संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.६ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.६ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.६ Translation - भाषांतर नानारक्तसुपीतपुष्पनिचयादादाय सारं निजम् ।तस्मिञ्छोधितपन्नगं द्रुतमतः संढाल्यं वारं शतम् ।पश्चाद्रञ्जनवेधनं च विधिना चन्द्रार्कताम्रस्य यत् ।तत्सर्वं गुरुशास्त्रतः स्वमतिना संकथ्यते सांप्रतम् ॥६.१॥{मेर्चुर्यः: रक्तपारदः: प्रोदुच्तिओन्}स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ।तस्याः षोडशभागा वै भागैकं मृतवज्रकम् ॥६.२॥देवदाल्याः शङ्खपुष्प्या द्रवैर्मर्द्य दिनत्रयम् ।पचेत्कच्छपयन्त्रस्थं पुटैकेन समुद्धरेत् ॥६.३॥यामैकं पूर्वजैर्द्रावैर्मर्द्य तत्पूर्ववत्पुटेत् ।एवं सप्तपुटैः पक्वो यामं मर्द्यश्च तैर्द्रवैः ॥६.४॥दिनैकं पातनायन्त्रे पाचयेल्लघुनाग्निना ।पुनर्मर्द्यं पुनः पाच्यं यावदूर्ध्वं न गच्छति ॥६.५॥अधोयन्त्रे यदा तिष्ठेत्तदा स्याद्रक्तपारदः ।{लेअद्=> गोल्द्}रक्तपारदभागैकं द्वयं कृष्णाभ्रसत्त्वकम् ॥६.६॥टङ्कणस्य च भागैकं सर्वं मर्द्यं दिनावधि ।वज्रीक्षीरैस्तु तत्पिण्डं रुद्ध्वा गजपुटे पचेत् ॥६.७॥पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।षोडशांशेन नागस्य वेधे दत्ते च काञ्चनम् ॥६.८॥जायते दिव्यरूपाढ्यं देवाभरणमुत्तमम् ।{लेअद्=> गोल्द्}शाककिंशुककोरण्टद्रवैः कङ्गुणितैलतः ॥६.९॥मर्दयेन्नागचूर्णं तु दिनं संपुटगं पचेत् ।सम्यग्गजपुटेनैव मर्द्य पाच्यं पुनः पुनः ॥६.१०॥चत्वारिंशत्पुटैः सिध्यं दिव्यं भवति काञ्चनम् ।{लेअद्=> गोल्द्}रसकं कुङ्कुमं तुत्थं बालवत्सपुरीषकम् ॥६.११॥पीताभ्रकं विषं तुल्यं मातुलुङ्गद्रवैर्दिनम् ।मर्दितं छायया शुष्कं मधुना सह कल्कयेत् ॥६.१२॥तेन नागस्य पत्राणि लिप्त्वा शोष्याणि छायया ।अन्धमूषागतं ध्मातं शाकपत्रद्रवे ततः ॥६.१३॥सेचयेदुद्धरेत्पश्चात्प्रकटं द्रावयेत्पुनः ।शाकपत्रद्रवैः सेच्यं पुनर्द्राव्यं च सेचयेत् ॥६.१४॥इत्येवं सप्तधा कुर्यात्पुनः पत्राणि कारयेत् ।लेपयेत्पूर्ववच्छोष्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥६.१५॥सेचनं द्रावणं चैव सप्तवाराणि कारयेत् ।इत्येवं सप्तधा कुर्याल्लेपादि द्रावणान्तकम् ॥६.१६॥तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् ।{लेअद्=> गोल्द्}दग्धं तु चुन्नपाषाणं आरनाले विनिक्षिपेत् ॥६.१७॥मृत्पात्रे लोलितं स्थाप्यं दिवारात्रं प्रयत्नतः ।तत्स्वच्छं ग्राहयेद्द्रावं तद्द्रावैः शाककुड्मलान् ॥६.१८॥पेषयेत्तेन कल्केन नागचूर्णं विमर्दयेत् ।यामान्ते शोषयेद्घर्मे पुनर्मर्द्य च शोषयेत् ॥६.१९॥इत्येवं दशधा कुर्यात्तद्गोलं निक्षिपेत्पुनः ।शाकदण्डस्य सार्द्रस्य गर्भे तेनैव रोधयेत् ॥६.२०॥मृदा लिप्तं तु तच्छुष्कं सम्यग्गजपुटे पचेत् ।समुद्धृत्य भवेत्पीतं स्तम्भनं चास्य कथ्यते ॥६.२१॥{लेअद्=> गोल्द्}गोमूत्रैः क्षालयेदादौ भूनागाञ्जीवसंयुतान् ।सौवीराञ्जनमेतेषु तुल्यं क्षिप्त्वा विमर्दयेत् ॥६.२२॥दिनैकं महिषीमूत्रैर्जातं गोलं समुद्धरेत् ।तस्मात्पातालयन्त्रेण ग्राह्यं तैलं प्रयत्नतः ॥६.२३॥तस्मिंस्तैले पूर्वनागमथवा शुद्धनागकम् ।द्रावितं द्रावितं क्षेप्यमेकविंशतिवारकम् ॥६.२४॥तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् ।{लेअद्=> गोल्द्}शुद्धनागस्य चूर्णं तु समं भूनागचूर्णकम् ॥६.२५॥शाककिंशुककोरण्टपुष्पाणां ग्राहयेद्रसम् ।यथालाभेन तद्द्रावैर्दिनमेकं विमर्दयेत् ॥६.२६॥अंधमूषागतं धाम्यं ततश्चूर्णं तु कारयेत् ।पूर्ववन्मर्दितं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥६.२७॥जायते कनकं दिव्यं तन्नागं देवभूषणम् ।{चोप्पेर्=> गोल्द्}शुद्धनागपलैकेन मूषा कार्या सुवर्तुला ॥६.२८॥पलं शुद्धरसं तस्यां क्षिपेद्गन्धं पलद्वयम् ।तां मूषां मृण्मये पात्रे धारयेदातपे खरे ॥६.२९॥दिनं जम्बीरनीरेण काकमाचीद्रवैर्दिनम् ।कासमर्दरसैश्चाहो दिनं धत्तूरजैर्द्रवैः ॥६.३०॥क्रमेण भावयेदेवं घर्मे दिनचतुष्टयम् ।मृत्पात्रात्सर्वमुद्धृत्य यथा किंचिन्न गच्छति ॥६.३१॥पिष्ट्वा धत्तूरजैर्द्रावैः करञ्जस्य तु बीजकम् ।तेनैवाङ्गुलमात्रं तु मूषागर्भं प्रलेपयेत् ॥६.३२॥पूर्वे पिण्डं क्षिपेत्तत्र पलैकं चाथ गन्धकम् ।भूनागानां द्रवं तत्र निक्षिपेन्निष्कपञ्चकम् ॥६.३३॥विधाय लेपकल्केन ततो मूषां निरुध्य च ।भूधरे दिनमेकं तु करीषाग्नौ विपाचयेत् ॥६.३४॥स्वाङ्गशीतं समुद्धृत्य मूषायां पूर्ववत्क्षिपेत् ।लेपं गन्धं च भूनागं पूर्ववच्च पुटे पचेत् ॥६.३५॥एवं विंशगुणं यावज्जार्यं गन्धं सुसाधितम् ।सार्धं पलद्वयं तालं रसकं चापि तत्समम् ॥६.३६॥पलैकं टङ्कणं पिष्ट्वा द्विधा कुर्यात्त्रयं पृथक् ।काचकूप्यन्तरे क्षिप्त्वा तालकार्धं ततः क्षिपेत् ॥६.३७॥रसकं टङ्कणं पश्चात्सिद्धं पूर्वरसं पुनः ।टङ्कणं रसकं तालं क्रमाद्दद्यात्पुनस्त्रयम् ॥६.३८॥काचकूप्या मुखं दीपतप्तं स्वाङ्गन वेष्टयेत् ।अथवा काचकीलेन रुद्ध्वा मृल्लवणेन च ॥६.३९॥कूपिकां च मृदा लेप्य सर्वत्राङ्गुलमात्रकम् ।तां शुष्कां भूधरे यन्त्रे क्षिप्त्वा पूर्वं च खर्परम् ॥६.४०॥दत्त्वा मृदा लिपेत्संधिं देयं गजपुटं पुनः ।स्वाङ्गशीतं समुद्धृत्य बलिं पूजां च कारयेत् ॥६.४१॥चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् ।स्वर्णं भवति रूपाढ्यं सिद्धयोग उदाहृतः ॥६.४२॥{चन्द्रार्क => गोल्द्}पलानि दश गन्धस्य सूतकस्यैकविंशतिः ।महाकालस्य बीजोत्थतैलं पञ्चपलं भवेत् ॥६.४३॥सर्वं स्निग्धघटे रुद्ध्वा पाचयेन्मृदुवह्निना ।माषपिष्टप्रलेपेन यथा धूमो न गच्छति ॥६.४४॥स सूतो जायते खोटश्चन्द्रार्के द्राविते क्षिपेत् ।सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥६.४५॥{चोप्पेर्=> गोल्द्}पारदं गंधकं तुल्यं देवदालीद्रवैर्दिनम् ।मर्दितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥६.४६॥आवर्त्य चान्धमूषायां समुद्धृत्य ततः पुनः ।शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ॥६.४७॥तद्द्रवे पूर्वशुल्बं तु द्रावितं द्रावितं क्षिपेत् ।इत्येवं शतधा कुर्याद्दिव्यं भवति काञ्चनम् ॥६.४८॥{चोप्पेर्=> गोल्द्}पीतगन्धकचूर्णं तु नागवल्ल्या द्रवैस्त्र्यहम् ।भावितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥६.४९॥शुष्कं रुद्ध्वा पुटे पच्यादारण्योपलकैः शुभैः ।शाकवृक्षत्वचा मर्द्यं द्रवै रक्ताश्वमारकैः ॥६.५०॥पूर्वताम्रस्य पत्राणि कल्केनानेन लेपयेत् ।रुद्ध्वा तीव्राग्निना धाम्यमेवं वारशते कृते ॥६.५१॥तत्ताम्रं जायते स्वर्णं जाम्बूनदसमप्रभम् ।{चोप्पेर्=> गोल्द्}काञ्चनीमूलचूर्णं तु हरितालं मनःशिला ॥६.५२॥टङ्कणं माक्षिकं तुल्यं वासापुष्पद्रवैस्त्र्यहम् ।मर्दितं लेपयेत्तेन ताम्रपात्रं सुशोधितम् ॥६.५३॥शनैर्मन्दाग्निना ताप्यं शुष्कलेपं च दापयेत् ।पुनस्ताप्यं पुनर्लेप्यं सप्तधेत्थं प्रयत्नतः ॥६.५४॥ततस्तीव्राग्निना धाम्यं जायते काञ्चनं शुभम् ।{चोप्पेर्, सिल्वेर्=> गोल्द्}तालं ताप्यं दरदकुनटीं सूतकं सार्धभागम् ॥६.५५॥खल्वे कृत्वा त्रिदिनमथितं काकमाच्या द्रवेत् ।तेनालेप्यं रविशशिदलं खर्परे वह्निपक्वम् ॥६.५६॥शुल्बातीतं भवति कनकं सौबलं पान्थिकानाम् ।{चोप्पेर्=> गोल्द्}ज्वालामुखीद्रवैर्मर्द्यं पलैकं शुद्धपारदम् ॥६.५७॥दिनान्ते निक्षिपेत्तस्मिन्पादांशं मृतमभ्रकम् ।ताम्रचूर्णस्य पादांशं पादांशं फुल्लतोरिका ॥६.५८॥सर्वं ज्वालामुखीद्रावैर्मर्दयेद्दिनसप्तकम् ।तद्गोलं वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥६.५९॥तत्खोटं भागमेकं तु शुद्धताम्रं चतुष्टयम् ।अंधमूषागतं धाम्यं समुद्धृत्य ततः पुनः ॥६.६०॥द्राव्यं प्रकटमूषायां पुत्रजीवोत्थतैलके ।ढालयेच्च पुनर्द्राव्यमेवं कुर्यात्त्रिसप्तधा ॥६.६१॥जायते कनकं दिव्यं नात्र कार्या विचारणा ।{चोप्पेर्=> गोल्द्}गन्धकं श्वेतपालाशफलद्रावैर्विभावयेत् ॥६.६२॥शतवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ।शतवारं प्रयत्नेन तेन पत्राणि लेपयेत् ॥६.६३॥सम्यक्शुद्धस्य ताम्रस्य रुद्ध्वा गजपुटे पचेत् ।समुद्धृत्य पुनर्धाम्यं ततः पत्राणि कारयेत् ॥६.६४॥पुनर्लेप्यं पुनः पाच्यं पुनरावर्तयेत्क्रमात् ।एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥६.६५॥{सिल्वेर्, चोप्पेर्=> अष्टवर्ण गोल्द्}भागा द्वादश तारस्य शुल्वस्य भागषोडश ।आवर्त्य कारयेत्पत्रं लिप्त्वा रुद्ध्वा पुटे पचेत् ॥६.६६॥महिन्दीपत्रनिर्यासैरेवं वाराणि षोडश ।रसगन्धशिला भागान्क्रमवृद्ध्या विमर्दयेत् ॥६.६७॥दिनमङ्कोलतैलेन पूर्ववच्च क्रमेण तु ।लिप्त्वा रुद्ध्वा धमेद्गाढं पुनः पत्रं च कारयेत् ॥६.६८॥पुनर्लेप्यं पुनःपाच्यं यावत्कांस्यं क्षयं व्रजेत् ।अष्टवर्णं भवेद्धेम नात्र कार्या विचारणा ॥६.६९॥{मेर्चुर्य्=> गोल्द्}औषधी करुणी नाम प्रावृट्काले प्रजायते ।नीलपुष्पा श्वेतपत्रा पिच्छिलातिरसा तु सा ॥६.७०॥तद्द्रवं पारदे शुद्धे धाम्यमाने विनिक्षिपेत् ।वज्रमूषास्थिते चैव यावत्सप्तदिनावधि ॥६.७१॥जायते कनकं दिव्यं रस एव न संशयः ।{मेर्चुर्य्, लेअद्, गोल्द्=> गोल्द्}पलं सूतं पलं गन्धं कृष्णोन्मत्तद्रवैस्त्र्यहम् ॥६.७२॥मर्दितं वज्रमूषायां रुद्ध्वा वक्त्रं पिधाय च ।दिनान्ते तत्समुद्धृत्य तद्वन्मर्द्यं च पाचयेत् ॥६.७३॥एवं सप्तदिनं कुर्यान्मृतो भवति वै रसः ।तद्रसं पन्नगं स्वर्णं चन्द्रार्कैर्वेष्टयेत्क्रमात् ॥६.७४॥समांशं चान्धितं धाम्यं दिव्यं भवति काञ्चनम् ।{चक्रयन्त्र}गर्तामध्ये रसमूषा बाह्यगर्ते सर्वतोऽग्निः ॥६.७५॥चक्रयन्त्रमिदं प्रोक्तं सर्वशास्त्रार्थकोविदैः ।{चोप्पेर्=> गोल्द्}माक्षिकं रसकं तुल्यं रसकार्धं च सैन्धवम् ।मातुलुङ्गैर्दिनं मर्द्यं मृद्भाण्डे पाचयेद्दिनम् ॥६.७६॥यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां विपाचयेत् ।सिताक्षौद्रेण संयुक्तं तत्कल्कं मर्दयेद्दिनम् ॥६.७७॥पुनर्मृत्खर्परे पच्याद्गोक्षीरेण समायुतम् ।चालयन्दिनमेकं तु अवतार्य विलेपयेत् ॥६.७८॥शुद्धानि शुल्वपत्राणि रुद्ध्वा तीव्राग्निना धमेत् ।ततः पत्त्रीकृतं लेप्यं तद्वद्धाम्यं दृढाग्निना ॥६.७९॥इत्येवं च पुनः कुर्यात्पीतवर्णं भवेत्तु तत् ।मुनिपुष्पैस्त्र्यहं भाव्या अतिरक्ता मनःशिला ॥६.८०॥अनया पूर्वशुल्बं तु पत्रं कृत्वा प्रलेपयेत् ।अन्धमूषागतं ध्मातं कङ्गुणीतैलके क्षिपेत् ॥६.८१॥इत्येवं तु त्रिधा कुर्याद्दिव्यं भवति काञ्चनम् ।{तारारिष्ट => गोल्द्}अनेनैव प्रकारेण तारारिष्टं तु रञ्जयेत् ॥६.८२॥जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ।{सुल्फ़ुरः: पिष्टी}शुद्धसूतपलकं तु कर्षैकं गन्धकस्य च ॥६.८३॥स्निग्धखल्वे विनिक्षिप्य देवदालीरसप्लुतम् ।मर्दयेत्तु कराङ्गुल्या जायते गन्धपिष्टिका ॥६.८४॥{मेर्चुर्य्(खोट), चन्द्रार्क => गोल्द्}धान्याभ्रकस्य भागैकं भागाष्टौ शुद्धपारदम् ।कुण्डगोलकसंयुक्तं मर्दनात्पिष्टिका भवेत् ॥६.८५॥एतत्पिष्टिद्वयं मर्द्य जम्बीरोत्थैर्द्रवैर्दिनम् ।पालाशमूलक्वाथेन मर्दयेच्च दिनत्रयम् ॥६.८६॥ब्रह्ममूलं गुडं गुञ्जां ऊर्णा टङ्कणकं समम् ।पिष्ट्वा क्षौद्रेण संयुक्तं पूर्वपिण्डं विलेपयेत् ॥६.८७॥रुद्ध्वा तीव्राग्निना धाम्यं खोटो भवति तद्रसः ।पाच्यं प्रकटमूषायां काचं टङ्कणकं क्षिपेत् ॥६.८८॥एवं पुनः पुनः शोध्यं यावद्भवति निर्मलम् ।ततश्च प्रकटं धाम्यं दत्त्वा नागं पुनः पुनः ॥६.८९॥त्रिगुणं वाहयेदेवं रसराजस्य पन्नगम् ।कृष्णाभ्रैः पुटितैरेव तत्खोटं रञ्जयेत्क्रमात् ॥६.९०॥मूषायां धाम्यमानं तच्छतवारं पुनः पुनः ।दत्त्वा दत्त्वाभ्रकं कृष्णं रञ्जितो जायते ध्रुवम् ॥६.९१॥सहस्रांशेन तेनैव चन्द्रार्कं काञ्चनं भवेत् ।{मेर्चुर्य्(खोट), लेअद्=> गोल्द्}स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ॥६.९२॥पलैकं मर्दयेत्तस्या जम्बीराणां द्रवैर्दिनम् ।ब्रह्मक्वाथैस्त्र्यहं पश्चात्तत्समं गुडटङ्कणम् ॥६.९३॥ऊर्णां गुञ्जां क्षिपेत्तस्मिन्सर्वमेकत्र मर्दयेत् ।छायाशुष्कां वटीं कुर्यान्महदग्निगतां धमेत् ॥६.९४॥तं खाठं शोधयेत्पश्चात्श्वेतटङ्कणकाचकैः ।शोधयेद्धमनेनैव खोटो भवति निर्मलः ॥६.९५॥तं खोटं कुटिलं गन्धं प्रतिकर्षं प्रलेपयेत् ।अन्धमूषागतं धाम्यं यावत्खोटावशेषितम् ॥६.९६॥अनेन क्रमयोगेन वङ्गं निर्वाप्य षड्गुणम् ।ततो गन्धं च नागं च वाहयेत्षड्गुणं पुनः ॥६.९७॥शुल्बचूर्णं पलैकं तु सिद्धचूर्णेन संयुतम् ।रुद्ध्वा तं च धमेत्खोटं गंधकं तेन मर्दयेत् ॥६.९८॥रुद्ध्वा गजपुटे पच्यादेवं वारांश्चतुर्दश ।अनेन पूर्ववत्खोटं द्रावितं योजयेच्छनैः ॥६.९९॥यावत्कुङ्कुमवर्णं स्यात्तावद्रञ्ज्यं क्षिपन्क्षिपन् ।ततः स्वर्णं च गन्धं च खोटं तुल्यं पृथक्पृथक् ॥६.१००॥ततो रुद्ध्वा धमेत्तीव्रं यावत्खोटावशेषितम् ।इत्येवं त्रिगुणं वाह्यं स्वर्णं गन्धकसंयुतम् ॥६.१०१॥पुनः स्वर्णेन तुल्येन समावर्तं तु कारयेत् ।पुनर्द्विगुणहेम्ना तु त्रिगुणेन ततः पुनः ॥६.१०२॥त्रिधैव सारितः सूतः सहस्रांशेन विध्यते ।द्रुतं शुल्बं न संदेहो दिव्यं भवति काञ्चनम् ॥६.१०३॥{गोल्दः: रञ्जनः: सितस्वर्ण => षड्वर्ण}पूर्वं यच्छोधितं खोटं आवर्त्यं स्वर्णतुल्यकम् ।सूक्ष्मचूर्णं ततः कृत्वा त्रिगुणे शुद्धपारदे ॥६.१०४॥दत्त्वा निरुध्य मूषायां स्वेदयेन्मृदुवह्निना ।तस्यैव द्रवते गर्भे तावत्स्वेद्यं प्रयत्नतः ॥६.१०५॥अथवा दोलिकायन्त्रे स्वेदयेद्द्रुतसूतकम् ।अनेन शतमांशेन सितं स्वर्णं विलेपयेत् ॥६.१०६॥त्रिदिनं दोलिकायन्त्रे अर्कपत्रैश्च वेष्टितम् ।काञ्जिकैः स्वेदयेत्तं तु अन्धमूषागतं धमेत् ॥६.१०७॥स्वर्णं भवति रूपाढ्यं षड्वर्णोत्कर्षणं परम् ।{गोल्दः: रञ्जनः: => षड्वर्ण}शोधितं सूतखोटं च भागमेकं समाहरेत् ॥६.१०८॥स्वर्णं षोडशभागं स्यादन्धमूषागतं धमेत् ।पूर्ववत्क्रमयोगेन वेधयेद्रसगर्भकः ॥६.१०९॥तेनैव शतमांशेन षड्वर्णं पूर्ववद्भवेत् ।{रञ्जनः: लेअद्=> चोप्पेर्=> सिल्वेर्=> गोल्द्}अर्कक्षीरेण धान्याभ्रं यामं पिष्ट्वा तथान्ध्रयेत् ॥६.११०॥कपोताख्ये पुटे पच्यात्पुनर्मर्द्यं पुनः पचेत् ।एवं विंशपुटैः पक्वं तदभ्रं षोडशांशकम् ॥६.१११॥शुद्धसूते प्रदातव्यं पक्वमूषोदरेण तत् ।अर्कपत्रद्रवैः पूर्वं रुद्ध्वा स्वेद्यं दिनत्रयम् ॥६.११२॥तुषाग्निना प्रयत्नेन समुद्धृत्याथ निक्षिपेत् ।तस्मिन्नभ्रं द्रवं चैव दत्त्वा तद्वत्पचेत्त्र्यहम् ॥६.११३॥इत्येवं जारयेत्सूते यावत्तुल्याभ्रकं भवेत् ।तिलपर्णीरसेनैव तत्सूतं चाभ्रकं पुनः ॥६.११४॥मर्दयेत्तप्तखल्वे तु यावद्भवति गोलकः ।पृथक्सूतेन तुल्येन गन्धपिष्टीं तु कारयेत् ॥६.११५॥स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ।तत्पिष्टी स्वर्णपिष्टी च रसाभ्रं गोलकं तथा ॥६.११६॥समांशं त्रितयं मर्द्यं द्रवैः कार्पासजैर्दिनम् ।तद्गोलं वर्तुलं कृत्वा वस्त्रे बद्ध्वाथ शोषयेत् ॥६.११७॥पाचयेद्गन्धतैलं तु यावत्कुङ्कुमसंनिभम् ।संजातं तत्समुद्धृत्य पिष्ट्वा निर्गुण्डिजैर्द्रवैः ॥६.११८॥तेनैव चाष्टमांशेन नागपत्राणि लेपयेत् ।पिष्ट्वा कार्पासपत्राणि तत्कल्केन च लेपयेत् ॥६.११९॥नागपत्राणि रुद्ध्वाथ भूधराख्ये पुटे पचेत् ।समुद्धृत्य पुनर्लेप्यमष्टमांशेन तेन वै ॥६.१२०॥कार्पासपत्रकल्केन लिप्त्वा रुद्ध्वा पुटे पचेत् ।ऊर्ध्वाधः परिवर्तेन अहोरात्रात्समुद्धरेत् ॥६.१२१॥अष्टमांशं पुनर्दत्त्वा पूर्वकल्कं च मर्दयेत् ।दिनं निर्गुण्डिजैर्द्रावैस्तद्गोलं लेपयेद्बहिः ॥६.१२२॥कार्पासपत्रकल्केन रुद्ध्वा गजपुटे पचेत् ।एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥६.१२३॥म्रियते कुङ्कुमाभं तन्नागं दशपुटैः क्रमात् ।अनेन चाष्टमांशेन द्रुतं शुल्बं तु वेधयेत् ॥६.१२४॥तेन शुल्बेन तारं तु अष्टमांशेन वेधयेत् ।जायते कनकं शुल्बं देवाभरणमुत्तमम् ।नागरञ्जनमिदं विशेषतः शुल्बसूतरविचन्द्रवेधनम् ।धर्मकामसुखभाजनैर्जनैः साध्यतां अखिललोकरक्षणे ॥६.१२५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP