संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण १.६ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण १.६ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ६ Translation - भाषांतर {अभ्रः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}अशुद्धाभ्रं निहन्त्यायुर्वर्धयेन्मारुतं कफम् ।अहतं छेदयेद्देहं मन्दाग्निक्रिमिदायकम् ॥६.१॥{अभ्रः: सुब्त्य्पेस्}कृष्णं पीतं सितं रक्तं योज्यं योगे रसायने ।पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् ॥६.२॥पिनाकाद्यास्त्रयो वर्ज्या वज्रं यत्नात्समाहरेत् ।{पिनाकः: परीक्षा}मुञ्चत्यग्नौ विनिक्षिप्ते पिनाको दलसंचयम् ॥६.३॥अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् ।{दर्दुर}दर्दुरो निहितो ह्यग्नौ कुरुते दर्दुरध्वनिम् ॥६.४॥{नाग}नागश्चाग्निगतः शब्दं फूत्कारं च विमुञ्चति ।स च देहगतो नित्यं व्याधिं कुर्याद्भगन्दरम् ॥६.५॥{वज्राभ्र}वज्राभ्रकं वह्निसंस्थं न किंचिद्विकृतिं व्रजेत् ।तस्माद्वज्राभ्रकं योज्यं व्याधिवार्द्धक्यमृत्युजित् ॥६.६॥{धान्याभ्रकः: प्रोदुच्तिओन्}धमेद्वज्राभ्रकं वह्नौ ततः क्षीरे निषेचयेत् ।भिन्नपत्रं तु तं ज्ञात्वा मेघनादद्रवाम्लयोः ॥६.७॥भावयेदष्टयामं तद्धान्याभ्रं कारयेत्सुधीः ।{धान्याभ्रकः: प्रोदुच्तिओन्}अथवाभ्रस्य भागौ द्वौ टङ्कश्चैकं जलैः सह ॥६.८॥द्विदिनं स्थापयेत्पात्रे सूक्ष्मं कृत्वा प्रपेषयेत् ।बद्ध्वा धान्ययुतं वस्त्रे मर्दयेत्काञ्जिकैः सह ॥६.९॥अधो यद्गालितं सूक्ष्मं शुद्धं धान्याभ्रकं भवेत् ॥६.१०॥{अभ्रः: मारणः: निश्चन्द्र}पुनर्नवामेघनादद्रवैर्धान्याभ्रकं दिनम् ।मर्द्यं गजपुटे पच्यात्पुनश्चिञ्चाथ सूरणैः ॥६.११॥द्रवैर्मुस्तभवैर्मर्द्यं पृथग्देयं पुटत्रयम् ।एवं मर्कदलैर्वेष्ट्यं देयं वा मोचसम्पुटे ॥६.१२॥निश्चन्द्रं जायते ह्यभ्रं यथा दोषेषु योजयेत् ।{अभ्रः: मारणः: निश्चन्द्र}गोघृतैस्त्रिफलां क्वाथैः पक्त्वा च पूर्ववत्पचेत् ॥६.१३॥पञ्चविंशत्पुटैरेव कासमर्द्याः द्रवैः पचेत् ।देयं पुटत्रयं क्षीरैर्मर्दयेच्च पुटे पुटे ॥६.१४॥निश्चन्द्रं जायते ह्यभ्रं जरामृत्युरुजापहम् ।{अभ्रः: मारण}धान्याभ्रकस्य भागैकं द्वौ भागौ टंकणस्य च ॥६.१५॥पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत् ॥६.१६॥{धान्याभ्रकः: मारण}धान्याभ्रकमम्लंपिष्टं पुटे तप्तेऽम्लसेचनम् ।तत्पिष्ट्वा धारयेत्खल्वे भाव्यमम्लारनालकैः ॥६.१७॥तप्तं तप्तं चारनालैः पाच्यं शोध्यं पुनः पुनः ।पुटे वा धमने पाच्यं विंशद्वारं पुनः पुनः ॥६.१८॥तप्तं तप्तं क्षिपेद्दुग्धे पिष्ट्वाथ शोषयेत्पुनः ।दुग्धतप्तं पुटं पच्यात्तप्तं दुग्धेन सेचयेत् ॥६.१९॥एवं त्रिसप्तवाराणि शोष्यं पेष्यं पुटे पचेत् ।पेषयित्वा पचेत्स्थाल्यां लौहदर्व्या विचालयेत् ॥६.२०॥दुग्धस्थं च ततो दुग्धैः पुटे पच्यात्पुनः पुनः ।एवं सप्तदिनं पच्याद्दिवा चैकं पुटे निशि ॥६.२१॥तण्डुली वज्रवल्ली च तालमूली पुनर्नवा ।चाङ्गेरी मरिचं चैव बलायाः पयसा सह ॥६.२२॥एभिश्च पेषयेच्चाभ्रं प्रत्येकं तं त्र्यहं त्र्यहम् ।स्थित्वा तप्ते पुटे पश्चात्प्रत्येकेन पुनः पुनः ॥६.२३॥पिष्ट्वा पुनः पुटे घृष्टं कज्जलाभं मृतं भवेत् ॥६.२४॥{अभ्रः: मारणः: निश्चन्द्र}धान्याभ्रकस्य शुद्धस्य दशांशं मरिचं क्षिपेत् ।पेषयेदम्लवर्गेण चाम्ले भाव्यं दिनत्रयम् ॥६.२५॥तं शुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर्दृढम् ।ऊर्ध्वपात्रं निरूप्याथ सेचयेदम्लकेन तत् ॥६.२६॥अगस्त्यशिग्रुवर्षाभूमूलैस्तं पत्रजै रसैः ।पिष्ट्वाभ्रं सेचयेत्तेन यद्वान्याम्लरसेन च ॥६.२७॥सितामध्वाज्यगोक्षीरैर्दध्नाम्लं पेष्यं अभ्रकम् ।मत्स्याक्ष्याः करवीरायाः द्रवैः पिष्ट्वा त्रिधा पचेत् ॥६.२८॥ततो गजपुरे पाच्यं निश्चन्द्रं जायतेऽभ्रकम् ।{अभ्रः: मारणः: निश्चन्द्र}धान्याभ्रकं द्रवैर्मर्द्यं मत्स्याक्षीतुलसीद्रवैः ॥६.२९॥मूलजैः कोकिलाक्षस्य कुमारीश्वेतदूर्वयोः ।व्याघ्रीकन्दपुनर्नवया दिनं एतैर्विमर्दयेत् ॥६.३०॥कुञ्जराख्यैः पुटैः सप्त पिष्ट्वा पिष्ट्वा पचेत्पुनः ।तद्वत्पञ्चामृतैः पाच्यं पिष्ट्वा पिष्ट्वा तु सप्तधा ॥६.३१॥एवं निश्चन्द्रतां याति सर्वरोगेषु योजयेत् ॥६.३२॥{अभ्रः: मारणः: निश्चन्द्र}धान्याभ्रं टंकणं तुल्यं गोमूत्रैस्तुलसीदलैः ।वाकुच्याः सूरणैरल्पैर्दिनं पिष्ट्वा पुटे पचेत् ॥६.३३॥जयन्त्याश्च द्रवैः पश्चान्मर्द्यं मर्द्य त्रिधा पुटेत् ।चतुर्गजपुटेनैवं निश्चन्द्रं सर्वरोगजित् ॥६.३४॥{अभ्रः: मारण}धान्याभ्रकं रविक्षीरैः रविमूलद्रवैश्च वा ।मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम् ॥६.३५॥{अभ्रः: मारण}धान्याभ्रकं तुषाम्लाम्लैरातपे स्थापयेद्दिनम् ।यामं मर्द्यं चतुर्गोलं रुद्ध्वा गजपुटे पचेत् ॥६.३६॥एवं गोक्षीरमध्यस्थं स्थाप्यं मर्द्य पुटे पचेत् ।एवं कार्पासतोयेन स्थाप्यं पेष्यं पुटे पचेत् ॥६.३७॥ततोऽम्लैश्चैव कार्पासैर्गवां क्षीरैः पुनः पुनः ।घर्मपाकं मर्दनं च पुटं चैवं अनुक्रमात् ॥६.३८॥एवं विंशत्पुटे प्राप्ते मृतो भवति निश्चितम् ॥६.३९॥{अभ्रः: मृतः: अमृतीकरण}सर्वेषां घातिताभ्राणाममृतीकरणं शृणु ।त्रिफलोत्थकषायस्य पलान्यादाय षोडश ॥६.४०॥गोमूत्रस्य पलान्यष्टौ मृताभ्रस्य पलान्दश ।एकीकृत्य लौहपात्रे पाचयेन्मृदुवह्निना ॥६.४१॥द्रवे जीर्णे समादाय सर्वं रोगेषु योजयेत् ।{अभ्रः: मेदिच्. प्रोपेर्तिएस्}अनुपानं विना ह्यभ्रं जरामृत्युरुजापहम् ॥६.४२॥योजयेदनुपानैर्वा तत्तद्रोगहरं क्षणात् ।मृतं चाभ्रं हरेद्रोगान्जरामृत्युमनेकधा ॥६.४३॥सेवितं देहदार्ढ्यं च रूपवीर्यं विवर्धयेत् ॥६.४४॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP