चतुर्थं ब्राम्हणम् - भाष्यं ३

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- कथमित्याह । यद्यस्मान्मत्तोऽन्यदात्मव्यतिरेकेण वस्त्वन्तरं प्रतिद्वंद्वीभूतं नास्ति तस्मिन्नात्मविनासहेत्वभावे कस्मान्नु बिभेंमीति । तत एव यथाभूतात्मदर्शनादस्य प्रजापतेर्भयं वीयाय विस्पष्टमपगतवत् । तस्य प्रजापतेर्यद्बयं तत्केवलाविद्यानिमित्तमेव परमार्थदर्शनेऽनुपपन्नमित्याह ॥

भाष्यं :---  कस्माद्धयभेष्यत्किमित्यसौ भीतवान्परमार्थनिरूपणायां भयमनुपपन्नमेवेत्यभिप्राय: । यस्मादद्वितीयाद्वस्त्वन्तराद्वै भयं भवति । द्वितीयं च वस्त्वन्तरमविद्याप्रत्युपस्त्युपस्थापितमेव । न हयद्दश्यमानें द्वितीयं भयजन्मनो हेतु: । “तत्र को मोह: का: शोक एकत्वमनुपश्यत:” इति मन्त्रवर्णात् । यच्चैकत्वदर्शनेन भयमपनुनोदापनोदितं तद्युक्तम् ।  कस्मात् । द्वितीयाद्वस्त्वन्तराद्वै भयं भवति तदेकत्वदर्शनेन द्वितीयदर्शनमपनीतमिति नास्ति यत: ॥


भाष्यं :---  अत्र चोदयन्ति । कुत: प्रजापतेरेकत्वदर्शनं जातं को वाऽस्मा उपदिदेश । अथानुपदिष्टमेव प्रादुरभूत । अस्मदादेरपि तथा प्रसङ्ग: । अथ जन्मान्तरकृतसंस्कारहेतुकम् । एकत्वदर्शनानर्थक्यप्रसङग: ॥

भाष्यं :--- यथा प्रजापतेरतिक्रान्तजन्मावस्थस्यैकत्वदर्शनं विद्यमानमप्यविद्याबन्धकारणं नापनिन्ये । यतोऽविद्यासंयुक्त एवायं जातोऽबिभेत् । एतं सर्वेषामेकत्वदर्शनानर्थक्यं प्राप्नोति । अन्त्यमेव निवर्तकमिति चेत् । न । पूर्ववत्पुन:प्रसङगेनानैकान्त्यात् । तस्मादनर्थकमेवैकत्वदर्शनमिति ॥

भाष्यं :--- नैष दोष: । उत्कृष्टहेतूद्भवत्वाल्लोकवत । यथा पुण्यकर्मोद्भवैर्तिविक्तै: कार्यकरणै: संयुक्ते जन्मनि सति प्रज्ञामेधास्मृतिवैशारद्यं  द्दष्टं तथा प्रजापतेर्धर्मज्ञानवैराग्यैश्वर्यविपरीतहेतुअर्वपाप्मदाहाद्विशुद्धै: कार्यकरणै: संयुक्तमुत्कृष्टं जन्म तदुद्भवं चानुपदिष्टमेव युक्तमेकत्वदर्शनं  प्रजापते: ॥


भाष्यं :--- तथा च स्मृति :--- “ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पते: । ऐश्वर्यं चैव धर्मश्व सहसिद्धं चतुष्टयम्” इति । सहसिद्धत्वे भयानुपपत्तिरिति चेत् । न हयादित्येन सह तम उदेति । नान्यानुपदिष्टार्थत्वात्सहसिद्धवाक्यस्य ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP