संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण २.७ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण २.७ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण २.७ Translation - भाषांतर वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् ।तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥७.१॥नागवल्लीदलद्रावैः सप्ताहं शुद्धपारदम् ।मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥७.२॥तत्क्षिपेद्विषकन्दस्य गर्भे निष्कचतुष्टयम् ।विषेण तन्मुखं रुद्ध्वा स्थूलवाराहमांसके ॥७.३॥पिण्डं गर्भे निरुध्याथ मुखं सूत्रेण सीवयेत् ।संध्याकाले बलिं दत्त्वा कुक्कुटं मदिरायुतम् ॥७.४॥ततश्चुल्ल्यां लोहपात्रे तैले धत्तूरसम्भवे ।तं विंशतिपले पच्यात्सपिण्डं मन्दवह्निना ॥७.५॥संध्यामारभ्य यत्नेन यावत्सूर्योदयं तथा ।हठाज्जागरणं कुर्यादन्यथा तन्न सिध्यति ॥७.६॥प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् ।तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययमद्भुतम् ॥७.७॥दृष्ट्वा तां धारयेद्वक्त्रे वीर्यस्तम्भकरीं रतौ ।क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥७.८॥मुखाद्धस्तं यदा प्राप्ता तदा वीर्यं पतत्यलम् ।ब्रह्माण्डगुटिका नाम शोषयन्ती महोदधिम् ॥७.९॥दग्धमङ्कोल्लमूलं तु कर्पूरं कुङ्कुमं तथा ।रोचना सहदेवी च समं सर्वं प्रपेषयेत् ॥७.१०॥विषमुष्टिकतैलेन लिप्तलिङ्गो ह्यनेन वै ।नरो नारीसहस्रैकं गच्छन्वीर्यं न मुञ्चति ॥७.११॥श्वेतार्कतूलजां वर्तिं कृत्वा सूकरमेदसा ।यावज्ज्वलति दीपोऽयं तावद्वीर्यं स्थिरं नृणाम् ॥७.१२॥इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् ।त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥७.१३॥छायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम् ।वरमङ्कोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥७.१४॥रक्तापामार्गामूलं तु सोमवारेऽभिमन्त्रयेत् ।भौमे प्राप्तः समुद्धृत्य बन्धेत्कट्यां च वीर्यधृक् ॥७.१५॥चटकानङ्कुलीतैलैः पादाधः संप्रलेपयेत् ।न मुञ्चति नरो वीर्यं शय्यां पादेन न स्पृशेत् ॥७.१६॥डुण्डुभो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् ।तस्यास्थि धारयेत्कट्यां नरो वीर्यं न मुञ्चति ॥७.१७॥तन्मुक्ते मुञ्चते वीर्यं सिद्धयोग उदाहृतः ।सहदेवीयमूलं तु तत्समं पद्मकेसरम् ॥७.१८॥पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् ।श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥७.१९॥पिष्टं तण्डुलसम्भूतं बदरीणां फलं समम् ।जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥७.२०॥नागवल्लीपयःपिष्टं लज्जामूलं प्रलेपयेत् ।तन्नाभौ वीर्यधृक्पुंसां मूलं वा तुलसीभवम् ॥७.२१॥मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् ।दीपं सूकरतैलेन वीर्यस्तम्भकरं नृणाम् ॥७.२२॥बीजमीश्वरलिङ्ग्यास्तु सूतं वृश्चिककण्टकम् ।सर्वं पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥७.२३॥जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति ।श्लेष्मातस्य कुरण्टस्य बीजं फञ्ज्याः समाहरेत् ॥७.२४॥अजाक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् ।सूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥७.२५॥न मुञ्चति नरो वीर्यं कर्षैकेन पृथक्पृथक् ।नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥७.२६॥श्वेतापराजितामूलं नीलीमूलं श्मशानजम् ।सर्वं बद्ध्वा कटौ वीर्यं चिरकालं न मुञ्चति ॥७.२७॥भूलता सिक्थकं तुल्यं लिम्पेत्तैलैः कुसुम्भजैः ।पादौ वीर्यधरो भूयात्पद्भ्यां शय्यां न संस्पृशेत् ॥७.२८॥नवनीतेन वा लेप्यं चटकाण्डं च पूर्ववत् ।इन्द्रवारुणीमूलं उन्मत्ताजस्य मूत्रतः ॥७.२९॥भावयेत्तेन लेपेन नरो वीर्यं न मुञ्चति ।दाडिमस्य त्वचश्चूर्णं फलं भल्लातकाक्षयोः ॥७.३०॥पिष्ट्वा तत्कटुतैलेन लेपः स्यात्पूर्ववत्फलम् ।कर्पूरं टङ्कणं सूतं मुनिपुष्परसं मधु ॥७.३१॥मर्दयित्वा लिम्पेत्तेन लिङ्गं यावत्समन्ततः ।जलैः प्रक्षालयेल्लिङ्गं भजेद्रामां यथोचिताम् ॥७.३२॥वीर्यं स्तम्भयते पुंसां याममात्रं न संशयः ।कृष्णधत्तूरतैलेन पारदं घर्षयेद्दिनम् ॥७.३३॥त्रिलोहैर्वेष्टितं बद्धं तत्कट्यां वीर्यधारकम् ।स्वर्णं व्योमसत्त्वं तारं ताम्रं च रोचनम् ॥७.३४॥बीजं वै शरपुङ्खायाः कृष्णधत्तूरबीजकम् ।सर्वं मर्द्यं वटक्षीरैः कुबेराक्षस्य बीजके ॥७.३५॥तत्क्षिप्त्वा धारयेद्वक्त्रे वीर्यस्तम्भकरं चिरम् ।कृकलासस्य पुच्छाग्रं मुद्रिकाकारतां कृतम् ॥७.३६॥ऊर्णनाभस्य जालेन वेष्टयित्वाथ धारयेत् ।वामहस्ते कनिष्ठायां नरो वीर्यं न मुञ्चति ॥७.३७॥स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् ।उल्लिप्तं रक्षयेत्किंचिद्वक्त्रे धार्यश्च वीर्यधृक् ॥७.३८॥पश्चिमसमुद्रस्य तटे अमरचण्डेश्वरो नाम देवतायतनं तस्याग्रे वालुकामध्ये स्थलमीनास्तिष्ठन्ति ते च वालुकामीनाः कथ्यन्ते ।शुद्धसूते विनिक्षिप्य स्वर्णं वा नागमेव वा ।अष्टमांशेन तत्सर्वं मर्दयेत्तप्तखल्वके ॥७.३९॥शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् ।श्लेष्मान्तस्य फलं पक्वं कोकिलाक्षस्य बीजकम् ॥७.४०॥तिलपिण्याकचूर्णं तु दत्त्वा तावद्विमर्दयेत् ।जलौका जायते यावत्ततः कर्पूरटङ्कणम् ॥७.४१॥कपिकच्छुकरोमाणि वाकुचीतैलकं पटु ।मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥७.४२॥क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् ।सा योज्या कामकाले तु नारीणां योनिगह्वरे ॥७.४३॥मददर्पहरा तासां मदविह्वलकारका ।बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥७.४४॥द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका ।यो वा तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ॥७.४५॥पारदादष्टमांशेन सुवर्णं नागमेव वा ।योजयेत्तप्तखल्वे तु शाल्मलीत्वङ्निजद्रवैः ॥७.४६॥मुनिपत्त्ररसैर्नीलीमूलद्रावैश्च मर्दयेत् ।श्लेष्मातकफलं पक्वं कोकिलाक्षस्य बीजकम् ॥७.४७॥मज्जा सुपक्वा बिल्वस्य क्षिपेत्तत्रैव मर्दयेत् ।जलौका जायते यावत्ततस्तस्मात्समुद्धरेत् ॥७.४८॥त्रिसप्ताहं तप्तखल्वे कर्पूराद्यैश्च पूर्ववत् ।मर्दयेच्च फलं तद्वज्जायते नात्र संशयः ॥७.४९॥रसादष्टमभागं तु सुवर्णं नागमेव वा ।योज्यं च त्रिफला भृङ्गी शुण्ठी छागपयो घृतम् ॥७.५०॥क्षौद्रं गोमूत्रकं चैव सर्वं सप्तदिनावधि ।मर्दयेत्तदवच्छिन्नं जलौका यावता भवेत् ॥७.५१॥कर्पूराद्यैः पुनर्मर्द्यं तप्तखल्वे तु पूर्ववत् ।पूर्ववज्जायते सिद्धिस्तद्वद्योगे न संशयः ॥७.५२॥त्रिदिनं मर्दयेत्खल्वे सूतं निष्कचतुष्टयम् ।त्रिफलायास्तु निर्यासं स्तोकं स्तोकं विनिक्षिपेत् ॥७.५३॥पयश्चैव महाशृङ्ग्या दातव्यं मर्दनक्षमम् ।जलौका मर्दनाख्येयं जायते सुखदा नृणाम् ॥७.५४॥रामाणां मदमत्तानां द्राविकाग्नौ घृतं यथा ।पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरी भवेत् ॥७.५५॥पारदं मरिचं कुष्ठं तगरं कण्टकारिका ।अश्वगन्धातिलक्षौद्रसैन्धवश्वेतसर्षपाः ॥७.५६॥अपामार्गो यवा माषाः पिप्पली च समं जलैः ।पिष्ट्वा विमर्दयेत्तेन लिङ्गं मासमहर्निशम् ॥७.५७॥वर्धते हस्तमात्रं तत्स्थौल्येन मुसलोपमम् ।वराहवसया क्षौद्रैर्लिङ्गं मासं विलेपयेत् ॥७.५८॥अतिदीर्घं दृढं स्थूलं जायते नात्र संशयः ।अश्वगन्धा वचा कुष्ठं बृहती च शतावरी ॥७.५९॥पाचयेत्तिलतैलेन मर्दयेत्तेन पूर्ववत् ।लिङ्गं स्थूलं दृढं दीर्घं मासमात्रात्प्रजायते ॥७.६०॥जम्बूसूकरजं तैलं महाराष्ट्री च टङ्कणम् ।मधुना सह लेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥७.६१॥मिश्रितं मुसलीचूर्णं माहिषैर्नवनीतकैः ।तद्भाण्डं धान्यराशौ च स्थितं सप्तदिनैर्हरेत् ॥७.६२॥तेन प्रलेपयेल्लिङ्गं वर्धते मासमात्रतः ।पिप्पली मरिचं क्षीरं सिता तुल्यं विमर्दयेत् ॥७.६३॥मासैकं वृद्धिकृल्लिङ्गे नात्र कार्या विचारणा ।माहिषं गोघृतं तुल्यं सैन्धवं च समं समम् ॥७.६४॥अनेन लेपयेल्लिङ्गं स्थूलं स्यान्मासमात्रतः ।अश्वगन्धापमार्गौ च सारिवाक्षफलं तिलाः ॥७.६५॥सर्षपेन्द्रयवं तुल्यमजाक्षीरेण पेषयेत् ।तेन लिङ्गं तु मासैकं मर्दनाद्वृद्धिमाप्नुयात् ॥७.६६॥मांसीमक्षफलं कुष्ठमश्वगन्धां शतावरीम् ।तैले पक्त्वा प्रलेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥७.६७॥रोहीतमत्स्यजं पित्तं जलौका लाङ्गली समम् ।अनेन लेपयेल्लिङ्गं स्यान्मासान्मुसलोपमम् ।निशा सिताश्वगन्धा च पारदं मर्दयेत्समम् ।अनेन मर्दयेल्लिङ्गं योनिकर्णस्तनांस्तथा ।वर्धन्ते मासमात्रेण नात्र कार्या विचारणा ॥७.६८॥ओं नमो भगवते उड्डामरेश्वराय सर प्रसर २ कुरु ठ ठः ।अनेन मन्त्रेण सर्वे वर्धनयोगाः सप्ताभिमन्त्रिताः सिद्धा भवन्ति ।जाम्बूमार्जारयोः पित्तं यवागूमर्दितं दिहेत् ।मासैकाद्वर्धते लिङ्गं स्तनौ कर्णौ च मर्दनात् ॥७.६९॥ओं नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल निकल निकालय निकालय स्वाहा ठः ठः ॥७.७०॥गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् ।पिष्ट्वा धार्यं ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ॥७.७१॥तिलतैलेन तत्तैलमर्दनाद्वर्धते खलु ।लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः ।ओं नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि स्वाहा ठः ठः ।अतितरसुखसाध्यैर्योगराजैः प्रसिद्धैः सततसुरतयोग्यं स्तम्भनं वर्धनं च ।निपुणरसिकरामारञ्जकं मोहकं स्याद्गदितमिह समस्तं भोगिनां सौख्यहेतुः ॥७.७२॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP