संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं १५ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं १५ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १५ Translation - भाषांतर भाष्यं :--- अब्रम्हानात्मविज्ञाननिवर्तकत्वाच्च “एकमेवाद्वितीयम्” “तत्त्वमसि” इत्येवमादिवाक्यानाम् । न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते । विरोधात् ॥भाष्यं :--- वाक्यजनितविज्ञानमात्रान्नाब्रम्हानात्मविज्ञाननिवृत्तिरिति चेन्न “तत्त्वमसि” “नेति नेति” “आत्मैवेदम” “एकमेवाद्वितीयम्” “ब्रम्हौवेदममृतम्” “नान्यदतोऽस्ति द्रष्ट्ट” “तदेव ब्रम्हा त्वं विद्धि” इत्यादिवाक्यानां तद्वादित्वात् ॥भाष्यं :--- द्रष्टव्यविधेर्विषयसमर्पकाण्येतानईति चेन्न । अर्थान्तराभावादित्युक्तोत्तरत्वात् । आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैस्तत्त्वमसीत्यादिभि: श्रवणकाल एव तद्दर्शनस्य कृतत्वादद्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युकोत्तरमेतत ॥भाष्यं :--- आत्मस्वरूपान्वाख्यानमात्रेणाऽऽत्मविज्ञाने विधिमन्तरेण न प्रवर्तत इति चेन्न । आत्मवादिवाक्यश्रवणेनाऽऽत्मविज्ञानस्य जनितत्वात्किं भो: कृतस्य करणम् । तच्छ्रवणेऽपि न प्रवर्तते इति चेन्न । अनवस्थाप्रसडगात । यथाऽऽत्मवादिवाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते तथा विधिवाक्यार्थश्रवणेऽपि विधिमन्तरेण न प्रवर्तिष्यत इति विध्यन्तरपेक्षा । तथा तदर्थश्रवणेऽपीत्यनवस्था प्रसज्येत ॥भाष्यं :--- वाक्यजनितात्मज्ञानस्मृतिसंतते: श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेन्नार्थप्राप्तत्वात्। यदैवाऽऽत्मप्रतिपादकवाक्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते तदैव तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते । आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवा: स्मृतयो न भवन्ति स्वाभाविक्योऽनात्मवस्तुभेदविषया: । अनर्थत्वावगतेश्च । आत्मावगतौ हि सत्यामन्यद्वस्त्वनर्थत्वेनावगम्यते । अनित्यदु:खाशुद्धयादिबहुदोषवत्त्वादात्मवस्तुनश्च तद्विलक्षणत्वात् । तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरबावप्राप्ति: पारिशेष्यादात्मैकत्वविज्ञानस्मृतिसंततेरर्थत एव भावान्न विधेयत्वम् ॥भाष्यं :--- शोकमोहभयासादिदु:खदोषनिवर्तकत्वाच्च तत्स्मृते: । विपरीतज्ञानप्रभवो हि शोकमोहादिदोष: । तथा च “तत्र को मोह:” “विद्वान्न बिभेति कुतश्चन” “अभयं वै जनक प्राप्तोऽसि” “भिद्यते हृदयग्रन्ति:” इत्यादिश्रुतय: ॥भाष्यं :--- निरोधस्तहर्यर्थान्तरमिति चेत । अथापि स्याच्चित्तवृत्तिनिरोधस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात्तन्त्र्रान्तरेषु च कर्तव्यतयाऽवगतत्वाद्विधेयत्वमिति चेन्न मोक्षसाधनत्वेनानवगमात । न हि वेदान्तेषु ब्रम्हात्मविज्ञानादन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते । “आत्मानमेवावेत्तस्मात्तत्सर्वमभवत्” “ब्रम्हाविदाप्नोति परम” “स यो ह वै तत्परमं ब्रम्हा वेद व्रम्हौव भवति” “आचार्यवान्पुरुषो वेद” “तस्य तावदेव चिरम्” “अभयं हि वै ब्रम्हा भवति । य एवं वेद” इत्येवमादिशृतिशतेभ्य: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP