संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१७ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१७ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१७ Translation - भाषांतर वज्राभ्रसत्ववरहाटकलोहजालं कुर्याद्द्रुतं द्रवभवं किल बंधयोग्यम् ।नानाविधैः सुगमसंस्कृतयोगराजैस्तद्वक्ष्यते परमसिद्धिकरं नराणाम् ॥१७.१॥{अभ्रकद्रुति (१)}शुद्धकृष्णाभ्रपत्राणि पीलुतैलेन लेपयेत् ।घर्मे शोष्याणि सप्ताहं लिप्त्वा लिप्त्वा पुनः पुनः ॥१७.२॥त्रिदिनं चाम्लवर्गेण तद्वच्छोष्याणि चाथ वै ।स्नुह्यर्कार्जुनवज्रीणां कटुतुंब्या समाहरेत् ॥१७.३॥क्षारं क्षारत्रयं चैतदष्टकं चूर्णितं समम् ।वज्रकंदं क्षीरकन्दं बृहती कण्टकारिका ॥१७.४॥वनवृन्ताक एतेषां द्रवैर्भाव्यं दिनत्रयम् ।अनेन क्षारकल्केन पूर्वपत्राणि लेपयेत् ॥१७.५॥आतपे कांस्यपात्रे तु स्थाप्यं लेप्यं पुनः पुनः ।एवं दिनत्रयं कुर्याद्द्रुतिर्भवति निर्मला ॥१७.६॥{अभ्रकद्रुति (२)}अम्लवर्गेण पत्राणि क्षिपेद्घर्मे दिनत्रयम् ।तथान्यान्यभ्रपत्राणि क्षालयेत्क्षीरकंदकैः ॥१७.७॥क्षारैर्यावद्भवेत्कल्कस्तत्कल्कैः पूर्वपत्रकम् ।लिप्त्वा लिप्त्वा क्षिपेद्घर्मे कांस्यपात्रे विशोषयेत् ॥१७.८॥सप्ताहान्नात्र संदेहो रसरूपा द्रुतिर्भवेत् ॥१७.९॥{अभ्रकद्रुति (३)}काकाण्डाफलचूर्णं तु मित्रपंचकसंयुतम् ।एतत्तुल्यं च धान्याभ्रमम्लैर्मर्द्यं दिनावधि ।अंधमूषागतं ध्मातं द्रुतिर्भवति निर्मला ॥१७.१०॥{अभ्रकद्रुति (४)}धान्याभ्रकं सगोमांसं अभ्रपादं च सैंधवम् ।स्नुह्यर्कपयसा द्रावैर्मुनिभिर्मर्दयेत्त्र्यहम् ॥१७.११॥तद्गोलं कदलीकंदे क्षिप्त्वा बाह्ये मृदा लिपेत् ।करीषाग्नौ त्र्यहं पच्याद्द्रुतिर्भवति निर्मला ॥१७.१२॥{अभ्रकद्रुति (५)}अगस्त्यपत्रनिर्यासैर्मर्द्यं धान्याभ्रकं दिनम् ।तद्गोलं निक्षिपेत्कंदे सूरणोत्थे निरुध्य च ॥१७.१३॥तत्कंदं निखनेद्गोष्ठभूमौ मासात्समुद्धरेत् ।कंदोदराद्द्रुतिर्ग्राह्या सूततुल्या तु निर्मला ॥१७.१४॥{अभ्रकद्रुति (६)}धान्याभ्रकं दिनं मर्द्यमजमार्या द्रवैर्दिनम् ।स्थापयेन्मृण्मये पात्रे त्र्यहाद्घर्मे भवत्यलम् ॥१७.१५॥{अभ्रकद्रुति (७)}सप्ताहं मुनितोयेन धान्याभ्रं सैंधवं शिला ।मर्दयेद्भावयेद्घर्मे ततो दार्वी सुवर्चलम् ॥१७.१६॥मरिचं अभ्रपादांशं मूर्वापत्ररसैर्दिनम् ।मर्दयेद्वज्रवल्ल्युत्थैर्द्रवैर्भाव्यं दिनावधि ॥१७.१७॥शरावसंपुटे तं तु रुद्ध्वा ध्माते द्रुतिर्भवेत् ॥१७.१८॥{अभ्रकद्रुति (८)}धान्याभ्रकं प्रयोक्तव्यं काकिनीबीजतुल्यकम् ।स्नुहीक्षीरेण सप्ताहं घर्मे ताप्यं द्रुतिर्भवेत् ॥१७.१९॥{अभ्रकद्रुति (९)}वज्रवल्लीद्रवैर्मर्द्यं धान्याभ्रं ससुवर्चलम् ।तुल्यं त्रिदिनपर्यन्तं ततस्तं शरावसंपुटे ॥१७.२०॥रुद्ध्वा ध्माते द्रवत्येव रसरूपं न संशयः ।इत्येवं रसरूपं च जायते नैव संशयः ॥१७.२१॥{अभ्रकद्रुति (१०)}उदुंबरोद्भवैः क्षीरैरभ्रपत्राणि पाचयेत् ।स्थाल्यां वा पाचयेदेतान्भवन्ति नवनीतवत् ॥१७.२२॥ततस्तं वटकं कृत्वा छिद्रमूषां निरुध्य च ।यामत्रयं धमेद्गाढं अधोभाण्डे द्रुतिः पतेत् ॥१७.२३॥{अभ्रकद्रुति (११)}काकोदुंबरिजैः क्षीरैर्मर्द्यं धान्याभ्रकं दिनम् ।वनमूषकबीजानि त्वग्वर्ज्यान्यभ्रकैः समम् ॥१७.२४॥मर्दयित्वार्धयामं तं द्राव्यं पातालयंत्रकैः ।अहोरात्रं पुटं देयं द्रुतिर्भवति निर्मला ॥१७.२५॥{अभ्रकद्रुति (१२)}कपितिंदुजातफलैः समं धान्याभ्रकं दृढम् ।मर्दयेद्दिनमेकं तु काचकूप्यां निवेशयेत् ॥१७.२६॥नरकेशैर्मुखं रुद्ध्वा कूपिकां लेपयेन्मृदा ।पुटेत्पातालयंत्रेण दिनान्ते द्रुतिमाप्नुयात् ॥१७.२७॥{अभ्रकद्रुति (१३)}धान्याभ्रकसमांशेन चूर्णं गुंजाफलस्य तु ।स्नुहीक्षीरेण सप्ताहं भावितं धमनाद्भवेत् ॥१७.२८॥{अभ्रकद्रुति (१४)}रक्तोत्पलस्य नीलोत्थद्रवैर्मर्द्यं दिनत्रयम् ।धान्याभ्रकं धमेद्रुद्ध्वा वज्रमूषागतं धमेत् ॥१७.२९॥वेगीफलस्य चूर्णेन तुल्यं धान्याभ्रकं त्र्यहम् ।भाव्यं घर्मे स्नुहीक्षीरैर्ध्मातं संपुटगं द्रवेत् ॥१७.३०॥{अभ्रकद्रुति (१५)}अथवा छागमूत्रेण भावयेत्कपितिंदुजम् ।फलचूर्णं तु तच्छुष्कं द्रुते सत्वे प्रवापयेत् ॥१७.३१॥द्वित्रिवारप्रयोगेण द्रुतिर्भवति निर्मला ॥१७.३२॥{अभ्रकसत्त्वद्रुति (२)}नरकेशोद्भवैस्तैलैः सेचयेदभ्रसत्त्वकम् ।तद्गोलं गोमयैर्लिप्त्वा वज्रमूषान्तरे क्षिपेत् ।हठाद्ध्माते द्रवत्येव तिष्ठते रसराजवत् ॥१७.३३॥{अभ्रकसत्त्वद्रुति (३)}भावयेन्नरमूत्रेण क्षीरकंदस्य चूर्णकम् ।दशवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ॥१७.३४॥तेनावापं द्रुते सत्वे दत्त्वा दत्त्वा च संधमेत् ।यावत्तद्द्रवतां याति तावद्देयं पुनः पुनः ।लोहं च द्रवते तेन हठाद्ध्माते न संशयः ॥१७.३५॥{अभ्रकसत्त्वद्रुति (४)}पंचांगं देवदाल्युत्थं चूर्णं भाव्यं च तद्द्रवैः ।शोष्यं पेष्यं पुनर्भाव्यं शतवारं प्रयत्नतः ॥१७.३६॥तच्चूर्णं दशमांशेन द्रुते सत्वे प्रतापयेत् ।तत्पुनर्जायते बद्धो वापो देयः पुनः पुनः ॥१७.३७॥{अभ्रकसत्त्वद्रुति (५)}क्षीरकंदद्रवैर्भाव्यं शतधा क्षीरकंदकम् ।तद्वापेन द्रवेत्सत्त्वं लोहानि सकलानि च ॥१७.३८॥{अभ्रकसत्त्वद्रुति (६)}सर्वं धान्याम्लसंधानैर्भाव्यमभ्रकसत्वकम् ।निचुलक्षारसंयुक्तं ध्मातं तिष्ठति सूतवत् ॥१७.३९॥{सुवर्णद्रुति (१)}इंद्रगोपकचूर्णं तु देवदालीफलद्रवैः ।भावितं चैकविंशाहाद्द्रुते हेम्नि प्रवापयेत् ॥१७.४०॥किंचित्किंचित्समं यावत्तावत्तिष्ठति सूतवत् ॥१७.४१॥{सुवर्णरौप्यद्रुति (२)}शतधा नरमूत्रेण भावयेद्देवदालिकाम् ।तच्चूर्णं वापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः ॥१७.४२॥{तीक्ष्णलोहद्रुति (१)}सुरदालीभवं भस्म नरमूत्रेण भावितम् ।त्रिसप्तवारं तं क्षारं वापे तीक्ष्णद्रुतिर्भवेत् ॥१७.४३॥{तीक्ष्णलोहद्रुति (२)}मेषशृंगी सकूर्मास्थिशिलाजतुनि वापयेत् ।सारं द्रुतिर्भवेत्सत्यं आवर्त्यादौ प्रदापयेत् ॥१७.४४॥{सर्वधातुद्रुति (१)}गंधकं कांतपाषाणं चूर्णयित्वा समं समम् ।द्रुते लोहे प्रतीवापो देयो लोहाष्टकं द्रवेत् ॥१७.४५॥{सर्वधातुद्रुति (२)}देवदाल्या द्रवैर्भाव्यं गंधकं दिनसप्तकम् ।तेन प्रवापमात्रेण लोहं तिष्ठति सूतवत् ॥१७.४६॥{सुवर्णद्रुति (३)}अतिस्थूलस्य भेकस्य निवार्यान्त्राणि निक्षिपेत् ।उदरे टंकणं पूर्णं तद्रक्षेद्भांडमध्यगम् ॥१७.४७॥अष्टाहाद्ग्राहयेत्तस्मात्तैलं पातालयंत्रके ।तत्तैलं द्राविते स्वर्णे क्षिपेद्द्रुतिमवाप्नुयात् ॥१७.४८॥{सुवर्णद्रुति (४)}इंद्रगोपोऽश्वलाला च शशमण्डूकयोर्वसा ।अस्थीनि च समं पिष्ट्वा द्रुते हेम्नि प्रवापयेत् ॥१७.४९॥जायते रसरूपं तच्चिरकालं च तिष्ठति ॥१७.५०॥{सुवर्णद्रुति (५)}इंद्रगोपं कुलीरास्थि देवदाल्याश्च बीजकम् ।चूर्णितं भावयेद्द्रावैर्देवदाल्युद्भवैर्दिनम् ॥१७.५१॥अनेन द्राविते हेम्नि वापो देयः पुनः पुनः ।तिष्ठते रसरूपं तच्चिरकालं शिवोदितम् ॥१७.५२॥{तीक्ष्णलोहद्रुति (३)}तीक्ष्णचूर्णं च सप्ताहं पक्वधात्रीफलद्रवैः ।लोलितं भावयेद्घर्मे क्षीरकन्दद्रवैः पुनः ॥१७.५३॥सप्ताहं भावयेत्सम्यक्स्रावसंपुटके तथा ।धामितं द्रवमायाति चिरं तिष्ठति सूतवत् ॥१७.५४॥{कान्तलोहद्रुति}शृगालमेषकूर्माहिशल्यानि च शिलाजतु ।एतत्सर्वं चूर्णयित्वा सुतप्ते कांतचूर्णके ।वापयेद्द्रवतां याति यथा सूतं सुनिश्चितम् ॥१७.५५॥{सर्वलोहद्रुति (३)}लोहचूर्णं यथेष्टैकं पनसस्य फलद्रवैः ।सप्ताहं भावयेद्घर्मे ह्यम्लवर्गेण मर्दयेत् ।द्रवते धमनेनैव लिपियोग्यं न संशयः ॥१७.५६॥{सर्वलोहद्रुति (४)}गंधकं रक्तलवणं तुल्यं देयं पुनः पुनः ।द्रुतानां तप्तचूर्णानां सर्वेषां द्रावणं परम् ॥१७.५७॥{सर्वलोहद्रुति (५)}पीतमण्डूकगर्भे तु चूर्णितं टंकणं क्षिपेत् ।रुद्ध्वा भांडे क्षिपेद्भूमौ त्रिसप्ताहात्समुद्धरेत् ॥१७.५८॥तत्समस्तं विचूर्ण्याथ द्रुते लोहे प्रवापयेत् ।तिष्ठन्ति रसरूपाणि सर्वलोहानि नान्यथा ॥१७.५९॥{माक्षिकसत्त्वद्रुति (२)}एरंडोत्थेन तैलेन गुंजाक्षौद्रं च टंकणम् ।मर्दितं तस्य वापेन सत्वं माक्षिकजं द्रवेत् ॥१७.६०॥{सर्वरत्नानां सर्वलोहानां द्रुतिः}क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ॥१७.६१॥ज्वालामुखी चेक्षुरकं स्थलकुम्भीफलानि च ।स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलकं क्षिपेत् ॥१७.६२॥वज्रमुख्यानि रत्नानि वस्त्रे बद्ध्वा पचेद्धठात् ।दोलायंत्रेण धान्याम्ले भवेद्यामाष्टकं द्रुतम् ॥१७.६३॥वज्राभ्रकं नीलपुष्पं मुक्ताविद्रुममाक्षिकम् ।पौण्ड्रं वैडूर्यमाणिक्यं राजावर्तेन्द्रनीलकम् ॥१७.६४॥वैक्रांतं स्फाटिकं चैव द्रवन्ति रससन्निभाः ।एतैरेवौषधैर्लोहजातं द्रवति वापनात् ॥१७.६५॥{वज्रद्रुति (१)}वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरुन्धितम् ।जलभांडगतं स्वेद्यं सप्ताहाद्द्रवतां व्रजेत् ॥१७.६६॥{वज्रद्रुति (२)}सूक्ष्मचूर्णं तु सप्ताहं वेतसाम्ले विनिक्षिपेत् ।सप्ताहादुद्धृतं तं वै पुटे रुद्ध्वा द्रुतिर्भवेत् ॥१७.६७॥{वैक्रान्तद्रुति (१)}श्वेतवर्णं तु वैक्रांतमम्लवेतसभावितम् ।सप्ताहान्नात्र संदेहः खरे घर्मे द्रवत्यलम् ॥१७.६८॥{वैक्रान्तद्रुति (२)}केतकीस्वरसं ग्राह्यं सैंधवं स्वर्णपुष्पिका ।इंद्रगोपकसंयुक्तं सर्वं भांडे विनिक्षिपेत् ॥१७.६९॥सप्ताहं स्वेदयेत्तस्मिन्वैक्रांतं द्रवतां व्रजेत् ।लोहाष्टकं च रत्नानि योगस्यास्य प्रभावतः ॥१७.७०॥कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ॥१७.७१॥{सर्वद्रुतीनां स्थापनाधारः}कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् ।तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥१७.७२॥इत्येवं द्रुतिसंचयं समुचितैः सारातिसारैर्मतैः कृत्वा वार्तिकपुंगवोऽत्र सततं श्रीपारदे मेलयेत् ।तेनैवाद्भुतभक्षणं सुकनकं कृत्वाथ विद्वद्वरे देयं दीनजने च दुःखविमुखं कुर्यात्समस्तं जगत् ॥१७.७३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP