संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं १३ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं १३ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १३ Translation - भाषांतर भाष्यं :--- कुत: पुनरकृत्स्नत्वमिति । उच्यते । प्राणन्नेव प्राणनक्रियामेव कुर्वन्प्राणो नाम प्राणसमाख्य: प्राणाभिधानो भवति । प्राणनक्रियाकर्तृत्वाद्धि प्राण: प्राणितीत्युच्यते नान्यां क्रियां कुर्वन् । यथा लावक: पाचक इति । तस्मात्क्रियान्तरविशिष्टस्यानुपसंहारादक्रुत्स्नो हि स: । तथा वदन्वदनक्रियां कुर्वन्वक्तीति वाक्पश्यंश्चक्षुश्चष्ट इति चक्षुर्द्रष्टा शृण्वञ्शृणोतीति श्रोत्रम् ॥भाष्यं :--- प्राणन्नेव प्राणो वदन्वागित्याभ्यां क्रियाशक्त्युद्भव: प्रदर्शितो भवति । पश्यंश्चक्षु: शृण्वञ्श्रोत्रमित्याभ्यां विज्ञानसक्त्युद्भव: प्रदर्श्यते । नामरूपविषयत्वाद्विज्ञानशक्ते: । श्रोत्रचक्षुषी विज्ञानस्य साधने विज्ञानं तु नामरूपसाधनम् । न हि नामरूपव्यतिरिक्तं विज्ञेयमस्ति । तयोश्चोपलम्भे करणं चक्षु:श्रोत्रे ॥भाष्यं :--- क्रिया च नामरूपसाध्या प्राणसमवायिनी । तस्या: प्राणाश्रयाया अभिव्यक्तो वाक्करणम् । तथा पाणिपादपाय़ूपस्थाख्यानि । सर्वेषामुपलक्षणार्था वाक । एतदेव हि सर्वं व्याकृतम “त्रयं वा इदं नाम रूपं कर्म” इति हि वक्ष्यति ॥भाष्यं :--- मन्वानो मनो मनुत इति । ज्ञानशक्तिविकासानां साधारणं करणं मनो मनुतेऽनेनेति । पुरुषस्तु कर्ता सन्मन्वानो मन इत्युच्यते । तान्येतानि प्राणदीन्यस्याऽऽत्मन: कर्मनामानि कर्मजानि नामानि कर्मनामान्येव न तु वस्तुमात्रविषयाणि । अतो न कृत्स्नात्मवस्त्ववद्योतकानि । एवं हयसावात्मा प्राणनादिक्रियया तत्तत्क्रियाजनितप्राणादिनामरूपाभ्यां व्याक्रियमाणोऽवद्योत्यमानोऽपि ॥भाष्यं :--- स योऽतोऽस्मात्प्राणनादिक्रियासमुदयादेकैकं प्राणं चक्षुरिति वा विशिष्टमनुपसंहृतेतरविशिष्टक्रियात्मकं मनसाऽयमात्मेत्युपास्ते चिन्तयति न स वेद स न जानाति ब्रम्हा । कस्मात् । अकृत्स्नोऽसमस्तो हि यस्मादेष आत्माऽस्मात्प्राणनादिसमुदायादत: प्रविभक्त एकैकेन विशेषणेन विशिष्ट इतरधर्मान्तरानुपस्शंहाराद्भवति ॥भाष्यं :--- यावदयमेवं वेद पश्यामि शृणोमि स्पृशामीति वा स्वभावप्रवृत्तिविशिष्टं वेद तावदञ्जसा कृत्स्नमात्मानं न वेद । कथं पुन: पश्यन्वेदेत्याह । आत्मेत्येवाऽऽत्मेति प्राणादीनि विशेषणानि यान्युक्तानि तानि यस्य स आप्नुवंस्तान्यत्मेत्युच्यते । स तथा कृत्स्नविशेषोपसंहारी सन्कृत्स्नो भवति । वस्तुमात्ररूपेण हि प्राणाद्युपाधिविशेषक्रियाजनितानि विशेषणानि व्याप्नोति तथा च वक्ष्यति “ध्यायतीव लेलायतीव” इति । तस्मादात्मेत्येवोपासीत । एवं कृत्स्नो हयसौ स्वेन वस्तुरूपेण गृहयमाणो भवति ॥भाष्यं :--- कस्मात्कृत्स्न इत्याशङ्क्याऽऽह । अत्रास्मिन्नात्मनि हि यस्मान्निरुपाधिके जलसूर्यप्रतिबिम्बभेदा इवाऽऽदित्ये प्राणाद्युपाधिकृता विशेषा: प्राणादिकर्मजनामाभिधेया यथोक्ता हयेत एकमभिन्नतां भवन्ति प्रतिपद्यन्ते ॥भाष्यं :--- आत्मेत्येवोपासीतेति नापूर्वविधि: । पक्षे प्राप्तत्वात् । “यत्साक्षादपरोक्षादब्रम्हा” “ कतम आत्मेति” “योऽयं विज्ञानमय:” इत्येवमाद्यात्मप्रतिपादनपराभि: श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम् । तत्राऽऽत्मस्वरूपविज्ञानेनैव तद्विषयानात्माभिमानबुद्धि:कारकादिक्रियाफलाध्यारोपणात्मिकाऽविद्या निवर्तिता । तस्यं निवर्तितायां कामादिदोषानुपपत्तेरनात्मचिन्तानुपपत्ति: । पारिशेष्यादात्मचिन्तैव । तस्मात्तदुपासनमस्मिन्पक्षे न विधातव्यं प्राप्तत्वात् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP