चतुर्थं ब्राम्हणम् - भाष्यं १८

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- यत्त्वात्मानमेव लोकमुपासीतेति तदनात्मोपासनप्रसङ्गनिवृत्तिपरत्वान्न वाक्यान्तरम् ॥

श्रुति :--- तदेतत्पदनीयं सर्वस्य यदयमात्माऽनेन हयेतत्सर्वंवेद । यथा ह वै पदेनानुविन्देदेवं किर्ति श्लोंक विन्दते य एवं वेद ॥७॥

भाष्यं :--- अनिर्ज्ञातत्वसामान्यादात्मा ज्ञातव्योऽनात्मा च । तत्र कस्मादात्मोपसन एव यत्न आस्थीयत आत्मेत्येवोपासीतेति नेतरविज्ञान इति । अत्रोच्यते । तदेतदेव प्रकृतं पदनीयं गमनीयं नान्यदस्य सर्वस्येति निर्धारणार्था षष्ठी । अस्मिन्सर्वस्मिन्नित्यर्थ: । यदयमात्मा यदेतदात्मतत्त्वम् । किं न विज्ञातव्यमेवान्यत‍ । न । किं तर्हि ज्ञातव्यत्वेऽपि न पृथग्ज्ञानान्तरमपेक्षत आत्मज्ञानात् ॥

भाष्यं :--- कस्मात् । अनेनाऽऽत्मना ज्ञातेन हि यस्मादेतत्सर्वमनात्मजातमन्यद्यत्तत्सर्वं समस्तं वेद  जानाति । नन्वन्यज्ञानेनान्यन्न ज्ञायत इति । अस्य परिहारं दुन्दुभ्यादिग्रन्थेन वक्ष्याम: । कथं पुनरेतत्पदनीयमिति । उच्यते । उथा ह वै लोके पदेन गवादिखुराङकितो देश: पदमित्युच्यते तेन पदेन नष्टं विवित्सितं पशुं पदेनन्वेषमाणोऽनुविन्देल्लभेत । एवमात्मनि लब्धे सर्वमनुलभत इत्यर्थ: ॥

भाष्यं :--- नन्वात्मनि ज्ञाते सर्वमन्यज्ज्ञायत इति ज्ञाने प्रकृते कथं लाभोऽप्रकृत उच्यत इति । न । ज्ञानलाभयोरेकर्थत्वस्य विवक्षितत्वात् । आत्मनो हयलाभोऽज्ञानमेव । तस्माज्ज्ञानमेवाऽऽत्मनो लाभो नानात्मलाभवदप्राप्ताप्तिलक्षण आत्मलाभो लब्धृलब्धव्ययोर्भेदाभावात् ॥

भाष्यं :--- यत्र हयात्मनोऽनात्मा लब्धव्योअ भवति तत्राऽऽत्मा लब्धा लब्धव्योऽनात्मा । स चाप्राप्त उत्पाद्यादिक्रियाव्यवहित: कारकविशेषोपादानेन क्रियाविशेषमुत्पाद्य लब्धव्य: ॥

भाष्यं :--- स त्वप्राप्तप्राप्तिलक्षणोऽनित्यो मिथ्याज्ञानजनितकामक्रियाप्रभवत्वात्स्वप्ने पुत्रादिलाभवत् । अयं तु तद्विपरीत आत्मा । आत्मत्वादेव नोत्पाद्यादिक्रियाव्यवहित: । नित्यलब्धस्वरूपत्वेऽपि सत्यविद्यामात्रं व्यवधानम् ॥

भाष्यं :--- यथा गृहयामाणाया अपि शुक्तिकाया विपर्यतेण रजताभासाया अग्रहणं विपरीतज्ञानव्यवधानमात्रं तथा ग्रहणं ज्ञानमात्रमेव विपरीतज्ञानव्यवधानापोहार्थत्वाज्ज्ञानस्य । एवमिहाप्यात्मनोऽलाभोऽविद्यामात्रव्यवधानम् । तस्माद्विद्यया तदपोहनमात्रमेव लाभो नान्य: कदाचिदप्युपपद्यते । तस्मादात्मलाभे ज्ञानादर्थान्तरसाधनस्याऽऽनर्थक्यं वक्ष्याम: । तस्मान्निराशङकमेव ज्ञानलाभयोरेकार्थत्वं विवक्षन्नाह ज्ञानं प्रकृत्यानुविन्देदिति । विन्दतेर्लाभार्थत्वात् ॥

भाष्यं :---  गुणविज्ञानफलमिदमुच्यते । यथायमात्मा नामरूपानुप्रवेशेन ख्यातिं गत आत्मेत्यादिनामरूपाभ्यां प्राणादिसंहतिं च श्लोकं प्राप्तवानित्येवं यो वेद स कीर्तिं ख्यातिं श्लोकं च संघातमिष्टै: सह विन्दते लभते । यद्वा यथोक्तं वस्तु यो वेद मुमुक्षूणामपेक्षितं कीर्तिशब्दितमैक्यज्ञनं तत्फलं श्लोकशब्दितां मुक्तिमाप्नोतीति मुख्यमेव फलम् ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP