संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
शिवार्तिक्यम्

शिवार्तिक्यम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


हालहलविषपानं त्रिपुराणां मथनम्
नाथ कथंकारमहं कुर्यां तत्कथनम्
चरितममितमंधकमुखजगदहितक्रथनम्
यदलंकृतये तत्तद्धतशिरसां ग्रथनम्
जय जय शिशुशशिशेखर शिव ! कामाराते !
ज्ञातमिदं परमेश्वर करुणा स्फारा ते -ध्रुव० ॥ ॥१॥
उपमन्यव ईशकृतं दुग्धोदधिदानम्
काश्यां दीयत एव प्राणिभ्यो ज्ञानम्
दस्युरितः शिरसि ओपदं दत्वापि विमानम्
बहुमतमिदमेव सतां कीर्तिसुधापानम् । जय जय० ॥२॥
नाम्न्यस्त्वादर ईश ग्रीष्म इव व्यजने
बालस्य क्रीडन इव वा भवतो भजने
मामुद्धर मा मुद्धर ! नश्यतु मे भजने
भक्तमयूरघन त्वं परिगणय स्वजने । जय जय० ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP