संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१३ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१३ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१३ Translation - भाषांतर दृष्टयोगफलसिद्धिदं ध्रुवं पारदस्य वरजारणे हितम् ।सत्त्वपातनं अनेकयोगतो द्वंद्वमेलं अभिषेकं आर्यकम् ॥१३.१॥{अभ्रः: शोधन}मुस्ताक्वाथेन सप्ताहं कुर्याद्धान्याभ्रकं प्लुतम् ।शिग्रुसूरणरम्भानां कंदस्यैकस्य च द्रवैः ॥१३.२॥पेटारीमूलजंबीरद्रावैर्वाप्यं परिप्लुतम् ।इत्थं प्लुतस्याभ्रकस्य पादांशं टंकणं क्षिपेत् ॥१३.३॥दिनैकं मर्दयेत्खल्वे युक्तमम्लेन केनचित् ॥१३.४॥{कान्तलोह, माक्षिक, उपरसः: सत्त्वः: पातन}गुञ्जागुग्गुलुलाक्षोर्णासर्जीसर्जरसं गुडम् ।क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम् ॥१३.५॥भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवा ।धत्तूरो लाङ्गली पाठा बला गंधकतिक्तकम् ॥१३.६॥गोक्षीरं पंचलवणं सर्पवृश्चिकविषं मधु ।षड्बिन्दुः क्षुद्रशम्बूकमस्थीनि शशकस्य च ॥१३.७॥पारावतमलं त्र्यूषं इंद्रगोपं च शिग्रुकम् ।गोधूमं सर्षपं तुल्यं छागीदुग्धेन मर्दयेत् ॥१३.८॥एतद्व्यस्तं समस्तं वा याममात्रेण पिण्डितम् ।अस्य पिण्डस्य भागैकं द्विभागं शोधिताभ्रकम् ॥१३.९॥पञ्चमाहिषभागैकं सर्वमेकत्र लोलयेत् ।कर्षांशा वटिकाः कार्याः किंचिच्छायाविशोषिताः ॥१३.१०॥खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपन्क्षिपन् ।वटिकाः पञ्चपञ्चैव वङ्कनालेन संधमन् ॥१३.११॥समाप्तौ किट्टमादाय स्फोटयेत्स्वाङ्गशीतलम् ।वर्तुलं सत्त्वमादाय शेषकिट्टं विचूर्णयेत् ॥१३.१२॥चूर्णादर्धं पूर्वपिण्डं तद्वन्माहिषपञ्चकम् ।एकीकृत्य धमेत्तद्वत्सत्त्वं तत्तत्समाहरेत् ॥१३.१३॥इत्येवं च पुनः कुर्यात्त्रिधा सत्त्वं विमुञ्चति ।अनेन क्रमयोगेन कान्तसत्त्वं च माक्षिकम् ॥१३.१४॥कठिनोपरसाश्चान्ये शुद्धा भूनागमृत्तिका ।मुञ्चन्ति सत्त्वसंघातं ग्राहयेत्तत्पृथक्पृथक् ॥१३.१५॥{अभ्रः: सत्त्वः: मृदूकरण}अभ्रसत्त्वं समादाय समांशं काचटंकणम् ।दत्त्वा दत्त्वा त्रिवारं तु वज्रमूषागतं धमेत् ॥१३.१६॥अम्लवर्गं स्नुहीपत्रं चिञ्चाबीजं सवल्कलम् ।कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत् ॥१३.१७॥मृदुशुभ्रं भवेत्सत्त्वं सप्तवारं निषेचयेत् ॥१३.१८॥{अभ्रः: सत्त्वः: पातन}धान्याभ्रं दशभागं स्यात्शुद्धनागं त्रिभागकम् ।टंकणं माक्षिकं सूतं भागैकैकं सुशोधितम् ॥१३.१९॥ऊर्णा सर्जी यवक्षारं भागं भागं विमिश्रयेत् ।मर्द्यं मूत्राम्लवर्गाभ्यां यथाप्राप्तं दिनावधि ॥१३.२०॥अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् ।कृत्वादाय मृदु साक्षान्निर्मलं योजयेदधः ॥१३.२१॥{माक्षिकः: सत्त्वमः: पातन}दोलायंत्रे सारनाले माक्षिकं स्वेदयेद्दिनम् ।चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे दिनं पचेत् ॥१३.२२॥आदाय भावयेद्घर्मे वज्रीक्षीरैर्दिनावधि ।गृहधूमैर्घृतैः क्षौद्रैः संयुक्तं मर्दयेद्दिनम् ॥१३.२३॥अंधमूषागतं ध्मातं सत्त्वं गुंजानिभं भवेत् ॥१३.२४॥{माक्षिकः: सत्त्वः: पातन}कदलीकंदतोयेन माक्षिकं शतधातपे ।भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः ।पूर्ववद्धमनात्सत्त्वं इंद्रगोपनिभं भवेत् ॥१३.२५॥{माक्षिकः: सत्त्वमः: पातन}स्नुह्यर्कपयसा स्तन्यैर्माक्षिकं मर्दयेद्दिनम् ।कंकुष्ठं टंकणं चैव प्रतिपादांशमिश्रितम् ॥१३.२६॥मूकमूषागतं ध्मातं सत्त्वं मणिनिभं भवेत् ॥१३.२७॥{माक्षिकः: सत्त्वः: पातन}कदलीकंदतुलसीजंबीराणां द्रवैः क्रमात् ।भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा ।रुद्ध्वा ध्माते पतेत्सत्त्वं शुकसंनिभं शुभम् ॥१३.२८॥{माक्षिकः: सत्त्वः: पातन}मूत्रवर्गाम्लवर्गैश्च द्विसप्ताहं विभावयेत् ।माक्षिकं तीव्रघर्मेण दिनैरम्लैश्च मर्दयेत् ॥१३.२९॥मित्रपञ्चकसंयुक्तैर्वटी कृत्वा धमेद्दृढम् ।व्योमवद्वंकनालेन सत्त्वं शुल्बनिभं भवेत् ॥१३.३०॥{माक्षिकः: सत्त्वः: पातन}स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः ।मित्रपंचकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥१३.३१॥भावितं मर्दयेद्यामं दिनं वातारितैलकैः ।मृद्वग्निना पचेद्यामं यावद्भवति गोलकम् ।सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद्भवेत् ॥१३.३२॥{विमलः: सत्त्वः: पातन}विमलानां च शुद्धानां सम्यक्स्यात्ताप्यवद्विधिः ॥१३.३३॥{माक्षिकः: सत्त्वः: धौतसत्त्व}सुशुद्धं माक्षिकं चूर्णं मर्द्यमम्लेन केनचित् ।क्षालयेदारनालैस्तु ह्यधस्थं स्वर्णचूर्णवत् ॥१३.३४॥जायते तत्समुद्धृत्य धौतसत्त्वमिदं भवेत् ।योजयेद्वापने चैव बीजानां यत्र यत्र वै ॥१३.३५॥{माक्षिकः: सत्त्वः: पातन}माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् ।पूर्ववद्धमनेनैव सत्त्वं लाक्षानिभं भवेत् ॥१३.३६॥{मनःशिलाः: सत्त्वः: पातन}अगस्त्यशिग्रुजैस्तोयैस्त्र्यहं भाव्या मनःशिला ।तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् ।{मनःशिलाः: सत्त्वः: पातन}गोमूत्रैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला ।तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥१३.३७॥दिनान्ते मर्दयेद्यामं मित्रपंचकसंयुतम् ।गुटिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ।सर्वतोऽङ्गुलमानेन वस्त्रमृत्तिकया लिम्पेत् ॥१३.३८॥शुष्कां तां वालुकायंत्रे शनैर्मृद्वग्निना पचेत् ।शुष्के द्रवे निरुध्याथ सम्यक्मृल्लवणैर्मुखम् ॥१३.३९॥चण्डाग्निना पचेत्तावद्यावद्द्वादशयामकम् ।स्वांगशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥१३.४०॥ऊर्ध्वलग्नं शिलासत्त्वं बालार्ककिरणोपमम् ॥१३.४१॥{हरितालः: सत्त्वः: पातन}भागाः षोडश तालस्य विषं पारदटंकणम् ।श्वेताभ्रबंगयोश्चूर्णं प्रतिभागं विमिश्रयेत् ॥१३.४२॥सर्वं स्नुह्यर्कपयसा मर्दयेद्दिवसत्रयम् ।शिलावद्ग्राहयेत्सत्त्वं तालकात्स्फटिकोपमम् ॥१३.४३॥{हरितालः: सत्त्वः: पातन}स्नुक्क्षीरकटुतुम्ब्युत्थैस्तालं भाव्यं द्विसप्तधा ॥१३.४४॥तिलसर्षपशिग्रूणि लवणं मित्रपंचकम् ।एभिस्तुल्यं पूर्वतालं दिनमेकं विमर्दयेत् ॥१३.४५॥छिद्रमूषागतं ध्मातं भूधरे सत्त्वमाहरेत् ॥१३.४६॥{हरितालः: सत्त्वः: पातन}लाक्षा राजी गुडं शिग्रुष्टंकणं लवणं तिलाः ।एभिस्तुल्यं शुद्धतालं मर्दयेद्रविदुग्धकैः ॥१३.४७॥दिनं वा वज्रिणीदुग्धैः कुष्माण्डस्य द्रवैस्तथा ।तेन कल्केन लिप्तांतश्छिद्रमूषां निरोधयेत् ॥१३.४८॥पुटाद्वा धमनाद्ग्राह्यं सत्त्वं पातालयन्त्रके ॥१३.४९॥{हरितालः: सत्त्वः: पातन}तालकादष्टमांशेन देयं सूतं च टंकणम् ।कुष्माण्डस्य रसैः स्नुह्याः क्षीरैर्मर्द्यं दिनत्रयम् ।तद्गोलं छिद्रमूषांतर्ग्राह्यं सत्त्वं च पूर्ववत् ॥१३.५०॥{तुत्थः: सत्त्वः: पातन}लाक्षाभया च भूनागं गृहधूमं जटाकणा ।निशाटंकणमध्वाज्यान्येभिस्तुल्यं च तुत्थकम् ॥१३.५१॥सर्वं मर्द्यमजाक्षीरैरन्धमूषागतं धमेत् ।सत्त्वं किंशुकपुष्पाभं जायते नात्र संशयः ॥१३.५२॥{तुत्थः: सत्त्वः: पातन}हरिद्रासूरणाङ्कोल्लं तण्डुली गंधकं गुडम् ।मध्वाज्यटंकणं तुल्यं तुत्थमेभिः समं भवेत् ॥१३.५३॥स्तन्येन मर्दयेत्सर्वं छिद्रमूषां विलेपयेत् ।रुद्ध्वा पातालयंत्रेण ध्माते सत्त्वं विमुञ्चति ॥१३.५४॥{तुत्थः: सत्त्वः: पातन}तुत्थस्य टंकणं पादं चूर्णयेन्मधुसर्पिषा ।तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना ।धामिते मुञ्चते सत्त्वं कीरतुण्डसमप्रभम् ॥१३.५५॥{वरनागसत्त्व}सौवीरं तीक्ष्णचूर्णं च मूषायामन्धयेत्समम् ।हठाद्ध्माते भवेत्सत्त्वं वरनागं तदुच्यते ॥१३.५६॥{रसकः: सत्त्वः: पातन}क्षाराम्लं स्नेहपित्तैश्च क्रमाद्भाव्यं दिनं दिनम् ।पुष्पाणां रक्तपीतानां रसैर्भाव्यं दिनद्वयम् ॥१३.५७॥रसकं चूर्णयेत्पश्चादूर्णा लाक्षा निशाभया ।टंकणं शिग्रुधूमं च भूनागं सप्तमं भवेत् ॥१३.५८॥एभिः समं तु तच्चूर्णमजाक्षीरेण मर्दयेत् ।याममेतेन कल्केन लेप्या वार्ताकमूषिका ॥१३.५९॥शुष्का चार्धमुखाङ्गारैर्ध्माते सत्त्वं समाहरेत् ॥१३.६०॥{रसकः: सत्त्वः: पातन}रसकस्यैकभागं तु त्रिफलामित्रपंचकम् ।रजनीगृहधूमं च दशानामेकभागकम् ॥१३.६१॥अजाक्षीरैर्दिनं मर्द्यं अथवाम्लेन केनचित् ।पूर्ववद्ग्राहयेत्सत्त्वं रसकात्कुटिलप्रभम् ॥१३.६२॥{वैक्रान्तः: सत्त्वः: पातन}वन्ध्याचूर्णं च वैक्रांतं छायाया मर्दयेत्समम् ।अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् ॥१३.६३॥{वैक्रान्तः: सत्त्वः: पातन}मोक्षमोरटपालाशक्षारं गोमूत्रगालितम् ।गृहीतमातपे शुष्कं वज्रकन्दं च टंकणम् ॥१३.६४॥लाक्षा शिखिशिखातुल्यं वैक्रांतं सर्वतुल्यकम् ।मेषशृंगीद्रवैर्मर्द्यं एतत्सर्वं दिनावधि ॥१३.६५॥पिण्डितं मूकमूषांतः कृत्वा धाम्यं हठाग्निना ।तत्रैव मुञ्चते सत्त्वं वैक्रांतं रसबन्धकम् ॥१३.६६॥{वैक्रान्तः: सत्त्वः: पातन}वैक्रांतानां पलैकं तु कर्षैकं टंकणस्य च ।रविक्षीरैर्दिनं भाव्यमथ शिग्रुद्रवैर्दिनम् ॥१३.६७॥गुंजापिण्याकवह्नीनां प्रतिकर्षं नियोजयेत् ।एतेन गुलिकां कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् ॥१३.६८॥शंखकुन्देन्दुसंकाशं सत्त्वं वैक्रांतजं भवेत् ॥१३.६९॥{वैक्रान्तः: सत्त्वः: पातन}वैक्रांतं वज्रकंदं च समं स्नुक्पयसा समम् ।महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ।पूर्ववद्धमनात्सत्त्वं इंद्रगोपनिभं भवेत् ॥१३.७०॥{गैरिकः: सत्त्वः: पातन}गैरिकं रक्तवर्गेण पीतवर्गेण भावितम् ।सप्ताहं मर्दयेद्यामं मित्रपंचकसंयुतम् ।तद्वटी कोष्ठिकायंत्रे सत्त्वं मुञ्चति निर्मलम् ॥१३.७१॥{सौराष्ट्रीः: सत्त्वः: पातन}सिता सिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् ।शतवारं प्रयत्नेन मित्रपंचकसंयुतम् ।धमनान्मुञ्चते सत्त्वं क्रामकं कोष्ठियंत्रके ॥१३.७२॥{सस्यकः: सत्त्वः: पातन}सस्यकं चूर्णितं भाव्यं दिनं शशकरक्तकैः ।स्त्रीमूत्रैर्वाथ गोमूत्रैस्तत्पादांशां निशां क्षिपेत् ।मर्द्यं करंजतैलेन यामैकं गोलकं च तत् ॥१३.७३॥अंधमूषागतं धाम्यं घटिकार्धं दृढाग्निना ।इंद्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥१३.७४॥{कासीसः: सत्त्वः: पातन}चतुर्विधं तु कासीसं रक्तं पीतं सितासितम् ।मर्दयेत्पित्तवर्गेण तिक्तकोशातकीद्रवैः ॥१३.७५॥कासमर्दद्रवैश्चैव मित्रपंचकसंयुतैः ।तद्वटीः कोष्ठिकायंत्रे ध्माते सत्त्वं विमुञ्चति ॥१३.७६॥{राजावर्तः: सत्त्वः: पातन}राजावर्तमयः पात्रे पाचयेन्माहिषैर्घृतैः ।पयोभिश्च दिनं पच्यान्मित्रपंचकसंयुतम् ॥१३.७७॥रजन्याः पञ्चगव्येन पिण्डीबद्धं तु कारयेत् ।खदिरांगारसंयोगात्कोष्ठ्यां सत्त्वं विमुञ्चति ॥१३.७८॥{स्रोतोञ्जनः: परीक्षा}वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।घर्षणे गैरिकच्छायं स्रोतोंजनमिदं भवेत् ॥१३.७९॥{स्रोतोञ्जनः: सत्त्वः: पातन}राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोंजनादपि ॥१३.८०॥{द्वन्द्वम्. ओफ़् व्योमसत्त्व अन्द्मिनेरल्स्}व्योमसत्त्वस्य चूर्णं तु यत्किंचिद्धातुचूर्णकम् ।द्वन्द्वमेलापलिप्तायां मूषायां तद्द्वयं समम् ॥१३.८१॥ध्मातव्यं अरिवर्गेण क्षिप्ते मिलति तत्क्षणम् ॥१३.८२॥{सत्त्वः: मेलापन}विषं टङ्कणगुंजाश्च खुरं शृङ्गं च भेषजम् ।मण्डूकवसया पिष्ट्वा मूषालेपं तु कारयेत् ॥१३.८३॥तस्यां मिलति सत्त्वानि चूर्णानि विविधानि च ।{द्वन्द्वमेल्.:: लेप फ़ोर्~}त्रिक्षारं धातकीपुष्पं गुग्गुलुं च समं समम् ।स्त्रीस्तन्यैः पेषितो लेपो द्वंद्वमेलापने हितः ॥१३.८४॥{सर्वसत्त्वमेलापन (२)}वर्षाभूः कदलीकंदः काकमाची पुनर्नवा ।गुंजा नरकपालं च टंकणं पेषयेत्समम् ।अनेन पूर्ववल्लेपाद्धेमाभ्रं मिलति क्षणात् ॥१३.८५॥{मेलापनः: मेतल्स्, सत्त्व अन्द् ।ओर्महारसस्}तारं च व्योमसत्त्वं च अनेनैव तु मेलयेत् ।लाङ्गली चमरीकेशान्कुशकार्पासयोः फलम् ॥१३.८६॥भूलतां इंद्रगोपं च पाषाणभेदिका समम् ।नारीस्तन्येन संपेष्य मूषालेपं तु कारयेत् ॥१३.८७॥सर्वलोहानि सत्त्वानि तथा चैव महारसाः ।मिलन्ति नात्र संदेहस्तीव्रध्मानानलेन तु ॥१३.८८॥{द्वन्द्वमेलापक}विषं छुछुन्दरीमांसं टंकणं समपेषितम् ।मूषालेपमनेनैव कृत्वा तत्र विनिक्षिपेत् ।यत्किंचिद्द्वंद्वयोगं तु धमनेन मिलत्यलम् ॥१३.८९॥{द्वन्द्वमेलापक}कङ्गुणीतैलसम्पिष्टमपामार्गस्य भस्मकम् ।तेन प्रलिप्तायां द्वंद्वं क्षिप्त्वा धमेद्धठात् ।मिलत्येव न संदेहस्तत्तन्मारकवापनात् ॥१३.९०॥{अभ्रः: प्रोदुच्तिओनोफ़् अभ्रमेतल्चोम्पोउन्द्स्}हेमाभ्रं नागताप्याभ्रं शुल्बाभ्रं गंधकेन च ।सिन्धूत्थहिंगुलाभ्यां तु तीक्ष्णाभ्रं धमनाद्दृढम् ॥१३.९१॥नागाभ्रं शिलया युक्तं वङ्गाभ्रं तालकेन च ।ताराभ्रं बंगतालाभ्यां तालवत्सर्वसत्त्वकम् ॥१३.९२॥{अभ्रः: वङ्गाभ्र}मिलत्येव न संदेहः पूर्वमूषागतं क्षणात् ।श्वेताभ्रकस्य सत्त्वं तु वङ्गचूर्णं समं समम् ॥१३.९३॥कदलीकंदतोयेन मर्दयेट्टंकणैः सह ।अंधमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥१३.९४॥{अभ्रः: वङ्गाभ्र}गुंजा नरकपालं च टंकणं वनशिग्रुकम् ।स्त्रीस्तन्येन समं पिष्ट्वा मूषालेपं तु कारयेत् ॥१३.९५॥बंगं श्वेताभ्रसत्त्वं च चूर्णितं तत्र निक्षिपेत् ।रुद्ध्वा ध्माते मिलत्येव तारकर्मणि जारयेत् ॥१३.९६॥{अभ्रः: वङ्गाभ्र}अभ्रसत्त्वं विचूर्ण्यादौ तत्पादांशं तु टंकणम् ।पारदं टंकणांशं च काकमाचीद्रवैर्दिनम् ॥१३.९७॥पिष्ट्वा तद्गोलकं पेष्यमभ्रांशैर्वङ्गपत्रकैः ।पूर्वमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥१३.९८॥{अभिषेक (१)}सम्यगावर्तितं नागं पलैकं कांजिके क्षिपेत् ।पलानां शतमात्रे तु शतवारं द्रुतं द्रुतम् ॥१३.९९॥अनेन कांजिकेनैव शतवारं विभावयेत् ।यत्किंचिच्चारणावस्तु ततस्तं जारयेद्रसे ।अभिषेको ह्ययं ख्यातः कथ्यते तु मतान्तरम् ॥१३.१००॥{अभिषेक (२)}त्रिक्षारं पंचलवणं काङ्क्षीकासीसगंधकम् ।माहिषं कांजिकैर्युक्तं ताम्रपात्रे दिनत्रयम् ॥१३.१०१॥स्थितं घर्मे पुनस्तस्मिन्द्रुतं नागं विनिक्षिपेत् ।तारकर्मणि बंगं वा शतवाराणि सेचयेत् ॥१३.१०२॥तद्द्रवं ताम्रपात्रस्थं अभिषेकं विदुर्बुधाः ।अनेन चारणावस्तु शतवाराणि भावयेत् ॥१३.१०३॥{सारणायां संकेतः}द्वंद्वितं व्योमसत्त्वं च बीजानि विविधानि च ।द्वंद्वितं वज्रबीजं च भावितं सारयेत्सदा ॥१३.१०४॥स्वर्णादि लोहमखिलं कृतशुद्धचूर्णं योज्यं पृथग्गगनसत्त्ववरे समांशम् ।तद्द्वंद्वितं चरति सूतवरोऽभिषिक्तं विप्रो यथा मधुरपायसमाज्ययुक्तम् ॥१३.१०५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP