संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं ३४ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं ३४ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं ३४ Translation - भाषांतर भाष्यं :--- यस्मादेवं तस्मात्सत्यं यथाशास्त्रं वदन्तं व्यवहारकाल आहु: समीपस्था उभयविवेकज्ञा धर्मं वदतीति प्रसिद्धं लौकिकं न्यायं वदतीति । तथा विपर्ययेण धर्मं वा लौकिकं व्यवहारं वदन्तमाहु: सत्यं वदतीति शास्त्रादनपेतं वदतीति ॥भाष्यं :--- एतद्यदुक्तमुभयं ज्ञायमानमनुष्ठीयमानं चैतद्धर्म एव भवति । तस्मात्स धर्मो ज्ञानानुष्ठानलक्षण: शास्त्रज्ञानितरांश्च सर्वानेव नियमयति । तस्मात्स क्षत्रस्यापि क्षत्रम् । अतस्तदभिमानोऽविद्वांस्तद्विशेषानुष्ठानाय ब्रम्हाक्षत्रविटशूद्रनिमित्तविशेषमभिमन्यते । तानि च निसर्गत एव कर्माधिकारनिमित्तानि ॥श्रुति :--- तदेतदब्रम्ह क्षत्रं विटशूद्रस्तदग्निनैव देवेषु ब्रम्हाभवदब्राम्हाणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्य: शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राम्हाणे मनुष्येष्वेताभ्या हि रूपाभ्यां ब्रम्हाभवत ॥अर्थ :--- तें हें ब्राम्हाण, क्षत्रिय, वैश्य व शुद्र असें चातुर्वण्य आहे. त्यांना उत्पन्न करणारें तें ब्रम्हा अग्नीच्या रूपानें देवांतील ब्राम्हाण झालें; ब्राम्हाणरूपानें मनुष्यांतील ब्राम्हाण झालें. तें क्षत्रियरूपानें क्षत्निय वैश्यरूपानें वैश्य व शुद्ररूपानें शूद्र झालें. तस्मात अग्नीमध्येंच कर्म करून देवांतील कर्मफल इच्छितात; आणि मनुष्यांतील फलाची इच्छा झाल्यास केवल ब्राम्हाणजातीच्या आश्रयानेम कर्मसिद्धि होते. कारण ब्रम्हा अग्नि व ब्राम्हाण या दोन रूपांनी झालें. भाष्यं :--- तदेतच्चातुवर्ण्यं सृष्टं ब्रम्हा क्षत्रं विट शूद्र इत्यत्तरार्थ उपसंहार: । यत्तत्स्त्रष्ट्ट ब्रम्हा तदग्निनैव नान्येन रूपेण देवेषु ब्रम्हा ब्राम्हाणजातिरभवत । ब्राम्हाणो ब्राम्हाणस्वरूपेण मनुष्येषु ब्रम्हाभवदितरेषु वर्णेषु विकारान्तरं प्राप्य क्षत्रियेण क्षत्रियोऽभवदिन्द्रादिदेवताधिष्ठितो वैश्येन वैश्य: शूद्रेण शूद्र: ॥भाष्यं :--- यस्मात्क्षत्रादिषु विकारापन्नमग्नौ ब्राम्हाण एव चाविकृतं स्रष्ट ब्रम्हा तस्मादग्नावेव देवेषु देवानां मध्ये लोकं कर्मफलमिच्छन्त्यग्निसंबद्धं कर्म कृत्वेत्यर्थ: । तदर्थमेव हि तदब्रम्हा कर्माधिकरणत्वेनाग्निरूपेण व्यवस्थितम् । तस्मात्तस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्त इत्येतदुपपन्नम् ॥भाष्यं :--- ब्राम्हाणो मनुष्येषु मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां नाग्न्यादिनिमित्तक्रियापेक्षा किं तर्हि जातिमात्नस्वरूपप्रतिलम्भेनैव पुरुषार्थसिद्धि: । यत्र तु देवाधीना पुरुषार्थसिद्धिस्तत्रैवाग्न्यादिसंबद्धाक्रियापेक्षा । स्मृतेश्व - “जप्येनैव तु संसिध्येदब्राम्हाणो नात्र संशय: । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राम्हाण उच्यते” इति ॥भाष्यं :--- पारिव्राज्यदर्शनाच्च । तस्मादब्राम्हाणत्व एव मनुष्येषु लोकं कर्मफलमिच्छन्ति । यस्मादेताभ्यां हि ब्राम्हाणाग्निरूपाभ्यां कर्मकर्त्रधिकरणरूपाभ्यां यत्स्त्रष्ट्ट ब्रम्हा साक्षादभवत ॥भाष्यं :--- अत्र तु परमात्मलोकमग्नौ ब्राम्हाणे चेच्छन्तीति केचित । तदसत । अविद्याधिकारे कर्माधिकारार्थं वर्णविभागस्य प्रस्तुतत्वात्परेण च विशेषणात । यदि हात्र लोकशब्देन पर एवाऽऽत्मोच्येत परेण विशेषणमनर्थकं स्यात्स्वं लोकमद्दषटेवति । स्वलोकव्यतिरिक्तश्चेदग्न्यधीनतया प्रार्थ्यमान: प्रकृतो लोकस्तत: स्वमिति युक्तं विशेषणं प्रकृतपरलोकनिवृत्त्यर्थत्वात । स्वत्वेन चाव्यभिचारा त्परमात्मलोकस्य । अविद्याकृतानां च स्वत्वव्यभिचारात । ब्रवीति च कर्मकृतानां व्यभिचारं क्षीयत एवेति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP