संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|चतुर्थं ब्राम्हणम्| भाष्यं १० चतुर्थं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ भाष्यं २२ भाष्यं २३ भाष्यं २४ भाष्यं २५ भाष्यं २६ भाष्यं २७ भाष्यं २८ भाष्यं २९ भाष्यं ३० भाष्यं ३१ भाष्यं ३२ भाष्यं ३३ भाष्यं ३४ भाष्यं ३५ भाष्यं ३६ भाष्यं ३७ चतुर्थं ब्राम्हणम् - भाष्यं १० सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १० Translation - भाषांतर श्रुति :--- स एष इह प्रविष्ट: । आनखाग्रेभ्य: ॥अर्थ :--- तो हा आत्मभूत व्याकर्ता या ब्रम्हादिस्तंबपर्यंत देहांत प्रविष्ट झाला आहे. (कोठपर्यंत) नखांच्या अग्रांपर्यंत [तो या देहांत प्रविष्ट झाला आहे.]भाष्यं :--- यदर्थ: सर्वशास्त्रारंभो यस्मिन्नविद्यया स्वाभाविक्या कर्तृक्रियाफलाध्यारोपणा कृता य: कारणं सर्वस्य जगतो यदात्मके नामरूपे सलिलादिव स्वच्छान्मलमिव फेनमव्याकृते व्याक्रियेते । यश्च ताभ्यां नामरूपाभ्यां विलक्षण: स्वतो नित्यशुद्धबुद्धमुक्तस्वभाव: । स एषोऽव्याकृते आत्मभूते नामरूपे व्याकुर्वन्ब्रम्हादिस्तंबपर्यन्तेषु देहेष्विह कर्मफलाश्रयेष्वशानायादिमत्सु प्रविष्ट: ॥भाष्यं :--- नन्वव्याकृतं स्वयमेव व्याक्रियतेत्युक्तं कथमिदमिदानिमुच्यते पर एव त्वात्माऽव्याकृतं व्याकुर्वन्निह प्रविष्ट इति । नैष दोष: । परस्याप्यात्मनोऽव्याकृतजगदात्मत्वेन विवक्षितत्वात् । आक्षिप्तनियन्तृकर्तृक्रियानिमित्तं हि जगदव्याकृतं व्याक्रियतेत्यवोचाम । इदंशब्दसामानाधिकरण्याच्चाव्याकृतशब्दस्य । यथेदं जगन्नियन्त्रद्यनेककारकनिमित्तादिविशेषवदव्यकृतं तथाऽपरित्यक्तान्यतमविशेषवदेव तदव्याकृतम् । व्याकृताव्याकृत्मात्रं तु विशेष: ॥भाष्यं :--- द्दष्टश्च लोके विवक्षात: शब्दप्रयोगो ग्राम आगतो ग्राम: शून्य: इति । कदाचिदग्रामशब्देन निवासमात्रविवक्षायां ग्राम: शून्य इति शब्दप्रयोगो भवति । कदाचिन्निवासिजनविवक्षायां ग्राम आगत इति कदाचिदुबयविवक्षायामपि ग्रामशब्दप्रयोगो भवति ग्रामं च न प्रविशेदिति यथा । तद्वदिहापि जगदिदंव्याकृतमव्याकृतं चेत्यभेदविवक्षायामात्मानात्मनोर्भवति व्यपदेश: । तथेदं जगदुत्पत्तिविनाशात्मकमिति केवलजगदव्यपदेश: । तथा महानज आत्माऽस्थूलोऽनणु: स एष नेति नेतीत्यादि केवलात्मव्यपदेश: ॥भाष्यं :--- ननु परेण व्याकर्त्रा व्याकृतं सर्वतो व्याप्तं सर्वदा जगत्स कथमिह प्रविष्ट: परिकल्प्यते । अप्रविष्टो हि देश: परिच्छिन्नेन प्रवेष्टुं शक्यते । यथा पुरुषेण ग्रमादिर्नाऽऽकाशेन किंचिन्नित्यप्रविष्टत्वात् । पाषाणसर्पादिवद्धर्मान्तरेणेति चेत । अथापि स्यान्न पर आत्मा स्वेनैव रूपेण प्रविवेश किं तर्हि तत्स्थ एव धर्मान्तरेणोपजायते तेन प्रविष्ट इत्युपचर्यते । यथा पाषाणे सहजोऽन्तस्थ: एव धर्मान्तरेणोपजायते तेन प्रविष्ट इत्युपचर्यते । यथा पाषाणे सहजोऽन्तस्थ: सर्पो नालिकेरे वा तोयम् । न । “तत्सष्ट्वा तदेवानुप्राविशत्” इति श्रृते: । य: स्रष्टा स भावान्तरमनापन्न एव कार्यं सृष्टवा पश्चात्प्राविशदिति हि श्रूयते ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP