संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं ३० चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं ३० सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं ३० Translation - भाषांतर भाष्यं :--- एतस्य हयविदुषो वर्णाश्रमादिप्रविभागवतोऽधिकृतस्य कर्मणो विद्यासहितस्य केवलस्य च शास्त्रोक्तस्य कार्यं मनुष्यत्वादिको ब्रम्हान्त उत्कर्ष: । शास्त्रोक्तविपरीत्स्य च स्वाभाविकस्य कार्यं मनुष्यत्वादिको ब्राम्हान्त उत्कर्ष: । शास्त्रोक्तविपरीतस्य च स्वाभाविकस्य कार्यं मनुष्यत्वादिक एव स्थावरान्तोऽपकर्ष: । यथा चैतत्तथा ‘अथ त्रयो वाव लोका: इत्यादिना वक्ष्याम: कृत्स्ननैवाध्यायशेषेण । विद्यायाश्च कार्यं सर्वात्मभावापत्तिरित्येतत्संक्षेपतो दर्शितम् । सर्वा हीयमुपनिषद्विद्याविद्याविभागप्रदर्शनेनैवोपक्षीणा । यथा चैषोऽर्थ: कृत्स्नस्य शास्त्रस्य तथा प्रदर्शयिष्याम: । यस्मादेवं तस्मादविद्यावन्तं पुरुषं प्रति देवा ईशत एव विघ्नं कर्तुमनुग्रहं चेत्येतद्दर्शयति ॥श्रुति :--- यथा ह वै बहव: पशवो मनुष्यं भुञ्ज्युरेवमेकैक: पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीय़मानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्यु: ॥१०॥अर्थ :--- व्यवहारांत ज्याप्रमाणें पुष्कळ पशू मनुष्यास पाळतात त्याप्रमाणें एकेक पुरुष - मनुष्य देवांना पाळतो. एखाद्याच पशूला व्याघ्रादिकानें उचलून नेलें असतांहि मनुष्याचें अप्रिय होतें. मग पुष्कळ पशूंचा अपहार केल्यास काय विचरावें ? म्हणून मनुष्यांनीं ब्रम्हातत्त्वाला जाणावें, हें देवांना प्रिय नाहीं. ॥१०॥भाष्यं :--- यथा ह वै लोके बहवो गोश्वादय: पशवो मनुष्यं स्वामिनमात्मनोऽधिष्ठातारं भुञ्ज्यु: पालयेयुरेवं बहुपशुस्थानीय एकैकोऽविद्वान्पुरुषो देवा न्देवानिति पित्राद्युपलक्षणार्थं भुनक्ति पालयतीति । इम इन्द्रादयोऽन्ये मत्तो ममेशितारो भृत्य इवाहमेषां स्तुतिनमस्कारेज्यादिनाऽऽराधनं कृत्वाऽभ्युदयं नि:श्रेयसं च तत्प्रत्तं फलं प्राप्स्यामीत्येवमभिसंधि: ॥भाष्यं :--- तत्र लोके बहुपशुमतो यथैकस्मिन्नेव पशावादीयमाने व्याघ्रादिनाऽपहिनयमाणे महदप्रियं भवति तथा बहुपशुस्थानीय एकस्मिन्पुरुषे पशुभावाद्वयुत्तिष्ठत्यप्रियं भवतीति किं चित्र देवानां बहुपश्वपहरण इव कुटुम्बिन: ।तस्मादेषां देवानां तन्न प्रियं किं तद्यदेतदब्रम्हात्मतत्त्वं कथंचन मनुष्या विद्युर्विजानीयु: । तथा च स्मरणमनुगीतासु भगवतो व्यासस्य । “क्रियावद्भिर्हि कौन्तेय देवलोक: समावृत: । न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम्” इति ॥ भाष्यं :--- अतो देवा: पशूनिव व्याघ्रादिभ्यो ब्रम्हाविज्ञानाद्विघ्नमाचिकीर्षन्ति । अस्मदुपभोग्यत्वान्मा व्युत्तिष्ठेयुरिति । यं तु मुमोचयिषन्ति तं श्रद्धादिभिर्योक्ष्यन्ति विपरीतमश्रद्धादिभि: । तस्मान्मुमुक्षुर्देवाराधनपर: श्रद्धाभक्तिपर: प्रणेयोऽप्रमादी स्याद्विद्याप्राप्तिं प्रति विद्यां प्रतीति वा काक्वैतत्प्रदर्शितं भवति देवाप्रियवाक्येन ॥१०॥भाष्यं :--- सूत्रित: शास्त्रार्थ आत्मेत्येवोपासीतेति । तस्य च व्याचिख्यासितस्य सार्थवादेन तदाहुर्यदब्रम्हाविद्ययेत्यादिना संबन्धप्रयोजने अभिहिते ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP