संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं ९ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं ९ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं ९ Translation - भाषांतर श्रुति :--- तद्धेदं तहर्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौ नामाऽयमिदरूप इति ॥अर्थ :--- हेंच तें जगत् उत्पत्तीच्या पूर्वीं अव्यक्त होतें. तेंच अव्याकृत असलेलें जगत् नाम व रूप यांच्या योगानें व्यक्त झालें. हा ‘या नांवाचा व या रूपाचाम असें तें व्यक्त झालें. तें हें अव्याकृतत वस्तुजात सांप्रतकालिंहि नामरूपांच्या योगानेंच - हा अमुक नांवाचा, अमुक रूपाचा - अशाच रीतीनें व्यक्त केलें जातें.भाष्यं :--- “तद्धेदं तहर्यव्याकृतमासीत्” सर्व वैदिकं साधनं ज्ञानकर्मलक्षणं कर्त्राद्यनेककारकापेक्षं प्रजापतित्वफलावसानं साध्यमेतावदेव यदेतव्द्याकृतं जगत्संसार: ॥भाष्यं :--- अथैतस्यैव साध्यसाधनलक्षणस्य व्याकृतस्य जगतो व्याकरणात्प्राग्बीजावस्था या तां निर्दिदिक्षत्यङकुरादिकार्यानुमितामिव वृक्षस्य । कर्मबीजोऽविद्याक्षेत्रो हयसौ संसारवृक्ष: समूल उद्धर्तव्य इति । तदुद्धरणे हि पुरुषार्थपरिसमाप्ति: । तथा चोक्तम् “ऊर्ध्वमूलोऽवाक्शाख:” इति काठके । गीतासु च “ऊर्ध्वमूलमध: शाखम ” इति । पुराणे च “ ब्रम्हावृक्ष: सनातन:” इति ॥भाष्यं :--- तद्धेदं तदिति बीजावस्थं जगत्प्रागुत्पत्तेस्तर्हि तस्मिन्काले परोक्षत्वात्सर्वनाम्नाऽप्रत्यक्षाभिधानेनाभिधीयते । भूतकालसंबन्धित्वादव्याकृतभाविनो जगत: । सुखग्रहणार्थमैतिहयप्रयोगो हशब्द: । एवं ह तदाऽऽसीदित्युच्यमाने सुखं तां परोक्षामपि जगतो बीजावस्थां प्रतिपद्यते युधिष्ठिरो ह किल राजऽऽसीदित्यक्ते यद्वत । इदमिति व्याकृतनामरूपात्मकं साध्यसाधनलक्षणं यथावर्णितमभिधीयते । तदिदंशब्दयो: परोक्षप्रत्यक्षावस्थजगद्वाचकयो: सामानाधिकरण्यादेकत्वमेव परोक्षप्रत्यक्षावस्थस्य जगतोऽवगम्यते । तदेवेदमिदमेव च तद व्याकृतमासीदिति । अथैवं सति नासत उत्पत्तिर्न सतो विनाश: कार्यस्येत्वधृतं भवति ।भाष्यं :--- तदेवंभूतं जगव्द्याकृतं सन्नामरूपाभ्यामेव नान्मा रूपेणैव च व्याक्रियत । व्याक्रियतेति कर्मकर्तृप्रयोगात्तत्स्वयमेवाऽऽत्मैव व्याक्रियत वि आ अक्रियत विस्पष्टं नामरूपविशेषावधारणमर्यादं व्यक्तीभावमापद्यत । सामर्थ्यादाक्षिप्तनियन्तृकर्तृसाधनक्रियानिमित्तम् ॥भाष्यं :--- असौनामेति सर्वनान्माऽविशेषाभिधानेन नाममात्रं व्यपदिशति । देवदतो यज्ञदत्त इति या वा नामास्येत्यसौनामाऽयम् । तथेदमिति शुक्लक्रुष्णादीनामविशेष: । इदं शुक्लमिदं कृष्णं वा रूपमस्येतीदंरूप: । तदिदमव्याकृतं वस्त्वेत हर्येतस्मिन्नपि काले नामरूपाभ्यामेव व्याक्रियतेऽसौनामाऽयमिदंरूप इति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP