संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं २८ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं २८ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं २८ Translation - भाषांतर भाष्यं :--- अथ जीवनादिप्रत्ययतिरस्करणेनैवाऽऽमरणान्तताद्विद्यासंततिरिति चेन्न । प्रत्ययेयत्तासंतानानवधारणाच्छास्त्रार्थानवधारणदोषात । इयतां प्रत्ययानां संततिरविद्याया निवर्तिकेत्यनवधारणाच्छास्त्रार्थो नावध्रियेत । तच्चानिष्टम् ॥भाष्यं :--- संततिमात्रत्वेऽवधारित एवेति चेन्नाऽऽद्यन्तयोरविशेषात् । प्रथमा विद्याप्रत्ययसंततिर्मरणकालान्ता वेति विशेषाभावादद्यन्तयो: प्रत्यययो: पूर्वोक्तौ दोषौ प्रसज्येयाताम् ॥भाष्यं :--- एवं तहर्यनिवर्तक एवेति चेन्न “तस्मात्तत्सर्वमभवत” इति श्रुते: । “भिद्यते हृदयग्रन्थि:” “तत्र को मोह:” इत्यादिश्रुतिभ्यश्च । अर्थवाद इति चेन्न । सर्वशाखोपनिषदामर्थवादत्वप्रसडगात । एतावन्मात्रार्थत्वोपक्षीणा हि सर्वशाखोपनिषद: ॥भाष्यं :--- प्रत्यक्षप्रमितात्मविषयत्वादस्त्येवेति चेन्न । उक्तपरिहारत्वात । अविद्याशोकमोहभयादिदोषनिवृत्ते: प्रत्यक्षत्वादिति चोक्त: परिहार: । तस्मादाद्योऽन्त्य: संततोऽसंततश्चेत्यचोद्यमेतन । अविद्यादिदोषनिवृत्तिफलावसानत्वाद्विद्याया: । य एवाविद्यादिदोषनिवृत्तिफलकृत्प्रत्यय आद्योऽन्त्त्य: संततोऽसंततो वा स एव विद्येत्यभ्युपगमान्न चोद्यस्यावतार्गन्धोऽप्यस्ति ॥भाष्यं :--- यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति । न । तच्छेषस्थितिहेतुत्वात । येन कर्मणा शरीरमारब्धं तद्विपरीतप्रत्ययदोषनिमित्तत्वात्तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सामर्थ्यमिति यावच्छरीरपातस्तावत्फलोपभोगाङगतया विपरीतप्रत्ययं रागादिदोषं च तावन्मात्रमाक्षिपत्येव । मुक्तेषुवत्प्रवृत्तफलत्वात्तद्धेतुकस्य कर्मण: । तेन न तस्य निवर्तिका विद्याऽविरोधात । किं तर्हि स्वाश्रयादेव स्वात्मविरोध्यविद्याकार्य यदुत्पित्सु तन्निरुणद्धयनागतत्वादतीतं हीतरत ॥भाष्यं :--- किंच न च विपरीतप्रत्ययो विद्यावत उत्पद्यते । निर्विषयत्वात् । अनवधृतविषयविशेषस्वरूपं हि सामान्यमात्रमाश्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते । यथा शुक्तिकायां अजतमिति । स च विषयविशेषावधारणवतोऽशेषविपरीतप्रत्ययाश्रास्योपमर्दितत्वान्न पूर्ववत्संभवति । शुक्तिकादौ सम्यक्प्रत्ययोत्पत्तौ पुनरदर्शनात ॥भाष्यं :--- क्वचित्तु विद्याया: पूर्वोत्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीतप्रत्ययावभासा: स्मृतयो जायमाना विपरितप्रत्ययभ्रान्तिमकस्मात्कुर्वन्ति । यथा विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रम: । सम्यग्ज्ञानवतोऽपि चेत्पूर्ववद्विपरितप्रत्यय उत्पद्यते सम्यग्ज्ञानेऽप्यविस्रम्भाच्छास्त्रार्थविज्ञानादौ प्रवृत्तिरसमञ्जसा स्यात्सर्वं च प्रमाणमप्रमाणं संपद्येत । प्रमाणाप्रमाणयोर्विशेषानुपपत्ते: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP