगुरोरगुरोरिव भोगिनि
कुरु चिरं रुचिरं शिरसीश ! मे स्वपदमापदमाशु यदुद्धरेत्. ॥२३॥
( हरिणीवृत्तम् )
वरद ! करदः संसृत्यब्धौ त्वमेव निमज्जतां
सदसि यससि ख्यातः सत्यं सतामिति सर्वथा,
भवति भवतिग्मांशौ सत्याः कथं न तमःक्षतिः
सदयपद ! यद्युक्तं तद्भोः ! कुरुष्व. नमोऽस्तु ते. ॥२४॥
( पुष्पिताग्रावृत्तम् )
स्मरहर ! करुणाघन ! त्वमेकां शृणु निजभक्तमयूरसूरिकेकाम्,
त्वमसि तमसि दिव्यदृष्टिरंधो भ्रममिह दीन इतोऽस्मि दीनबंधो ! ॥२५॥
इति श्रीरामनंदनमयूरविरचितं श्रीशंकरस्तोत्रं संपूर्णम् ।
श्रीशंकरार्पणमस्तु !
असहिष्णुनोग्र ! भवता हृदये दारिद्र्यदुःखमत्युग्रम्
पीतमपि विषं तस्माद्भीतमतः कंठ एवास्ते. ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP