संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं ३७ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं ३७ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं ३७ Translation - भाषांतर भाष्यं :--- आत्मैवेदमग्र आसीत । आत्मैव स्वाभाविकोऽविद्वान्कार्यकरणसंघातलक्षणो वर्ण्यग्रे प्राग्दारसंबन्धादात्मेत्यभिधीयते । तस्मादात्मन: पृथग्भूतं काम्यमानं जायादिभेदरूपं नाऽऽसीत्स एवैक आसीज्जायाद्येषणाबीजभूताविद्यावानेक एवाऽऽसीत । स्वाभाविक्या स्वात्मनि कर्त्रादिकारकरियाफलात्मकताध्यारोपलक्षणयाऽविद्यावासनया वासित: सोऽकामयत कामितवान ॥ भाष्यं :--- कथम् । जाया कर्माधिकारहेतुभूता मे मम कर्तु: स्यात्तया विनाऽहमनधिकृत एव कर्मण्यत: कर्माधिकारसंपत्तये भवेज्जाया । अथाहं प्रजायेत प्रजारूपेणाहमेवोत्पद्येय । अथ वित्तं मे स्यात्कर्मसाधनं गवादिलक्षणमथाहमभुदयनि:श्रेयससाधनं कर्म कुर्वीय । येनाहमनृनी भूत्वा देवादीनां लोकान्प्राप्नुयां तत्कर्म कुर्वीय । काम्यानि च पुत्रवित्तस्वर्गादिसाधनान्येतावान्वै काम एतावद्विषयपरिच्छिन्न इत्यर्थ: । एतावानेव हि कामयितव्यो विषयो यदुत जायापुत्रवित्तकर्माणि ॥भाष्यं :--- साधनलक्षणैषणा । लोकाश्च त्रयो मनुष्यलोक: पितृलोको देवलोक इति फलभूता: साधनैषणायाश्चास्या: । तदर्था हि जायापुत्रवित्तकर्मलक्षणा साधनैषणा । तस्मात्सैवैकैषणा या लोकैषणा । सैव सती एषणा साधनापेक्षेति द्विधाऽतोऽवधारयिष्यर्युभे हयेते एषण एवेति ॥भाष्यं :--- फलार्थत्वात्सर्वारम्भस्य लोकैषणाऽर्थप्राप्तोक्तैवेत्येतावान्वा एतावानेव काम इत्यवध्रियते । भोजनेऽभिहिते तृप्तिर्न हि पृथगभिधेया तदर्थत्वाद्भोजनस्य ॥भाष्यं :--- ते एते एषणे साध्यसाधनलक्षणे कामो येन प्रयुक्तोऽविद्वानवश एव कोशकारवदात्मानं वेष्टयति कर्ममार्ग एवाऽऽत्मानं प्रणिदधद्वहिर्मुखीभूतो न स्वं लोकं प्रतिजानाति तथा च तैत्तिरीयकेऽग्निमुग्धो हैव धूमतान्त: स्वं लोकं न प्रतिजानातीति ॥ कथं पुनरेतावत्त्वमवधार्यते कामानामनन्तत्वादनन्ता हि कामा इत्येतदाशङक्य हेतुमाह । यस्मान्नेच्छंश्चनेच्छन्नप्यतोऽस्मात्फलसाधनलक्षणादभूयोऽधिकतरं न विन्देन्न लभेत । न हि लोके फलसाधनव्यतिरिक्तं द्दष्टमद्दष्टं वा लब्धव्यमस्ति । लब्धव्यविषयो हि कामस्तस्य चैतव्द्यतिरेकेणाभावाद्युक्तं वक्तुमेतावान्वै काम इति ॥भाष्यं :--- एतदुक्तं भवति द्दष्टार्थमद्दष्टार्थं वा साध्यसाधनलक्षणमविद्यावत्पुरुषाधिकारविषयमेषणाद्वयं कामोऽतोऽस्माद्विदुषा व्युत्थातव्यमिति ॥भाष्यं :--- यस्मादेवमविद्वानात्मा कामी पूर्वं कामयामास तथा पूर्वतरोऽपि । एषा लोकस्थिति: । प्रजापतेश्चैवमेष सर्ग आसीत्सोऽबिभेदविद्यया तत: कामप्रयुक्त एकाक्यरममाणोऽरत्युपघाताय स्त्रियमैच्छत्तां समभवत्तत: सर्गोऽयमासीदिति हयुक्तम । तस्मात्तत्सृष्टावेतहर्येतस्मिन्नपि काल एकाकी सन्प्राग्दारक्रियात: कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्युक्तार्थं वाक्यम् ॥भाष्यं :--- स एवं कामयमान: संपादयंश्च जायादीन्यावत्समस्तान्स एतेषां यथोक्तानां जायादीनामेकैकमपि न प्राप्रोत्यकृत्स्नोऽहमित्येव तावदात्मानं मन्यते । पारिशेष्यात्समस्तानेवैतान्संपादयति यदा तदा तस्य कृत्स्नता ॥भाष्यं :--- यदा तु न शक्रोति कृत्स्नतां संपादयितुं तदाऽस्य कृत्स्नत्वसंपादनायाऽऽह । तस्यो तस्याक्रुत्स्नत्वाभिमानिन: कृत्स्नतेयमेवं भवति । कथम । अयं कार्यकरणसंघात: प्रविभज्यते तत्र मनोनुवृत्ति हीतरत्सर्वं कार्यकरणजातमिति मन:प्रधानत्वादात्मेवाऽऽत्मा । यथा जायादीनां कुटुम्बपतिरात्मैव तदनुकारित्वाज्जायादिचतुष्टयस्य । एवमिहापि मन आत्मा परिकल्प्यते कृत्स्नतायै ॥भाष्यं :--- तथा वाग्जाया मनोनुवुत्तित्वसामान्याद्वाच: । वागिति शब्दश्चोदनादिलक्षणो मनसा श्रोत्रद्वारेण गृहयतेऽवधार्यते प्रयुज्यते चेति मनसो जायेव वाक । ताभ्यां च वाङमनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राण: कर्मार्थमिति प्राण: प्रजेव । तत्र प्राणचेष्टादिलक्षणं कर्म चक्षुर्द्दष्टवित्तसाध्यं भवतीति चक्षुर्मानुषं वित्तम । तदद्विविधं वित्तं मानुषमितरच्चातो विशिनष्टीतरवित्तनिवृत्त्यर्थ मानुषमिति । गवादि हि मनुष्यसंबन्धिवित्तं चक्षुर्ग्राहयं कर्मसाधनं तस्मात्तत्स्थानीयम । तेन संबन्धाच्चक्षुर्मानुषं वित्तम् । चक्षुषा हि यस्मात्तन्मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थ: ॥भाष्यं :--- किं पुनरितरद्वित्तं श्रोत्रं दैवं देवविषयत्वाद्विज्ञानस्य । विज्ञानं दैवं वित्तं तदिह श्रोत्रमेव संपत्तिविषयम । कस्माच्छ्रोत्रेण हि यस्मात्तद्दैवं वित्तं विज्ञानं शृणोति । अत: श्रोत्राधीनत्वाद्विज्ञानस्य श्रोत्रमेव तदिति ॥भाष्यं :--- किं पुनरेतैरात्मादिवित्तान्तैरिह निर्वर्त्यं कर्मेत्युच्यते । आत्मैवाऽऽत्मेति शरीरमुच्यते । कथं पुनरात्मा कर्मस्थानीयोऽस्य कथं कर्महेतुत्वम् । आत्मना हि शरीरेण यत: कर्म करोति । तस्याकृत्स्नत्वाभिमानिन एवं कृत्स्नता संपन्न । यथा बाहयजायादिलक्षणैवम् । तस्मात्स एष पाङक्त: पञ्चभिर्निर्वृत: पाङक्तो: यज्ञो दर्शनमात्रनिर्वृतोऽकर्मिणोऽपि ॥भाष्यं :--- कथं पुनरस्य पञ्चत्वसंपत्तिमात्रेण यज्ञत्वमुच्यते । यस्माद्वाहयोऽपि यज्ञ: पशुपुरुषसाध्य: स च पशु: पुरुषश्च पाङक्त एव । यथोक्तमनआदिपञ्चत्वयोगात । तदाह पाडक्त: पशुर्गवादि: पाङक्त: पुरुष: पशुत्वेऽप्यधिकृतत्वेनास्य विसेष: पुरुषस्येति पृथक्पुरुषग्रहणम । किं बहुना पाङक्तमिदं सर्वं कर्मसाधनं फलं च यदिदं किं च यत्किंचिदिदं सर्वम । एवं पाडक्तं यज्ञमात्मानं य: संपादयति स तदिदं सर्वं जगदात्मत्वेनाऽऽप्रोति य एवं वेद ॥१७॥॥ इति बृहदारण्यकभाष्ये प्रथमाध्याये चतुर्थं ब्राम्हणम् ॥४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP