संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण २.६ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण २.६ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण २.६ Translation - भाषांतर येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः कामासक्ता हरिणनयनाश्चन्द्रबिम्बाननाश्च ।तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां मत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ॥६.१॥वज्रहेमार्कसूताभ्रलोहभस्म क्रमोत्तरम् ।सर्वं कन्याद्रवैर्मर्द्यं शाल्मल्याश्च द्रवैस्त्र्यहम् ॥६.२॥तद्रुद्ध्वा काचकूप्यन्तर्वालुकायां त्र्यहं पचेत् ।तत्कल्कं मुसलीक्वाथैर्वज्रार्कक्षीरसंयुतैः ॥६.३॥दिनैकं मर्दयेत्खल्वे रुद्ध्वान्तर्भूधरे पुटेत् ।यामादुद्धृत्य संचूर्ण्यं सिताकृष्णात्रिजातकैः ॥६.४॥समैः समं विमिश्र्याथ माषैकं भक्षयेत्सदा ।मागधी मुसली यष्टी वानरीबीजकं समम् ॥६.५॥चूर्णं सिताज्यगोक्षीरैः पलार्धं पाययेदनु ।कामिनीनां सहस्रैकं रममाणो न मुह्यति ।सेवनाद्दृढकायः स्याद्रसोऽयं मकरध्वजः ॥६.६॥शुद्धसूतं समं गन्धं रक्तोत्पलदलद्रवैः ।यामं मर्द्यं पुनर्गन्धं सार्धं तत्र विनिक्षिपेत् ॥६.७॥पूर्वद्रावैर्दिनं मर्द्यं रसार्धं गन्धकं पुनः ।दत्त्वा तद्वद्दिनं मर्द्यं काचकूप्यां निरोधयेत् ॥६.८॥दिनैकं वालुकायन्त्रे पक्वमुद्धृत्य चूर्णयेत् ।भूकुष्माण्डीकषायेण भावयेद्दिनसप्तकम् ॥६.९॥छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा ।शणमूलं सबीजं च मुसली शर्करा समम् ॥६.१०॥गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् ।अनन्तं वर्धते वीर्यं रसोऽयं मदनोदयः ॥६.११॥शुद्धसूतसमं गन्धं बदरीचित्रकद्रवैः ।मर्द्यं चाङ्कोल्लजैर्द्रावैस्तप्तखल्वे दिनत्रयम् ॥६.१२॥सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् ।तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥६.१३॥यावन्मांसं रक्तवर्णं ततः सूतं समुद्धरेत् ।त्रिदिनं मुसलीक्वाथैर्भावितं सितया युतम् ॥६.१४॥निष्कैकं भक्षयेन्नित्यं रसोऽयं मदनेश्वरः ।विदारीकन्दचूर्णं तु क्षीराज्येन पलं पिबेत् ॥६.१५॥रमयेत्स्त्रीशतं नित्यं तत्त्यागादन्धतां व्रजेत् ।मृताभ्रं पारदं स्वर्णं तुल्यं मर्द्यं दिनत्रयम् ॥६.१६॥मुसलीत्रिफलाक्वाथैर्वाजिगन्धाकषायकैः ।कदलीकन्दजैर्द्रावैस्तद्गोलं चान्धितं पुटेत् ॥६.१७॥भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् ।दिनैकं पूर्वजैर्द्रावैस्तद्वद्रुद्ध्वा पुटे पचेत् ॥६.१८॥पुनर्मर्द्यं पुनः पाच्यमेवमष्टपुटैः पचेत् ।शाल्मलीजातनिर्यासैस्तुल्यं शर्करया सह ॥६.१९॥खादेन्निष्कद्वयं नित्यं द्रावयेद्वनिताशतम् ।गोक्षीरैर्मर्कटीबीजं पलार्धं पाययेदनु ॥६.२०॥सर्वाङ्गोद्वर्तनं कुर्यात्सयवैः शाल्मलीद्रवैः ।रसः कामकलाख्योऽयं महावीर्यकरो नृणाम् ॥६.२१॥मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् ।कदलीकन्दजैर्द्रावैः शाल्मलीजद्रवैर्दिनम् ॥६.२२॥गोक्षीरैश्च दिनं मर्द्यं क्षणैकं पाचयेद्घृतैः ।तन्मध्ये शर्करां द्राक्षां धात्रीं रम्भाफलं मधु ॥६.२३॥गोक्षीरं मुसलीं माषान्कोकिलाक्षस्य बीजकम् ।सूताच्चतुर्गुणं क्षिप्त्वा मर्द्यं शाल्मलिजैर्द्रवैः ॥६.२४॥तत्सर्वं दिनमेकं तु कामदेवो रसो भवेत् ।निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥६.२५॥मैथुने दृढलिङ्गः स्याद्द्रावयेद्वनिताकुलम् ।प्रारम्भरजसा स्त्रीणां मर्दयेद्भस्मसूतकम् ॥६.२६॥मृतं ताम्रं च तारं च गन्धकं च समं दिनम् ।सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥६.२७॥रतिकामरसो नाम कामिनीरमणे हितः ।वानरीमूलगोधूमं कोकिलाक्षस्य बीजकम् ॥६.२८॥माषाश्चेक्षुरसैः सर्वं लोडितं पाचयेद्घृतैः ।तेनैव वटकाः कार्या नित्यं खादेद्द्वयं द्वयम् ॥६.२९॥अनुपानमिदं सिद्धं सेवनाद्रमयेच्छतम् ।शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः ॥६.३०॥मर्दितं चान्धितं पच्याद्यामं वालुकयन्त्रके ।रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥६.३१॥निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः ।अजस्य वृषणं क्षीरे पक्वं तिलसितायुतम् ॥६.३२॥यथेष्टं भक्षयेच्चानु रमयेत्कामिनीशतम् ।पलद्वयं द्वयं शुद्धं पारदं गन्धकं शुभम् ॥६.३३॥कर्षैकं मारितं स्वर्णं पलैकं मृतताम्रकम् ।रौप्यभस्म चतुर्निष्कं सर्वं पञ्चामृतैर्दिनम् ॥६.३४॥मर्द्यं रुद्ध्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।पिष्ट्वा पञ्चामृतैः खादेद्वटिकां बदराकृतिम् ॥६.३५॥अनङ्गसुन्दरी ख्याता रामाणां रमते शतम् ।शाल्मलीमूलचूर्णं तु मधुशर्करयान्वितम् ॥६.३६॥पलैकं भक्षयेच्चानु सिताक्षीरं तु पाययेत् ।शाल्मल्युत्थैर्द्रवैर्मर्द्यः पक्षैकं शुद्धपारदः ॥६.३७॥शुद्धगन्धं त्रिसप्ताहं तद्द्रवैर्मर्दयेत्पृथक् ।समावेतौ पुनर्मर्द्यौ घृतैर्यामचतुष्टयम् ॥६.३८॥तद्गोलं बन्धयेद्वस्त्रे घृतैर्यामद्वयं पचेत् ।ततस्तं शाल्मलीद्रावैर्मर्दयेद्दिवसत्रयम् ॥६.३९॥निक्षिपेत्काचकूप्यन्तर्वालुकायन्त्रगं पचेत् ।क्षिपेच्छाल्मलिजं द्रावं कूप्या गर्भे दिनावधि ॥६.४०॥सार्द्रमेव समुद्धृत्य मिश्र्यं तत्सितया समम् ।निष्कमात्रं सदा खादेद्रसोऽयं कामनायकः ॥६.४१॥मुसलीं ससितां क्षीरैः पलैकां पाययेदनु ।कामिनीनां सहस्रं तु क्षोभयेन्निमिषान्तरे ॥६.४२॥शुद्धसूतत्रयो भागा भागैकं ताम्रचूर्णकम् ।कृत्वा पिष्टीं निरुध्याथ रम्भाकन्दोदरे पुनः ॥६.४३॥मृल्लिप्तं शोषितं पच्याद्दिनैकं करीषाग्निना ।एवं सप्तदिनं पच्यात्कन्दे कन्दे दिनं दिनम् ॥६.४४॥उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे ।क्षुद्रशम्बूकमांसाक्तछागीरक्तगतं पचेत् ॥६.४५॥दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः ।गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥६.४६॥गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः ।पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥६.४७॥ततः क्षीरे सितायुक्ते तद्वत्पच्याद्दिनावधि ।उद्धृत्य मुसलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥६.४८॥रसः पूर्णेन्दुनामायं खादेन्मांसं सितायुतम् ।गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥६.४९॥कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा ।शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥६.५०॥सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् ।पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥६.५१॥कामिनीनां सहस्रैकं रमते कामदेववत् ।पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥६.५२॥मुसली भृङ्गराट्द्राक्षा पक्वं श्लेष्मातकं फलम् ।विजया मर्कटी माषाः शणबीजानि वै तिलाः ॥६.५३॥कोकिलाक्षस्य बीजानि भूकुष्माण्डी शतावरी ।शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥६.५४॥एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् ।पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥६.५५॥पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् ।चातुर्जातकमेकैकं कर्पूराद्द्विगुणं भवेत् ॥६.५६॥सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् ।तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥६.५७॥दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् ।मर्दितं सितया तुल्यं माषैकं भक्षयेत्सदा ॥६.५८॥रसो मदनकामोऽयं बलवीर्यविवर्धनः ।दिव्यरूपा भजेद्रामाः कामाकुलकलान्विताः ॥६.५९॥भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् ।कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥६.६०॥प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः ।तत्सर्वं चालयन्पच्याद्यावत्पिण्डत्वमागतम् ॥६.६१॥प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् ।अस्य चूर्णस्य कर्पूरं चतुःषष्ट्यंशकं क्षिपेत् ॥६.६२॥चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः ।सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥६.६३॥कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् ।निषेकं मारितं चाभ्रं खादेच्छर्करया समम् ॥६.६४॥शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् ।पलैकं सितया चानु सेवेत कामिनीशतम् ॥६.६५॥वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः ।वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥६.६६॥चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा ।एतत्कर्षं गवां क्षीरैः पिबेत्कामाङ्गनायकः ॥६.६७॥तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् ।भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥६.६८॥अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च ।मूलं मुसलीजं कन्दं कोकिलाक्षस्य बीजकम् ॥६.६९॥विदारीपद्मिनीकन्दं वानरीबीजकं समम् ।एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥६.७०॥पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् ।क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥६.७१॥धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः ।एकविंशतिवारान्वै शोष्यं पेष्यं पुनः पुनः ॥६.७२॥तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् ।पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥६.७३॥धात्रीलोहप्रभावेन रमयेत्कामिनीशतम् ।पुनर्नवा नागबला वाजिगन्धा शतावरी ॥६.७४॥गोक्षुरं मुसलीकन्दं मृतं सूतं समं समम् ।चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥६.७५॥तण्डुलं वानरीबीजं चूर्णयेत्सितया समम् ।आलोडयेद्गवां क्षीरैस्तेन पच्यादपूपिकाम् ॥६.७६॥तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् ।वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥६.७७॥नालिकेरोदकैर्भाव्यं यामान्ते पेषयेत्ततः ।विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥६.७८॥घृतैस्तद्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् ।क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥६.७९॥वालुकासम्भवं मत्स्यं सुपक्वं भक्षयेद्घृतैः ।षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥६.८०॥ऊर्णनाभिं समं क्षौद्रैः पिष्ट्वा नाभिं प्रलेपयेत् ।मुच्यते बद्धषण्ढोऽपि क्षीरैर्वह्निं पिबेदनु ॥६.८१॥स्वयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा ।घृताक्ता दलिता माषाः क्षीरेण सह पाचिताः ॥६.८२॥सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा ह्यलम् ।क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥६.८३॥सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुसलीगोकण्टकेक्षुरकाम् ।रम्भाकन्दशतावरी ह्यजमोदा माषास्तिला धान्यकं यष्टी नागबला कचोरमदनं जातीफलं सैन्धवम् ॥६.८४॥भार्गीकर्कटशुङ्गिभृङ्गत्रिकटु द्वौ जीरकौ चित्रकं चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः ।शाल्मल्यङ्घ्रि फलत्रिकं कपिभवं बीजं समं चूर्णयेच्चूर्णांशा विजयासिताद्विगुणिता मध्वाज्यमिश्रंतु तत् ॥६.८५॥कर्षार्धां गुलिकां विलेह्यमथवा कृत्वा सदा सेवयेत्पेया क्षीरसितानु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् ।श्यामावश्यकरः समाधिसुखदः सङ्गेऽङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥६.८६॥कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो ह्यर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् ।नित्यानन्दकवेर्विशेषकवितावाचाविलासोद्भवं दत्ते सर्वं महास्थिरदशां ध्यानावसाने भृशम् ॥६.८७॥अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात्सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे सिद्धोऽयं धनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम् ॥६.८८॥इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् ।भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥६.८९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP