संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं २५ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं २५ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं २५ Translation - भाषांतर भाष्यं :--- तयाऽविपरिलुप्तया नित्यया द्दष्टया स्वरूपभूतया स्वयंज्योति:समाख्ययेतरामनित्यां द्दष्टिं स्वप्नबुद्धान्तयोर्वासनाप्रत्ययरूपां नित्यमेव पश्यन्द्दष्टेर्द्रष्टा भवति । एवं च सति द्दष्टिरेव स्वरूपमस्याग्न्यौष्ण्यवन्न काणादादीनामिव द्दष्टिव्यतिरिकोऽन्योऽचेतनो द्रष्टा । तदब्रम्हाऽऽत्माननमेव नित्यद्दग्रूपमध्यारोपितानित्यद्दष्टयादिवर्जितमेवावेद्विदितवत् ॥भाष्यं :--- ननु विप्रतिषिद्धम “न विज्ञातेर्विज्ञातारं विजानीया:” इति श्रुतेर्विज्ञातुर्विज्ञानम् । न । एवं विज्ञानान्न विप्रतिषेध: । एवं द्दष्टेर्द्रष्टेति विज्ञायत एव । अन्यज्ञानानपेक्षत्वाच्च । न च द्रष्टुर्नित्यैव द्दष्टिरित्येवं विज्ञाते द्रष्ट्टविषयां द्दष्टिमन्यामाकाङक्षते । निवर्तते हि द्रष्ट्टविषयद्दष्टयाकाडक्षा तदसंभवादेव । न हयविद्यमाने विषय आकाङक्षा कस्यचिदुपजायते । न च द्दश्या द्दष्टिर्द्रष्टारं विषयीकर्तुमुत्सहते । यतस्तामाकाङक्षेत । न च स्वरूपविषयाकाडक्षा स्वस्यैव । तस्मादज्ञानाध्यारोपणनिवृत्तिरेवाऽऽत्मानमेवावेदित्युक्तं नाऽऽत्मनो विषयीकरणम् ॥श्रुति :--- अहं ब्रम्हासमीति । तस्मात्तत्सर्वमभवत तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तर्थर्षीणां तथा मनुष्याणां तद्वैतत्पश्यन्नृषिर्वामदेव: प्रतिपेदेऽहं मनुरभव सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रम्हास्मीति स इद सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा हयेषास भवति ॥ अर्थ :--- मी ब्रम्हा आहें, असें तें ब्रम्हा जाणतें झालें व त्या ज्ञानामुळेंच तें सर्व झालें. त्या देवांतील जो जो ज्ञानसंपन्न झाला तो तो आत्मातें ब्रम्हाच झाला त्याचप्रमाणें ऋषींतील व मनुष्यांतील जो जो ज्ञानी झाला तो तो तों ब्रम्हा झाला. त्या हया ब्रम्हाला पाहणारा वामदेव ऋषि ‘मी मनु झालों व सूर्य झालों’ असें जाणता झाला. या वर्तमान समयींहि जो या ब्रम्हाला मी ब्रम्हा आहें, अशा रीतीनें जाणतो तो हें सर्व होतो. त्याच ब्रम्हावेत्त्याच्या नाशाला देव व मनुष्यहि समर्थ होत नाहींत. कारण तो त्यांचा आत्माच होतो.भाष्यं :--- तत्कथमवेदित्याह । अहं द्दष्टेर्द्रष्टाऽऽत्मा ब्रम्हास्मि भवामीति । ब्रम्होति यत्साक्षादपरोक्षत्सर्वान्तर आत्माऽशनायाद्यतीतो नेति नेत्यस्थूलमनण्वित्येवमादिलक्षणं तदेवाहमस्मि नान्य: संसारी यथा भवानाहेति । तस्मादेवं विज्ञानात्तदब्रम्हा सर्वमभवत् । अब्रम्हाध्यारोपणापगमात्तत्कार्यस्यासर्वत्वस्य निवृत्त्या सवमभवत् । तस्माद्युक्तमेव मनुष्या मन्यन्ते यदब्रम्हाविद्यया सर्वं भविष्याम इति ॥भाष्यं :--- भाष्यं :--- यत्पृष्टं किमु तदब्रम्हावेद्यस्मात्तत्सर्वमभवदिति तन्निर्णीतं ब्रम्हा वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रम्हास्मीति तस्मात्तत्सर्वमभवदिति । तत्तत्र यो यो देवानां मध्ये प्रत्यबुध्यत प्रतिबुद्धवानात्मानं यथोक्तेन विधिना स एव प्रतिबुद्ध आत्मा तदब्रम्हाभवत्तथर्षीणां तथा मनुष्याणां च मध्ये । देवानामित्यादिलोकद्दष्टयपेक्षया न ब्रम्हात्वबुद्धयोच्यते । पुर: पुरुष आविशदिति सर्वत्र ब्रम्हौवानुपविष्टमित्यवोचाम । अत: शरीराद्य्पाधिजनितलोकद्दष्टयपेक्षया देवानामित्याद्युच्यते । परमार्थतस्तु तत्र ब्रम्हौवाग्र आसीत्प्राक्प्रतिबोधाद्देवादिशरीरेष्वन्यथैव विभाव्यमानम् । तदात्मानमेवावेत्तथैव च सर्वमभवत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP