संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण २.८ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण २.८ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण २.८ Translation - भाषांतर श्रीशैले देहसिद्धिः प्रभवति सहसा वृक्षमृत्कन्दतोयैस्तच्छास्त्रं शम्भुनोक्तं प्रगहनं अखिलं वीक्षितं यत्तु सारम् ।व्याहृत्यानेकयुक्त्या सकलसुखकरं दृष्टसिद्धं तु यद्यत्तद्वक्ष्ये साधकानामनुभवपथगं भुक्तये मुक्तये च ॥८.१॥{Fएल्स्मित्गुग्गुलु बेइ ंअल्लिकार्जुन}मल्लिकार्जुनदेवस्य पुरतो गजसंनिभा ।शिला तिष्ठति या रात्रौ स्रवते गुग्गुलुं सदा ॥८.२॥पालाशचाटुना ग्राह्यं क्षिपेदलाबुपात्रके ।तद्गुग्गुलुसमं गन्धं निष्कैकं भक्षयेत्सदा ॥८.३॥मासान्मृत्युजरां हन्ति जीवेदाचन्द्रतारकम् ।तद्गुग्गुलुं द्रुते ताम्रे कोटिभागेन योजयेत् ॥८.४॥तद्भवेत्कनकं दिव्यं जाम्बूनदसमप्रभम् ।{ङ्लोच्के बेइ ङ्हण्टासिद्धेश्वर}वामतो मल्लिनाथस्य घण्टासिद्धेश्वरः स्थितः ॥८.५॥तद्द्वारे विद्यते कुण्डं तत्र घण्टा विलम्बते ।रात्रौ कृष्णचतुर्दश्यां सोपवासैस्त्रिभिर्जनैः ॥८.६॥कर्तव्यं साधनं तत्र निर्विकल्पैरनिद्रितैः ।एकस्तु स्नापयेद्देवं जलमेकस्तु वाहयेत् ॥८.७॥एकस्तु वादयेद्घण्टामविच्छिन्नं निशावधि ।ततस्तुष्टो भवेच्छम्भुः खेचरत्वं प्रयच्छति ॥८.८॥घण्टासिद्धेश्वरस्यैव दक्षिणे क्रोशमात्रके ।निखनेद्दृश्यते तत्र मृद्गोरोचनसंनिभा ॥८.९॥सिताक्षीरैः पिबेत्कर्षं सप्ताहादमरो भवेत् ।{चन्द्रोदक इं W वोनंअल्लिनाथ}चन्द्रोदकं प्रसिद्धं वै मल्लिनाथस्य पश्चिमे ॥८.१०॥स्थितं वैशाखमासे तु पूर्णमास्यां सुसाधयेत् ।साधको निर्विकल्पेन स्थित्वा तस्य समीपतः ॥८.११॥रात्रौ जपं प्रकुर्वाणस्तत्तोयं चार्धरात्रके ।स्प्रष्टुं चन्द्रो यदा गच्छेत्तदा क्षिप्रं कराञ्जलिम् ॥८.१२॥कृत्वा तिष्ठेद्यदा याति तज्जलं तत्क्षणात्पिबेत् ।वज्रकायो भवेद्वीरो जीवेदाचन्द्रतारकम् ॥८.१३॥{ठमरिन्देन्बौं इं Oस्तेन्वोन्श्रीशैल}श्रीशैलपूर्वद्वारे तु देवोऽस्ति त्रिपुरान्तकः ।देवस्योत्तरदिग्भागे चिञ्चावृक्षः समीपतः ॥८.१४॥विद्यते तस्य मूले तु भैरवो दृश्यते स्वयम् ।तस्याग्रे निखनेद्भूमिं पुरुषस्य प्रमाणतः ॥८.१५॥दृश्यते तप्तकुण्डं तु नीलवर्णजलान्वितम् ।चिञ्चावृक्षस्य पत्त्राणि सम्यग्वस्त्रेण बन्धयेत् ॥८.१६॥तस्मिन्कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै ।संगृह्य तस्य काष्ठेन पचेत्तेषां विवर्जयेत् ॥८.१७॥कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः ।क्षणं मूर्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥८.१८॥छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः ।त्रिपुरान्तकदेवस्य पश्चिमे गव्यूतिद्वये ॥८.१९॥मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः ।तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥८.२०॥पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् ।दशधन्वन्तरं यावद्दृश्यन्ते ज्वलनप्रभाः ॥८.२१॥आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् ।रक्तवर्णं भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥८.२२॥तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् ।सप्ताहाद्वज्रकायः स्याज्जीवेच्चन्द्रार्कतारकम् ॥८.२३॥त्रिपुरान्तकदेवस्य उत्तरे कोकिलाबिलम् ।विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ॥८.२४॥साधकः प्रविशेत्तत्र दशधन्वन्तरावधि ।पाषाणाः कोकिलाकारास्तिष्ठन्ति तांस्तु चाहरेत् ॥८.२५॥तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् ।इत्येवं प्रत्ययं दृष्ट्वा तांश्च घृष्ट्वा परस्परम् ॥८.२६॥क्षीरमध्ये क्षिपेत्तान्वै क्षीरं कृष्णं प्रजायते ।आकण्ठान्तं पिबेत्तत्तु दिव्यकाव्यो भवेन्नरः ॥८.२७॥वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ।छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥८.२८॥त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे ।देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥८.२९॥देवाग्रे भूमिकां जानुमात्रां तत्र फला इव ।निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥८.३०॥त्रिपुरान्तकदेवस्य पश्चिमे योजनार्धके ।विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥८.३१॥गच्छेत्खर्जूरवृक्षो वै दृश्यते कृष्णवर्णकः ।तत्फलानां रसं पीत्वा मूर्छा संजायते क्षणम् ॥८.३२॥ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् ।श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥८.३३॥देवौ प्रसिद्धौ विद्येते निखनेत्तत्र भूमिकाम् ।पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥८.३४॥देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ ।रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥८.३५॥ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति ।आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥८.३६॥विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः ।आदाय तान्धमेत्तीव्रं दिव्यं भवति काञ्चनम् ॥८.३७॥तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः ।तत्समीपे खनेद्भूमिं जानुमात्रां ततो हरेत् ॥८.३८॥पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः ।पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥८.३९॥गुञ्जा च रिठ्ठकश्चैव द्वौ वृक्षौ तत्र तिष्ठतः ।तयोः पत्त्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥८.४०॥तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् ।हस्तमात्रं ततः पश्येज्जम्बूफलसमाकृतिः ॥८.४१॥शिला तत्र समाख्याता स्पर्शग्राह्या प्रयत्नतः ।नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥८.४२॥तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति ।छायाछत्त्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥८.४३॥शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् ।योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥८.४४॥रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये ।अथवा साधयेद्दूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥८.४५॥कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् ।तद्गोलं वेष्टयेल्लोहैस्त्रिभिर्यत्नात्क्रमेण वै ॥८.४६॥वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् ।मन्त्रयेत्कालीमन्त्रेण छायाछत्त्रे निवेशयेत् ॥८.४७॥तद्वंशाग्रं क्षणैकेन जायते गुटिका तु ताम् ।साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥८.४८॥तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् ।ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूगतम् ॥८.४९॥वंशे बद्ध्वा क्षिपेत्खड्गं पूर्वमन्त्रेण मन्त्रितम् ।तत्खड्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥८.५०॥वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् ।तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥८.५१॥स्रोतोञ्जनं कज्जलं च क्षिप्त्वा तत्रैव पूर्ववत् ।तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥८.५२॥पादुकां तेन योगेन क्षिप्त्वा पद्भ्यां तु धारयेत् ।यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥८.५३॥तद्वद्रक्तपटं तत्र क्षिप्त्वा संवेष्ट्य साधकः ।अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥८.५४॥कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् ।वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥८.५५॥श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः ।तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥८.५६॥नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् ।देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥८.५७॥ब्रह्मेश्वरस्य नैरृत्ये संस्थितं तिन्तिणीवनम् ।तस्मिन्वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥८.५८॥एकपादेन चिञ्चाधस्तद्वृक्षात्पत्त्रमाहरेत् ।बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥८.५९॥स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते ।तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥८.६०॥भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् ।तृतीयं साधको भुक्त्वा क्षणं भवति मूर्छितः ॥८.६१॥तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् ।अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥८.६२॥अलम्पुरोत्तरे भागे ग्रामः स्याद्भीमपादुकः ।तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्भुवम् ॥८.६३॥पाषाणाः सर्पवद्वक्रा ग्राह्याः स्पर्शा भवन्ति ते ।योगेश्वरीति विख्याता देवता या त्वलम्पुरे ॥८.६४॥देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्भुवम् ।पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥८.६५॥मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् ।मध्वाज्यसहितान्भक्षेत्पाषाणांस्तान्विचक्षणः ॥८.६६॥श्रीशैलस्योत्तरद्वारे महेशो नाम देवता ।भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥८.६७॥स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः ।इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान्परित्यजेत् ॥८.६८॥फलानि पाचयेत्क्षीरैः पिबेत्क्षीरं यथेष्टकम् ।किंचिन्मूर्छा भवेत्तेन ततो बोधे पिबेत्पुनः ॥८.६९॥एवं कुर्यात्त्रिसप्ताहं वज्रकायो भवेन्नरः ।वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥८.७०॥सर्ववाङ्मयवेत्ता च वायुवेगी भवेन्नरः ।तेनैवाम्रफलैकेन वर्जितभ्रमरेण च ।सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्ध्रुवम् ॥८.७१॥क्षेपात्तारमवाप्नोति सत्यमीश्वरभाषितम् ।तत्फलं छिद्रितं कृत्वा उत्पात्य भ्रमरं ततः ॥८.७२॥शुद्धपारदकर्षैकं तत्तुल्यं कृष्णमभ्रकम् ।क्षिप्त्वा तस्मिन्मुखं रुद्ध्वा लिम्पेन्मृद्गोमयेन च ॥८.७३॥छायाशुष्कं तदाम्रोत्थैः क्वाथैर्यामं विपाचयेत् ।स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ॥८.७४॥मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला ।क्वाथे वाक्पतितुल्यः स्याज्जीवेदाचन्द्रतारकम् ॥८.७५॥तारं ताम्रं भुजंगं वा कोटिभागेन वेधयेत् ।कृष्णाभ्रं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥८.७६॥लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटेत् ।स्वभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥८.७७॥गुञ्जामात्रं सदा खादेन्मासाद्बालो भवेन्नरः ।जीवेद्ब्रह्मदिनं वीरो नवनागबलान्वितः ॥८.७८॥विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः ।ओं हुं फट्कारमन्त्रेण निर्विकल्पेन साधकैः ॥८.७९॥वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् ।पश्येद्दिव्यविमानानि जायते प्रत्ययो महान् ॥८.८०॥ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः ।गह्वरं दृश्यते तत्र प्रविशेत्पश्चिममुखम् ॥८.८१॥योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः ।पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥८.८२॥तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् ।सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥८.८३॥तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् ।ओं ह्रीं विद्यावागीश्वराधिपतये ह्रीं ओं स्वाहा ।स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु ।यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥८.८४॥ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः ।चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥८.८५॥स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः ।वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥८.८६॥शतमायतनं तत्र कूपानां च शतं नव ।तावत्संख्यास्तथारामा नन्दनाख्यवनानि च ॥८.८७॥तथा नवशतं वाप्यो विद्यन्ते कदलीवने ।बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥८.८८॥तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता ।सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥८.८९॥ततस्तस्य प्रवक्तव्यं दास्यामि परमेश्वरि ।क्षीरान्नं वा फलाहारं तदग्रे दापयेत्सुधीः ॥८.९०॥सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धारय ।यदा न मुञ्चसे भूमौ तदा सिद्ध्यष्टकं तव ॥८.९१॥दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः ।त्यक्ते करोमि संहारं तस्माद्यत्नेन रक्षय ॥८.९२॥इत्येवं साधको वीरः कुर्यात्सिद्धिमवाप्नुयात् ।गच्छेदुत्तरदिग्भागे तत्सरो योजनार्धकम् ॥८.९३॥तत्रास्ति पुष्पसम्पूर्णं दिव्याख्यं नन्दनं वनम् ।पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥८.९४॥अथवा भक्षयेत्तस्मात्फलमेकं यथाचितम् ।तेन भक्षितमात्रेण वज्रकायो भवेन्नरः ॥८.९५॥सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् ।तत्र दाडिमसम्पूर्णं दृश्यते नन्दनं वनम् ॥८.९६॥तत्फलं भक्षयेत्सिद्धो जीवेद्युगसहस्रकम् ।तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥८.९७॥तत्र धात्रीफलैः पूर्णं श्यामलं नन्दनं वनम् ।फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥८.९८॥तत्सरःपश्चिमभागे गच्छेद्योजनमात्रकम् ।तत्र बिल्वफलैः पूर्णं दृश्यते नन्दनं वनम् ॥८.९९॥तत्फलं भक्षयेद्वीरो जीवेच्चन्द्रार्कतारकम् ।तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ॥८.१००॥प्रविशेदुत्तरद्वारे तत्र नागो महाबलः ।उग्रः सप्तफणाकारो दृश्यतेऽतिभयंकरः ॥८.१०१॥तस्य कुर्यान्नमस्कारं ह्रुं ह्रुं कुर्यात्समुद्धरेत् ।तदासौ वदते वाणीमदृश्यत्वं ददामि ते ॥८.१०२॥गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका ।गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ॥८.१०३॥हारं दास्यति सा तुष्टा न प्रवेशं प्रयच्छति ।तं हारं धारयेत्कण्ठे साक्षाद्वागीश्वरो भवेत् ॥८.१०४॥ततस्तु दक्षिणं द्वारं गच्छेत्तत्र भयंकरम् ।मुक्तकेशं वक्रनेत्रं गदाहस्तं दिगम्बरम् ॥८.१०५॥नीलवर्णं क्षेत्रपालं दृष्ट्वा मन्त्रं समुच्चरेत् ।ह हा हे हे हं ह्रुंकारं फतुं स्वाहान्तमेव च ॥८.१०६॥अनेन मन्त्रपाठेन क्षेत्रपालः प्रसीदति ।ददाति खेचरीं सिद्धिं न प्रवेशं कदाचन ॥८.१०७॥ततस्तु पूर्वदिग्भागे द्वारं तत्र गणेश्वरः ।दृश्यते पूजयेत्तं वै साधकः प्रविशेत्ततः ॥८.१०८॥दृश्यते दिव्यचापं तु तथा लिङ्गं मनोहरम् ।पूजयेच्छिवमन्त्रेण रकारेणैव नान्यथा ॥८.१०९॥ततस्तत्र जपं कुर्यादहोरात्रमुपोषितः ।प्रत्यक्षो जायते रुद्रो वरं दत्ते यथेप्सितम् ॥८.११०॥इत्येवमादयः सन्ति सिद्धयः कदलीवने ।अक्षरैर्लिखितं द्वारे तत्र पद्मावतीबिलम् ॥८.१११॥सरसः पूर्वदिग्भागे योजनैकेन तिष्ठति ।वमनं रेचनं कृत्वा प्रविशेत्तत्र साधकः ॥८.११२॥धन्वन्तरं शतं यावद्गच्छेत्तत्र मृदङ्गम् ।दृष्ट्वा तं वादयेद्वीरः सम्यक्पद्मावती ततः ॥८.११३॥आगत्य चामृतं दत्ते यत्पानादमरो भवेत् ।ततस्तं प्रार्थयत्येव आगच्छ मम मन्दिरम् ॥८.११४॥दिव्यं कन्यापञ्चशतं परिवारेण स्वीकुरु ।अहं पत्नी भविष्यामि यावद्ब्रह्मा च जीवति ॥८.११५॥तदन्ते परमं स्थानं गच्छामो नात्र संशयः ।कदम्बेश्वरदेवस्तु आग्नेय्यां दिशि विद्यते ॥८.११६॥तस्य पूर्वतटाकाग्रे स्थितो वृक्षः कदम्बकः ।तस्य पत्त्राणि संगृह्य कटुतैलेन लेपयेत् ॥८.११७॥तद्वृक्षबीजतैलैर्वा तत्काष्ठैः पाचयेत्सुधीः ।मत्स्या भवन्ति ते सर्वे ताम्रपात्रे विनिक्षिपेत् ॥८.११८॥कण्ठपुच्छशिरोवर्जं मध्वाज्याभ्यां तु भक्षयेत् ।तत्क्षणाज्जायते सिद्धो रुद्रतुल्यो महाबलः ॥८.११९॥नदीस्थाने च यो वृक्षो विद्यते कुण्डलेश्वरे ।पूर्ववत्क्रमयोगेन सिद्धिः स्यान्नात्र संशयः ॥८.१२०॥कपोतेश्वरदेवस्योत्तरे पुष्पगिरिः स्थितः ।तस्य कुर्यात्प्रयत्नेन त्रिवारं तु प्रदक्षिणम् ॥८.१२१॥ततः शिरः समारुह्य खेचरत्वं लभेन्नरः ।तत्पूर्वोत्तरदिग्भागे छेलिकाद्वारस्थितम् ॥८.१२२॥उत्तराभिमुखं तत्र प्रविशेद्धनुषां त्रयम् ।मूषिकाकारपाषाणास्तिष्ठन्ति तान्समाहरेत् ॥८.१२३॥तक्रैः पिष्ट्वा तदेकं तु पिबेन्मूर्छामवाप्नुयात् ।क्षणादुत्तिष्ठते सिद्धो जीवेद्ब्रह्मदिनत्रयम् ॥८.१२४॥स एव सर्वलोहानां स्पर्शवेधकरो भवेत् ।अहोरात्रोषितो भूत्वा देवाग्रे सिद्धिमाप्नुयात् ॥८.१२५॥कपोतेश्वरदेवस्य दक्षिणे देवताद्वयम् ।तन्मध्ये कटिमात्रं तु खनेद्गोरोचनोपमाः ॥८.१२६॥पाषाणास्तान्समादाय मध्वाज्याभ्यां प्रपेषयेत् ।तत्पानाज्जायते मर्त्यः कल्पायुर्नात्र संशयः ॥८.१२७॥कपोतेश्वरदेवस्य वायव्ये हस्तमात्रकम् ।खनेत्पारावतप्रख्याः पाषाणाः स्पर्शभेदकाः ॥८.१२८॥तिष्ठन्ति ग्राहयेदेकं देवताराधने कृते ।मल्लिकार्जुनदेवस्य ऐशान्यां भृगुपातनम् ॥८.१२९॥विद्यते तत्समीपस्थं कुण्डं तस्मान्मृदाहरेत् ।पञ्चगव्येन सम्मिश्रां खदिराङ्गारकैर्धमेत् ॥८.१३०॥नीलोत्पलसमं लोहं पतत्येवाथ सेचयेत् ।मध्वाज्याभ्यां सुतप्तं तत्सप्तवारं पुनः पुनः ॥८.१३१॥तद्गोलं धारयेद्वक्त्रे विष्णुतुल्यो भवेन्नरः ।भृगुपातात्पूर्वभागे क्रोशोदधिकपाटके ॥८.१३२॥तस्याग्रे अच्छतैलाख्यः पर्वतो नाम विश्रुतः ।तत्पश्चिमे बिलद्वारं तन्मध्ये धन्वपञ्चकम् ॥८.१३३॥गते तु दृश्यते कुण्डं रसो लाक्षारसप्रभः ।अलाबुपात्रे संगृह्य कोटिवेधी भवेत्तु सः ॥८.१३४॥{स्पर्शवेधः: रोच्क्नेअर तेम्पुल्}मल्लिकार्जुनदेवस्य पूर्वतो लोकविश्रुतः ।प्राकारश्चन्द्रगुप्तस्य विद्यते तत्र मन्दिरम् ॥८.१३५॥तस्य पूर्वे स्थितश्चैत्यश्चैत्यपूर्वे महाशिला ।मुद्गवर्णा च सा ख्याता स्पर्शवेधकरा तु सा ॥८.१३६॥गजस्तत्रैव विख्यातस्तमारुह्य समाहितः ।तस्य पृष्ठात्तृणं ग्राह्यं तत्सर्वं कनकं भवेत् ॥८.१३७॥गजस्य चोत्तरे पार्श्वे जानुमात्रं खनेद्भुवम् ।जम्बूफलसमाकाराः सन्ति ते स्पर्शवेधकाः ॥८.१३८॥गजस्याधः खनेद्वाथ जानुमात्रं लभेत्ततः ।त्रिकोणगुटिकां सिद्धां लक्षवेधकरां पराम् ॥८.१३९॥श्रीशैलस्य तु वायव्ये तीर्थं देवह्रदः स्थितम् ।तत्र कुण्डे मुद्गवर्णाः पाषाणाः स्पर्शवेधकाः ॥८.१४०॥तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् ।कृत्तिकायां सुपूर्णायां कृत्वा पूजां समाहरेत् ॥८.१४१॥गव्यूतिद्वयतस्तस्मान्नाम्ना नीलवनं स्मृतम् ।तत्र लिङ्गं नीलवर्णं जलं चैव तु तादृशम् ॥८.१४२॥अश्वाभ्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः ।सन्ति देवगृहस्यान्तः खनेज्जान्वन्तराद्धरेत् ॥८.१४३॥श्रीशैलस्य तु नैरृत्ये नाम्ना गुण्डिप्रभा स्थिता ।तस्याग्राद्गर्तमृद्ग्राह्या पीतवर्णा पुटैर्दहेत् ॥८.१४४॥तस्मान्निःसरते हेम स्फुरद्रूपं न संशयः ।तत्रैव भ्रमराः स्युश्च पूर्ववत्फलदायकाः ॥८.१४५॥तथा तम्बीपुरे नाम्नि तीर्थे च विपुले शुभम् ।सदाफलं तु विख्यातं पूर्ववत्साधयेत्सुधीः ॥८.१४६॥महानन्देश्वरं नाम श्रीशैलस्य तु नैरृते ।तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥८.१४७॥कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् ।इन्द्रगोपकसंकाशस्तन्मध्ये विद्यते रसः ॥८.१४८॥तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् ।श्रीशैलस्य तु ईशाने देवः स्यात्तुरलेश्वरः ॥८.१४९॥तस्योत्तरे सुविख्यात उमापर्वत उत्तमः ।तस्य मूर्ध्नि त्रिशूलाभा दर्भास्तिष्ठन्ति शोभनाः ॥८.१५०॥तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् ।तां पचेदक्षजैः काष्ठैर्भागं देवाय कल्पयेत् ॥८.१५१॥अतिथेश्च तथाग्नेश्च भागं भागं प्रकल्पयेत् ।भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥८.१५२॥तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः ।तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥८.१५३॥अचलेशश्च तत्रैव स्पर्शवेधकरः परः ।दक्षिणे लेशस्य योजनैकेन विद्यते ॥८.१५४॥अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा ।तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥८.१५५॥प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा ।दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥८.१५६॥तच्छिलालोडितं कुर्याद्रक्षेदलाबुपात्रके ।तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥८.१५७॥श्रीशैले तत्र तत्रैव पाषाणाः पिण्डभूस्थिताः ।तच्चूर्णं त्रिफलासार्धं कर्षैकं भक्षयेत्सदा ॥८.१५८॥मासार्धं तु जरां हन्ति जीवेदाचन्द्रतारकम् ।नैरृत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥८.१५९॥तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके ।द्विहस्तमात्रोर्ध्वशिला तत्र हस्तद्वयं खनेत् ॥८.१६०॥श्रावसम्पुटसंकाशान्पाषाणांस्त्रिंशदाहरेत् ।कृत्वा तानग्निवर्णांश्च सिञ्चेत्कूष्माण्डजैर्द्रवैः ॥८.१६१॥तन्मध्यान्नवनीतं तु गृह्णीयाद्देवाय भागकम् ।अतिथेर्भागैकं तु भागैकं भक्षयेद्बुधः ॥८.१६२॥मूर्छा भवेद्दिवारात्रं प्रबुद्धो जायते नरः ।जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः ॥८.१६३॥तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् ।तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः ॥८.१६४॥सर्वस्पर्शा न संदेह एकमेव समाहरेत् ।तस्य देवस्य पूर्वे तु कूपः स्यान्नातिदूरतः ॥८.१६५॥तन्मध्ये भेकसंकाशाः पाषाणाः स्पर्शवेधाः ।उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥८.१६६॥तस्य चोत्तरपार्श्वे तु नदी स्यात्पूर्ववाहिनी ।नद्याः पश्चिमदिग्भागे लिङ्गं पिङ्गलवर्णकम् ॥८.१६७॥तत्र शैलोदकैः कुण्डं पूर्णं स्यात्क्षणवेधकम् ।महेशाद्दक्षिणे भागे चण्डिका योजनद्वये ॥८.१६८॥पिण्डादेवीति विख्याता तस्या वायव्यकोणतः ।कूपस्तिष्ठति तन्मध्ये पाषाणा मुद्गवर्णकाः ॥८.१६९॥तथा पथ्यानिभाश्चैव सर्वे ते स्पर्शवेधकाः ।स्पर्शनादत्र सर्वेषां वेधयुक्तिर्विधीयते ॥८.१७०॥स्थूलश्चेत्पेषयेच्छ्लक्ष्णं तेन मूषां तु कारयेत् ।अष्टलोहानि तन्मध्ये समावर्त्यानि कारयेत् ॥८.१७१॥तत्सर्वं जायते स्वर्णमेवं कुर्याद्यथेप्सितम् ।सूक्ष्मश्चेदष्टलोहानां द्रुतानां यत्र कुत्रचित् ॥८.१७२॥तं सर्वं निक्षिपेन्मध्ये सर्वं तत्काञ्चनं भवेत् ।मल्लिकार्जुनवायव्ये तीर्थं सर्वेश्वरं स्थितम् ॥८.१७३॥तस्य दक्षिणदिग्भागे जलमार्गेऽर्धयोजने ।गते डाङ्गरिकं तत्र दृश्यते तस्य मूर्धनि ॥८.१७४॥धात्रीफलानि कृष्णानि विद्यन्ते तानि भक्षयेत् ।यथेष्टानि तु सप्ताहं वज्रकायो भवेन्नरः ॥८.१७५॥वलीपलितनिर्मुक्तो जीवेत्कल्पशतत्रयम् ।तस्माच्च दक्षिणे भागे काकलेरीमहानवम् ॥८.१७६॥तत्रास्ति स्तम्भकदली प्रविशेत्तत्र साधकः ।गच्छेत्क्रोशार्धमात्रं तु दृश्यते रसकुण्डकम् ॥८.१७७॥गृहीत्वालाबुपात्रे तु कोटिवेधी भवेद्रसः ।तस्मिन्वने मयूरः स्यान्नीलवर्णशिलामयः ॥८.१७८॥मुखाग्रे तस्य कुण्डं तु द्वादशाङ्गुलनीलकम् ।तन्मध्ये शुष्कवंशं तु क्षिप्त्वा स्यान्नूतनः क्षणात् ॥८.१७९॥दिने पत्त्रं फलं पुष्पं जायते तस्य नान्यथा ।तत्र पारदप्रस्थैकं क्षिप्त्वा तावज्जलं हरेत् ॥८.१८०॥क्षौद्रतुल्यं पिबेत्तं वै तत्क्षणान्मूर्छितो भवेत् ।मुहूर्ताल्लब्धराज्यःस्याज्जीवेद्युगसहस्रकम् ॥८.१८१॥शैलस्याग्नेयभागे तु गुटिकासिद्धकेश्वरः ।विद्यते तस्य पुरतः पञ्चहस्तां खनेद्भुवम् ॥८.१८२॥पाषाणा बदराकाराः सन्ति खेगतिदायकाः ।एकमेव समाहृत्य वक्त्रे धार्यः खगामिभिः ॥८.१८३॥श्रीशैले सर्वयोगानां उक्तानां विधिरुच्यते ।मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेदनु ॥८.१८४॥अघोरं तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् ।क्षेत्रदेवतामावाहयेत् ।तत्र स्वप्ने देवता प्रत्यक्षीभूय वरं ददाति ।एवं मन्त्रपरैः सुनिश्चलतरैर्भक्तैश्च तत्साधकैः शम्भोः पूजनतत्परैः प्रतिदिनं पूजाविधेः पालकैः ।कार्यं श्रीगिरिसाधनं जपपरैराम्नायपारंगतैर्नो चेत्क्लेशकरं पराकृतमहो व्यर्थं भवेन्निश्चितम् ॥८.१८५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP