संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| हरिहरप्रार्थना संस्कृतकाव्यानि मंत्ररामायणम् महत्वाचे अनुक्रमणी रामनामाष्टोत्तरशतरामायणम् रामस्तुतिः रामनाममहिमा प्रथमम् द्वितीयम् रामप्रार्थना अम्लानपंकजमालाबंधपंचकम् मुक्तामाला श्रीकृष्णस्तवनम् रामकृष्णस्तुतिः प्रथमम् द्वितीयम् तृतीयम् चतुर्थम् पंचमम् शंकरस्तोत्रम् हरिहरप्रार्थना श्रीकाशीक्षेत्रस्थप्रार्थना गंगाविज्ञप्तिः मनःप्रार्थनाष्टकम् दशमस्कंधमुख्यार्तगीतिः पद्यानि १ पद्यानि २ पद्यानि ३ पद्यानि ४ पद्यानि ५ गणेशार्तिक्यम् जगदंबार्तिक्यम् श्रीकृष्णार्तिक्यम् शिवार्तिक्यम् दिनकरार्तिक्यम् नृसिंहार्तिक्यम् श्रीरामचंद्रार्तिक्यम् श्रीविठ्ठलार्तिक्यम् श्रीदत्तार्तिक्यम् शिवार्तिक्यम् शिवार्याशतकम् शिवाष्टोत्तरशतनामावलिः श्रीराधानामावलिः श्रीकृष्णनामावलिः पद्यपरिशिष्टम् स्फुटश्लोकाः हरिहरप्रार्थना महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’ Tags : mayurramramayanमयूररामरामायणसंस्कृत हरिहरप्रार्थना Translation - भाषांतर ( गीतिवृत्तम् )किमु माधव ! भगवन् ! मामतिदीनमुपेक्षसे ? न युक्तमिदम् भो नाथ ! भवव्यसने त्राता त्वं परमवत्सलो वरदः. ॥१॥प्रभुता जगत्सु भवतो नतजनभवदुःखलय महादेव ! कुरु हर ! उचितं शुचि तं स्वयमेव स्वं विचिंत्य महिमानम्. ॥२॥मामव शंभो ! भगवन्नवनीरदनीलकंठ पतितं त्वम्;किमशक्यं तव लोके करुणावरुणालय ! प्रभोरेतत्. ॥३॥गौरीश ! ननु त्राता भवता शरणागता निकामहित ! यशसाखिलसाधुसभा कामं शोभनदशावतारमिता. ॥४॥न हि केशव ! तुल्यास्ते भक्ता व्यक्तातिशयितवात्सल्य ! मंतुं क्षमस्व नमतो भवतापं चास्य हर ! दया कार्या. ॥५॥भो भव हर ! शरणागतसंगोपनसद्व्रताच्युत ! स्वामिन् ! का मदनकाल ! शक्तिः प्रभवति पुरतस्तव प्रभो स्थातुम्. ॥६॥जगतां गुरुं विना त्वां संसारे कोऽत्र वामदेव हितः न रमापतेऽद्य मार्तं त्राता सखा पिता पुत्रः. ॥७॥पालयसि सर्वमपि जनमचिरात्कर्पूरगौर ! कीर्तिरतम् एतमपि तथा पालय मालयमेतु त्वमेव देव गतिः. ॥८॥प्रभुरसि यशः श्रुतं ते कृतवांस्त्वं पर्वतं पुरारेणुम्, धाव विनाशं कर्तुं मम पापस्याशु तोषकरतीर्ते ! ॥९॥याचे त्वां निस्तारं भ्रांतोऽत्र चिरं भवांधकारेऽहम्, मा राधिकाप्रिय ! त्यज मा करुणानीरदाश्रितमयूरम्. ॥१०॥इति श्रीरामनंदनमयूरविरचिता श्रीहरिहरप्रार्थना समाप्ता तदर्पितास्तु ! N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP