चतुर्थं ब्राम्हणम् - भाष्यं २४

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  न च ब्रम्हाण इष्टं चिकीर्षुणा शास्त्रार्थविपरीतकल्पनया स्वार्थपरित्याग: कार्य: । न चैतावत्येवाक्षमा युक्ता भवत: । सर्वं हि नानात्वं ब्रम्हाणि कल्पितमेव “एकधैवानुद्रष्टव्यम” “नेह नानाऽस्ति किंचन” “यत्र हि द्वैतमिव भवति” “एकमेवाद्वितीयम्” इत्यादिवाक्यशतेभ्य: । सर्वो हि लोकव्यवहारो ब्रम्हाण्येव कल्पितो न परमार्थ: सन्नित्यत्यल्पमिदमुच्यत इयमेव कल्पना‍ऽपेशलेति । तस्माद्यत्प्रविष्टं स्रष्ट ब्रम्हा तदब्रम्हा ॥

भाष्यं :---  वैशब्दोऽवधारणार्थ: । इदं शरीरस्थं यदगृहयतेऽग्रे प्राक्प्रतिबोधादपि ब्रम्हौवाऽऽसीत्सर्वं देदम । किंत्वप्रतिबोधादब्रम्हास्म्यसर्वं चेत्यात्मन्यध्यारोपात्कर्ताऽहं क्रियावान्फलानां च भोक्ता सुखी दु:खी संसारीति चाध्यारोपयति । परमार्थतस्तु ब्रम्हौव तद्विलक्षणं सर्वं च ॥ तत्कथंचिदाचार्येण दयालुना प्रतिबोधितं नासि संसारीत्यात्मानमेवावेत्स्वाभाविकं । अविद्याध्यारोपितविशेषवर्जितमत्येवशब्दस्यार्थ: ॥

भाष्यं :---  ब्रूहि कोऽसावात्मा स्वाभाविकोयमात्मानं विदितवदब्रम्हा । ननु न स्मरस्यात्मानं दर्शितो हयसौ य इह प्रविश्य प्राणित्यपानिति  व्यानित्युदानिति समानितीति ॥

भाष्यं :---  नन्वसौ गौरसावश्व इत्येवमसौ व्यपदिश्यते भवता नाऽऽत्मानं प्रत्यक्षं दर्शयसि । एवं तर्हि द्रष्टा श्रोता मन्ता विज्ञाता स आत्मेति । नन्वत्रापि दर्शनादिक्रियाकर्तु: स्वरूपं न प्रत्यक्षं दर्शयसि । न अहि गमिरेव गन्तु: स्वरूपं छिदिर्वा छेत्तु: । एवं तर्हि द्दष्टेर्द्रष्टा श्रुते: श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता स आत्मेति । नन्वत्र को विशेषो द्रष्टरि । यदि द्दष्टेर्द्रष्टा यदि वा घटस्य द्रष्टा सर्वथाऽपि द्रष्टैव । द्रष्टव्य एव तु भवान्विशेषमाह द्दष्टेर्द्रष्टेति । द्रष्टा तु यदि द्दष्टेर्यदि वा घटस्य द्रष्टा द्रष्टैव ॥

भाष्यं :---  न विशेषोपपत्ते: । अस्त्यत्न विशेषो यो द्दष्टेर्द्रष्टा स द्दष्टिश्चेद्बवति नित्यमेव पश्यति द्दष्टिं न कदाचिदपि द्दष्टिर्न द्दश्यते द्रष्ट्रा तत्र द्रष्टुर्द्दष्टया नित्यया भवितव्यम । अनित्या चेदद्रष्टुर्द्दष्टिस्तत्र द्दश्या या द्दष्टि: सा कदाचिन्न द्दश्येतापि यथाऽनित्यया द्दष्टया घटादि वस्तु । न च तद्वदद्दष्टेर्द्रष्टा कदाचिदपि न पश्यति द्दष्टिम ॥

भाष्यं :---  किं द्वे द्दष्टी द्रष्टुर्नित्याऽद्दश्याऽन्याऽनिया द्दश्येति । बाढम । प्रसिद्धा तावदनित्या द्दष्टिरन्धानन्धत्वदर्शनात । नित्यैव चेत्सर्वोऽनन्ध एव स्यात् । द्रष्ट्रस्तु नित्या द्दष्टि: “न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते” इति श्रुतिरनुमानाच्च । अन्धस्यापि घटाद्याभासविषया स्वप्ने द्दष्टिरुपलभ्यते । सा तर्हीतरद्दष्टिनाशे न नश्यति सा द्रष्टुर्द्दष्टि: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP