संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.११ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.११ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.११ Translation - भाषांतर {रसस्य १८ संस्काराः}सिद्धैः सूतवरस्य कर्म विविधं ख्यातं विचित्रैः क्रमैः साध्यासाध्यविवेकतो ह्यनुभवन्दृष्ट्वा समस्तं मया ।युक्त्याष्टादशधा विशेषविधिना स्वेदादिवेधान्तकं दक्षाणां सुखसाध्यमेव सुखदं संतन्यते साम्प्रतम् ॥११.१॥{१८ संस्कारस्}स्वेदनं मर्दनं मूर्छोत्थापनं पातनं त्रिधा ।निरोधनं नियामश्च दीपनं चानुवासनम् ॥११.२॥जारणं चारणं चैव गर्भबाह्यद्रुतिस्तथा ।रञ्जनं सारणं चानुसारणा प्रतिसारणा क्रामणं देहलोहेषु ॥११.३॥{काञ्जिकः: प्रोदुच्तिओन्}नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः ।मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥११.४॥तन्मध्ये भृङ्गराङ्मुण्डी विष्णुक्रान्ता पुनर्नवा ।मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥११.५॥त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् ।समूलं खण्डयित्वा तु यथालाभं निवेशयेत् ॥११.६॥पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।{काञ्ज्कः: उसे}स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ।{काञ्जिकः: सुब्स्तितुतेद्ब्यारनाल}अत्यम्लं आरनालं वा तदभावे नियोजयेत् ॥११.७॥{स्वेदनम्}त्र्यूषणं लवणं राजी चित्रकं त्रिफलार्द्रकम् ।महाबला नागबला मेघनादः पुनर्नवा ॥११.८॥मेषशृङ्गी चित्रकं च नवसारं समं समम् ।एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव मर्दयेत् ॥११.९॥तत्कल्केन लिम्पेद्वस्त्रे यावदङ्गुलमात्रकम् ।तन्मध्ये निक्षिपेत्सूतं बद्ध्वा पच्याद्दिनत्रयम् ।दोलायन्त्रेऽम्लसंयुक्ते स्वेदितो जायते रसः ॥११.१०॥{मर्दनम्}प्रक्षाल्य काञ्जिकैः सोष्णैस्तमादाय विमर्दयेत् ।अत्यम्लं आरनालं तत्तदभावे नियोजयेत् ॥११.११॥गृहधूमेष्टिकाचूर्णं दग्धोर्णा लवणं गुडम् ।राजिका त्रिफला कन्या चित्रकं बृहती कणा ॥११.१२॥वन्ध्याकर्कोटकी चाथ व्यस्तं वाथ समस्तकम् ।क्वाथयेदारनालेन तेन मर्द्यं त्र्यहं रसम् ।प्रक्षाल्य काञ्जिकेनैव समादाय विमूर्छयेत् ॥११.१३॥{मूर्छनम्}मेषशृङ्गी कृष्णधूर्तो बला श्वेतापराजिता ॥११.१४॥कन्याग्नित्रिफला चैव सर्पाक्षी सूरणं वचा ।गोजिह्वा चाङ्गुली नीली मुरुण्डी क्षीरकन्दकम् ॥११.१५॥राजिका काकमाची च रविक्षीरं च काञ्चनम् ।व्यस्तानां वा समस्तानां द्रावैश्चैषां विमर्दयेत् ॥११.१६॥यामैकं रसराजं च मूषायां संनिरोधयेत् ।पुटैकेन पचेत्तं तु भूधरे वाथ मर्दयेत् ॥११.१७॥सर्वद्रावैर्यथापूर्वं रुद्ध्वा रुद्ध्वा विपाचयेत् ।इत्येवं सप्तधा कुर्याज्जायते मूर्छितो रसः ॥११.१८॥{उत्थापनम्}जलैः सोष्णारनालैर्वा लोलनादुत्थितो भवेत् ।अथवा पातनायन्त्रे पाचनादुत्थितो भवेत् ।एवमुत्थापितः सूतस्त्रिधा पात्यः क्रमेण तु ॥११.१९॥{ऊर्ध्वपातनम्}काकमाची जया ब्राह्मी चाङ्गेरी रक्तचित्रकम् ।अङ्कोली राजवृक्षश्च तिलपर्णी कुमारिका ॥११.२०॥मण्डूकी चित्रकं पाठा काकजङ्घा शतावरी ।भूपाटली देवदाली निर्गुण्डी गिरिकर्णिका ॥११.२१॥शणपुष्प्यार्द्रकं शृङ्गी गोजिह्वा क्षीरकन्दकम् ।नीली चैषां समस्तानां व्यस्तानां च द्रवैर्दिनम् ॥११.२२॥ताम्रपादयुतं सूतं मर्दयेदम्लकैः सह ।तत्पिष्टः पातयेद्यन्त्रे चोर्ध्वपातनके पुनः ॥११.२३॥आदाय मर्दयेत्तद्वत्ताम्रचूर्णेन संयुतम् ।पातयेन्मर्दयेच्चैव ताम्रं दत्त्वा पुनः पुनः ।इत्येवं सप्तधा कुर्यान्मर्दनं पातनं क्रमात् ॥११.२४॥ऊर्ध्वलग्नं समादाय अधःपातेन पातयेत् ॥११.२५॥{अधःपातनम्}त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।सूततुल्यं तु तत्सर्वं काञ्जिकैर्मर्दयेद्दिनम् ॥११.२६॥तेन लिम्पेदूर्ध्वभाण्डं पृष्ठे देयं पुटं लघु ।अधःपातनयन्त्रे तु पातितं तु समुद्धरेत् ॥११.२७॥{तिर्यक्पातनम्}त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।धान्याभ्रकं रसं सर्वं मर्दयेदारनालकैः ॥११.२८॥नष्टपिष्टं तु तत्पात्यं तिर्यग्यन्त्रे दृढाग्निना ॥११.२९॥{निरोधनम्}लवणेनाम्बुपिष्टेन हण्डिकान्तर्गतं रसम् ।आच्छाद्याथ जलं किंचित्क्षिप्त्वा श्रावेण रोधयेत् ।ऊर्ध्वं लघुपुटं देयं लब्ध्वाप्यधो भवेद्रसः ॥११.३०॥{दीपनम्}त्रिक्षारं पञ्चलवणं भूखगं शिग्रुमूलकम् ।स्वर्णपुष्पी च कासीसं मरिचं राजिका मधु ॥११.३१॥क्षीरकन्दो जया कन्या विजया गिरिकर्णिका ।काकजङ्घा शोणपुष्पी पातालगरुडी कणा ॥११.३२॥वन्ध्याकर्कोटकी वह्निर्व्यस्तं वाथ समस्तकम् ।पेषयेदम्लवर्गेण तद्द्रवैर्मर्दयेद्रसम् ॥११.३३॥दिनान्ते बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ।पूर्वद्रावैर्घटे पूर्णे ग्रासार्थी जायते रसः ॥११.३४॥{अनुवासनम्}दीपितं रसराजं तु जम्बीररससंयुतम् ।दिनैकं धारयेद्घर्मे मृत्पात्रे वासितो भवेत् ॥११.३५॥स्वेदनादिशुभकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् ।अष्टमांशं अवशिष्यते तदा शुद्धसूत इति कथ्यते बुधैः ॥११.३६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP