चतुर्थं ब्राम्हणम् - भाष्यं २६

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  अस्या ब्रम्हाविद्याया: सर्वभावापत्ति: फलमित्येतस्यार्थस्य द्रढिम्ने मन्त्रानुदाहरति श्रुति: । कथम् । तदब्रम्हौतदात्मानमेवाहमस्मीति पश्यन्नेतस्मादेव ब्रम्हाणो दर्शनाद्दषिर्वामदेवाख्य: प्रतिपेदे ह प्रतिपन्नवान्किल‘ । स एतस्मिन्ब्रम्हात्मदर्शनेऽवस्थित एतान्मन्त्रान्ददर्शाहं मनुरभवं सूर्यश्चेत्यादीन । तदेतदब्रम्हा पश्यन्निति ब्रम्हाविद्यापरामृश्यते । अहं मनुरभवं सूर्यश्चेत्यादिना सर्वभावापत्तिं ब्रम्हाविद्याफलं परामृशति । पश्यन्सर्वात्मभावं फलं प्रतिपेद इत्यस्मात्प्रयोगादब्रम्हविद्यासहायसाधनसाध्यं मोक्षं दर्शयति । भुञ्जानस्तृप्यतीति यद्वत् ॥

भाष्यं :---  सेयं ब्रम्हाविद्यया सर्वभावापत्तिरासीन्महतां देवादीनां वीर्यातिशयान्नेदानीमैदंयुगीनानां विशेषतो मनुष्याणामल्पवीर्यत्वादिति स्यात्कस्यचिदबुद्धिस्तव्द्युत्थापनायाऽऽह तदिदं प्रकृतं ब्रम्हा यत्सर्वभूतानुप्रविष्टं द्दष्टिक्रियादिलिङगमेतहर्येतस्मिन्नपि वर्तमानकाले य: कश्चिव्द्यावृत्तबाहयौत्सुक्य आत्मानमेवैवं वेदाहं ब्रम्हास्मीति । अपोहयोपाधिजनितभ्रान्तिविज्ञानाध्यारोपितान्विशेषान्संसारधर्मानागन्धितमनन्तरमबाहयं ब्रम्हौवाहमस्मि केवलमिति । सोऽविद्याकृतासर्वत्वनिवृत्तेर्ब्रम्हाविज्ञानादिदं सर्वं भवति ॥

भाष्यं :---  न हि महावीर्येषु वामदेवादिषु हीनवीर्येषु हीनवीर्येषु वा वार्तमानिकेषु मनुष्येषु र्बम्हाणो विशेषस्तद्विज्ञानस्य वाऽस्ति वार्तमानिकेषु पुरुषेषु तु ब्रम्हाविद्याफलेऽनैकान्तिकता शङक्यत इत्यत आहे तस्य ह ब्रम्हाविज्ञातुर्यथोक्तेन विधिना देवा महावीर्याश्च नाप्यभूत्या अभवनाय ब्रम्हासर्वभावस्य नेशते न पर्याप्ता: किमुतान्ये । ब्रम्हविद्याफलप्राप्तौ विघ्नकरणे देवादय ईशत इति का शङकेति । उच्यते देवादीन्प्रति ऋणवत्त्वान्मर्त्यानाम् । “ब्रम्हाचर्येण ऋषिभ्यो यज्ञेन देवेभ्य: प्रजया पितृभ्य:” इति हि जायमानमेवर्णवन्तं पुरुषं दर्शयति श्रुति: ॥

भाष्यं :---  पशुनिदर्शनाच्चाथो अयं वा इत्यादिलोकश्रुतेश्चाऽऽत्मनो वृत्तिपरिपिपालयिषयाऽधमर्णानिव देवा: परतन्त्रान्मनुष्यान्प्रत्यमृतत्वप्राप्तिं प्रति विघ्नं कुर्युरिति न्याय्यैवैषा शङका । स्वपशून्स्वशरीराणीव च रक्षन्ति देवा: । महत्तरां हि वृत्तिं कर्माधीनां दर्शयिष्यति देवादीनां बहुपशुसमतयैकैकस्य पुरुषस्य । तस्मादेषां तन्न पिर्यं यदेतन्मनुष्या विद्युरिति हि वक्ष्यति ॥

भाष्यं :---  यथा ह वैस्वाय लोकायारिष्टिमिच्छेदेवंहैवंविदे सर्वाणि भूतान्तरिष्टिमिच्छन्तीति च । ब्रम्हावित्त्वे पारार्थ्यनिवृत्तेर्न स्वलोकत्वं पशुत्वं चेत्यभिप्रायोऽप्रियारिष्टिवचनाभ्यामवगम्यते । तस्मादब्रम्हाविदो ब्रम्हाविद्याफलप्राप्तिं प्रति कुर्युरेव विघ्नं देवा: । प्रभाववन्तश्च हि ते ॥

भाष्यं :---  नन्वेवं सत्यन्यास्वपि कर्मफलप्राप्तिषु देवानां विघ्नकरणं पेयपानसमम् । हन्त तहर्यविस्रम्भोऽभ्य़ुदयनि:श्रेयससाधनानुष्ठानेषु । तथेश्वरस्याचिन्त्यशक्तित्वाद्विघ्नकरणे प्रभुत्वम् । तथा कालकर्ममन्त्रौषधितपसाम । एषां हि फलसंपत्तिविपत्तिहेतुत्वं शास्त्रे लोके च प्रसिद्धम । अतोऽप्यनाश्वास: शास्त्रार्थानुष्ठाने ॥

भाष्यं :---  न । सर्वपदार्थानाम नियतनिमित्तोपादानाज्जगद्वैचित्र्यदर्शनाच्च । स्वभावपक्षे च तदुभयानुपपत्ते: । सुखदु:खादिफलनिमित्तं कर्मेत्येतस्मिन् पक्षे स्थिते वेदस्मृतिन्यायलोकपरिगृहीते देवेश्वरकालास्तावन्न कर्मफलविपर्यासकर्तार: । कर्मणा काङक्षितकारकत्वात । कर्म हि शुभाशुभं पुरुषाणां देवकालेश्वरादिकारकमनपेक्ष्य नाऽऽत्मानं प्रतिलभते । लब्धात्मकमपि फलदानेऽसमर्थम क्रियाया हि कारकाद्यनेकनिमित्तोपादानस्वाभाव्यात् । तस्मात्क्रियानुगुणा हि देवेश्वरादय इति कर्मसु तावन्न फलप्राप्तिं प्रत्यविस्रम्भ: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP