चतुर्थं ब्राम्हणम् - भाष्यं २३

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- विज्ञानस्य च मिथ्याज्ञाननिवर्तकत्वव्यतिरेकेणाकारकत्वमित्यवोचाम । न च वचनं वस्तुन: सामर्थ्यजनकम । ज्ञापकं हि शास्त्रं न कारकमिति स्थिति: । स एष इह प्रविष्ट इत्यादिवाक्येषु च परस्यैव प्रवेश इति स्थितम । तस्माद्वहनेति न ब्रम्हाभाविपुरुषकल्पना साध्वी ॥

भाष्यं :--- इष्टार्थबाधनाच्च । सैन्धवघनवदनवदनन्तरमबाहयमेकरसं ब्रम्होति विज्ञानं सर्वस्यामुपनिषदि प्रतिपिपादयिषितोऽर्थ: काण्डद्वयेऽप्यन्तेऽवधारणादवगम्यत इत्यनुशासनमेतावदरे खल्वमृतत्वमिति ॥

भाष्यं :---  तथा सर्वशाखोपनिषत्सु च ब्रम्हौकत्वविज्ञानं निश्चितोऽर्थ: । तत्र यदि संसारी ब्रम्हाणोऽन्य आत्मानमेवावेदिति कल्प्येत । इष्टस्यार्थस्य बाधनं स्यात् । तथा च शास्त्रमुपक्रमोपसंहारयोर्विरोधादसमञ्जसं कल्पितं स्यात ॥

भाष्यं :--- व्यपदेशानुपपत्तेश्च । यदि चाऽत्मानमेवावेदिति संसारी कल्प्येत । ब्रम्हाविद्येतिव्यपदेशो न स्यात् । आत्मानमेवावेदिति संसारिण एव वेद्यत्वोपपत्ते: । आत्मेति वेदितुरन्यदुच्यत इति चेन्न । अहं ब्रम्हास्मीति विशेषणात । अन्यश्चेद्वेद्य: स्यादयमसाविति वा विशेष्येत न त्वहमस्मीति । अहमस्मीति विशेषणादात्मानमेवावेदिति चावधार्णान्निश्चितमात्मैव ब्रम्होत्यवगम्यते । तथा च सत्युपपन्नो ब्रम्हाविद्याव्यपदेशो नान्यथा । संसारिविद्या हयन्यथा स्यात । न च ब्रम्हात्वाब्रम्हात्वे हयेकस्योपपन्ने परमार्थतस्तम:प्रकाशाविव भानोर्विरुद्धत्वात् ॥

भाष्यं :---   न चोभयनिमित्ते ब्रम्हाविद्योति निश्चितो व्यपदेशो युक्तस्तदा ब्रम्हाविद्या संसारिविद्या च स्यात् । न च वस्तुनो‍ऽर्धजरतीयत्वं कल्पयितुं युक्तं तत्त्वज्ञानविवक्षायाम् । श्रोतु: संशयो हि तथा स्यात् । निश्चितं च ज्ञानं पुरुषार्थसाधनमिष्यते “यस्य स्यादद्धा व विचिकित्सा‍ऽस्ति” “संशयात्मा विनश्यति” इतिश्रुतिस्मृतिभ्याम् । अतो न संशयितो वाक्यार्थो वाच्य: परहितार्थिना ॥

भाष्यं :---  ब्रम्हाणि साधकत्वकल्पनाऽस्मदादिष्विवापेशला । तदात्मानमेवावेत्तस्मात्तत्सर्वमभवदिति चेन्न । शास्त्रोपालम्भात् । न हयस्मत्कल्पनेयं शास्त्रकृता तु तस्माच्छास्त्रस्यायमुपालम्भ: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP