संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं १४ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं १४ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १४ Translation - भाषांतर भाष्यं :--- तिष्ठतु तावत्पाक्षिक्यात्मोपासनप्राप्तिर्नित्या वेति । अपूर्वविदि: स्यात । ज्ञानोपासनयोरेकत्वे सत्यप्राप्तत्वात् । न स वेदेति विज्ञानं प्रस्तुत्याऽऽत्मेत्येवो पासीतेत्यभिधानाद्वेदोआसनशब्दयोरेकार्यताऽवगम्यते । “अनेन हयेतत्सर्वं वेद” “आत्मानमेवावेत्” इत्यादिश्रुतिभ्यश्च विज्ञानमुपासनम् । तस्य चाप्राप्तत्वाद्विध्यर्हत्वम् ॥भाष्यं :--- न च स्वरूपान्वाख्याने पुरुषप्रवृत्तिरुपपद्यते । तस्मादपूर्वविधिरेवायम् । कर्मविधिसामान्याच्च । यथा “यजेत जुहुयात” इत्यादय: कर्मविधयो न तैरस्य “आत्मेत्येवोपासीत” “आत्मा वा अरे द्रष्टव्य:” इत्याद्यात्मोपासनविधेर्विशेषोऽवगम्यते । मानसक्रियात्वाच्च विज्ञानस्य । यथा यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा घ्यायेद्वषटकरिष्यन्नित्याद्या मानसी क्रिया विधीयते । तथा “आत्मेत्येवोपासीत” । “मन्तव्यो निदिध्यासितव्य:” इत्याद्या क्रियैव विधीयते ज्ञानात्मिका । तथाऽवोचाम वेदोपासनशब्दयोरेकार्थत्वमिति ॥भाष्यं :--- भावानांशत्रयोपपत्तेश्च । यथा हि यजेतेत्यस्यां भावनायां किं केन कथमिति भाव्याद्याकाङक्षापनयकारणमंशत्रयमवगम्यते । तथोपासीतेत्यस्यामपि भावनायां विधीयमानायां किमुपासीत केनोपासीत कथमुपासितेत्यस्यामाकाङक्ष्यायामात्मानमुपासीत मनसा त्यागब्रम्हाचर्यशमदमोपरमतितिक्षादीतिकर्तव्यतासंयुक्त इत्यादि शास्त्रेणैव समर्थ्यतेंऽशत्रयम । यथा च कृत्स्नस्य दर्शपूर्णमासादिप्रकरणस्य दर्शपूर्णमासादिविध्युद्देशत्वेनोपयोग: । एवमौपनिषदात्मोपासनप्रकरणस्यात्मोपासनविध्युद्देशत्वेनैवोपयोग: ॥भाष्यं :--- नेति नेत्यस्थूलमेकमेवाद्वितीयमशनायाद्यतीतमित्येवमादिवाक्यानामुपास्यात्मस्वरूपविशेषसमर्पणेनोपयोग: फलं च मोक्षोऽविद्यानिवृत्तिर्वा ॥भाष्यं :--- अपरे वर्णयन्त्युपासनेनाऽऽत्मविषयं विशिष्टं विज्ञानान्तरं भावयेत्तेनाऽऽत्मा ज्ञायतेऽविद्यानिवर्तकं च तदेव नाऽऽत्मविषयं वेदवाक्यजनितं विज्ञानमिति । एतस्मिन्नर्थे वचनान्यपि “विज्ञाय प्रज्ञां कुर्वीत” “द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य:” “सोऽन्वेष्टव्य: स विजिज्ञासितव्य:” इत्यादीनि ॥भाष्यं :--- नार्थान्तरभावात । न च “आत्मेत्येवोपासीत” इत्यपूर्वविधि: । कस्मात् । आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाहयस्य वाऽभावात । तत्र हि विधे: साफल्यं यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते । यथा “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्येवमादौ । न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासानुष्ठानम् । तच्चाधिकाराद्यपेक्षानुभावि । न तु “नेति नेति” इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापार: संभवति । सर्वव्यापारोपशमहेतुत्वात्तद्वाक्यजनितविज्ञानस्य । नहुदासीनविज्ञानं प्रवृत्तिजनकम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP