संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं २२ चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं २२ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं २२ Translation - भाषांतर भाष्यं :--- “पुण्यो वै पुण्येन कर्मणा भवति” “तं विद्याकर्मणी समन्वारभेते” “मन्ता बोद्धा कती विज्ञानात्मा पुरुष:” इत्येवमादिश्रुतिस्मृतिन्यायेभ्य: परस्माद्विलक्षणोऽन्य: संसार्यवगम्यते । तद्विलक्षणश्च पर: “स एष नेति नेत्यशनायाद्यत्येति य आत्माऽपहतपाप्मा विजरो विमृत्युरेतस्य वा अक्षरस्य प्रशासने” इत्यादिश्रुतिभ्य: । कणादाक्षपादादितर्कशास्त्रेषु च संसारिविलक्षण ईश्वर उपपत्तित: साध्यते । संसारदु:खापनयार्थित्वप्रवृत्तिदर्शनात्स्फुटमन्यत्वमीश्वरात्संसारिणोऽवगम्यते । “अवाक्यनादर:” “न मे पार्थास्ति” इतिश्रुतिस्मृतिभ्य: ॥भाष्यं :--- “सोऽन्वेष्टव्य: स विजिज्ञासितव्य:” “तं विदित्वा न लिप्यते” “ब्रम्हविदाप्नोति परम” “तमेव धीरो विज्ञाय” “प्रणवो धनु: शरो हयात्मा ब्रम्हा तल्लक्ष्यमुच्यते” इत्यादिकर्मकर्तृनिर्देशाच्च ॥भाष्यं :--- मुमुक्षोश्च गतिमार्गविशेषदेशोपदेशात । असति भेदे कस्य कुतो गति: स्यात्तदभावे च दक्षिणोतरमार्गविशेषानुपपत्तिर्गन्तव्यदेशानुपपत्तिश्चेति । भिन्नस्य तु परस्मादात्मन: सर्वमेतदुपपन्नम् ॥भाष्यं :--- कर्मज्ञानसाधनोपदेशाच्च । भिन्नश्चेदब्रम्हाण: संसारी स्याद्युक्तस्तं प्रत्यभ्युदयनि:श्रेयससाधनयो: कर्मज्ञानयोरुपदेशो नेश्वरस्याऽऽप्तकामत्वात् । तस्माद्युक्तं ब्रम्होति ब्रम्हाभावी पुरुष उच्यत इति चेन्न ॥भाष्यं :--- ब्रम्होपदेशार्थनक्यप्रसङगात । संसारी चेद ब्रम्हाभाव्यब्रम्हा सन्विदित्वाऽऽत्मानमेवाहं ब्रम्हास्मीति सर्वमभवत्तस्य संसार्यात्मविज्ञानादेव सर्वात्मभावस्य फलस्य सिद्धत्वात्परब्रम्होपदेशस्य ध्रुवमानर्थक्यं प्राप्तम् । तद्विज्ञानस्य क्वचित्पुरुषार्थसाधनेऽविनियोगात । संसारिण एवाहं ब्रम्हास्मीति ब्रम्हाभावसंपादनार्थ उपदेश ति चेत् । अनिर्ज्ञाते हि ब्रम्हास्वरूपे किं संपादयेदहं ब्रम्हास्मीति । निर्ज्ञातलक्षणे हि ब्रम्हाणि शक्या संपत्कर्तुम् ॥भाष्यं :--- न “ अयमात्मा ब्रम्हा” “यत्साक्षादपरोक्षादब्रम्हा” “य आत्मा” “तत्सत्यं स आत्मा” “ब्रम्हाविदाप्नोति परम” इति प्रकृत्य “तस्माद्वा एतस्मादात्मन:” इति सहस्त्रशो ब्रम्हात्मशब्दयो: सामानाधिकरण्यादेकार्तह्त्वमेवेत्ववगम्यते । अन्यस्य हयन्यत्वे संपत्क्रियते नैकत्वे । “इदं सर्वं यदयमात्मा” इति च प्रकृतस्यैव द्रष्टव्यस्याऽऽत्मन एकत्वं दर्शयति । तस्मान्नाऽऽत्मनो ब्रम्हात्वसंपदुपपत्ति: ॥भाष्यं :--- न चाप्यन्यत्प्रयोजनं ब्रम्होपदेशस्य गम्यते “ब्रम्हा वेद ब्रम्हौव भवति” “अभयं वै जनक प्राप्तोऽसि” “अभयं हि वैब्रम्हा भवति” इति च तदापत्तिश्रवणात । संपत्तिश्चेत्तदापत्तिर्न स्यात । न हयन्यस्यान्यभाव उपपद्यते । वचनात्संपत्तेरपि तद्भावापत्ति: स्यादिति चेन्न । संपत्ते: प्रत्ययमात्रत्वात् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP