संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं २७ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं २७ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं २७ Translation - भाषांतर भाष्यं :--- कर्मणामप्येषां वशानुगत्वं क्वचित्स्वसामर्थ्यस्याप्रणोद्यत्वात । कर्मकालदैवद्रव्यादिस्वभावानां गुणप्रधानभावस्त्वनियतो दुर्विज्ञेयश्चेति तत्कृतो मोहो लोकस्य ॥भाष्यं :--- कर्मैंव कारकं नान्यत्फलप्राप्ताविति केचित् । दैवमेवेत्यपरे । काल इत्येके । द्रव्यादिस्वभाव इति केचित । सर्व एते संहता एवेत्यपरे । तत्र कर्मण: प्राधान्यमङगीकृत्य वेदस्मृतिवादा: “पुण्यो वै पुण्येन कर्मणा भवति पाप: पापेन” इत्यादय: ॥भाष्यं :--- यद्यप्येषां स्वविषये कस्यचित्प्राधान्योद्भव इतरेषां तत्कालीनप्राधान्यशक्तिस्तम्भस्तथाऽपि न कर्मण: फलप्राप्तिं प्रत्यनैकान्तिकत्वम् । शास्त्रन्यायनिर्धारितत्वात्कर्मप्राधान्यस्य ॥भाष्यं :--- न । अविद्यापगममात्रत्वदब्रम्हाप्राप्तिफलस्य । यदुक्तं ब्रम्हाप्राप्तिफलं प्रति देवा विघ्नं कुर्युरिति तत्र न देवानां विघ्नकरणे सामर्थ्यम । कस्मात । विद्याकालानन्तरितत्वादब्रम्हाप्रातिफलस्य । कथम । यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालस्तत्काल एव रूपाभिव्यक्ति: । एवमात्मविषयं विज्ञानं यत्कालं तत्काल एव तद्विषयाज्ञानतिरोभाव: स्यात् । अतो ब्रम्हाविद्यायां सत्यामविद्याकार्यानुपपत्ते: प्रदीप इव तम:कार्यस्य । तत्केन कस्य । विघ्नं कुर्युर्देवा: । यत्राऽऽत्मत्वमेव देवानां ब्रम्हाविद: ॥भाष्यं :--- तदेतहाहाऽऽत्मा स्वरूप ध्येय़ं यत्तत्सर्वशास्त्रैर्विज्ञेवं ब्रम्हा हि यस्मादेषां देवानां स ब्रम्हाविद्भवति । ब्रम्हाविद्यासमकालमेवाविद्यामात्रव्यवधानापगमाच्छुक्तिकाया इव रजाताभासाया: । शुक्तिकात्वमित्यवोचाम । अतो नाऽऽत्मन: प्रतिकूलत्वे देवानां प्रयत्न: संभवति । यस्य हयनात्मभूतं फलं देशकालनिमित्तान्तरितं तत्रानात्मविषये सफल: प्रयत्नो विघ्नाचरणाय देवादीनाम । न त्विह विद्यासमकाल आत्मभूते देशकालनिमित्तानन्तरितेऽवसरानुपपत्ते: ॥भाष्यं :--- एवं तर्हि विद्याप्रत्ययसंतत्यभावाद्विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादन्त्य एवाऽऽत्मप्र्त्ययोऽविद्यानिवर्तको न तु पूर्व इति ॥भाष्यं :--- न । प्रथमेनानैकान्तिकत्वात । यदि हि प्रथम: आत्मविषय: प्रत्ययोऽविद्यां न निवर्तयति तथाऽन्त्योऽपि तुल्यविषयत्वात् ॥भाष्यं :--- एवं तर्हि संततोऽविद्यानिवर्तको न विच्छिन्न इति । न । जीवनादौ सति संतत्यनुपपत्ते: । न हि जीवनादिहेतुके प्रत्यये सति विद्यासंततिरुपप द्यते विरोधात् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP