संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१५ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१५ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१५ Translation - भाषांतर गर्भयोग्यमथ बीजसाधनमनेकयोगतो रञ्जने हितम् ।जारितस्य नरपारदस्य वै तत्समस्तमधुना निगद्यते ॥१५.१॥{बीजः: प्रेपरतिओन्}गंधकं माक्षिकं नागं सर्वं तुल्यं विचूर्णयेत् ।त्रिगुणं वाहयेत्स्वर्णं द्रावितं तु धमन्धमन् ॥१५.२॥पूतिबीजमिदं स्थूलं गर्भे द्रवति तत्क्षणात् ॥१५.३॥{बीजः: प्रेपरतिओन्}नागं स्वर्णं समं ताप्यं शिलाचूर्णं क्षिपन्क्षिपन् ।जीर्णे नागे पुनर्देयं एवं वारत्रयं शनैः ।एतद्बीजं द्रवत्येव रसगर्भे तु मर्दनात् ॥१५.४॥{बीजसाधनं (३)}ताप्यसत्त्वं सुवर्णं च धमेत्ताप्यं क्षिपन्क्षिपन् ।इत्येवं त्रिगुणं वाह्यं ताप्यसत्त्वं च हाटके ।तद्बीजं रसराजस्य गर्भे द्रवति तत्क्षणम् ॥१५.५॥{बीजसाधन (४)}ताप्यसत्त्वं सुवर्णं च समांशं द्रावयेत्ततः ।कण्टवेधीकृतं पत्रं गंधेन लवणेन च ॥१५.६॥क्षिप्त्वा साम्लेन तत्पच्यात्पुटे हेमावशेषितम् ।एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥१५.७॥{बीजसाधन (५)}सैन्धवेन समं ताप्यमम्लैर्मर्द्यं पुटे पचेत् ।पुनर्मर्द्यं पुनः पाच्यं यावद्द्वादशवारकम् ॥१५.८॥अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् ।अनेन स्वर्णपत्राणि लिप्त्वा लिप्त्वा धमेद्दृढम् ॥१५.९॥द्रुतं च वापयेत्तं तु सप्तवारं पुनः पुनः ।एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥१५.१०॥{बीजसाधन (६)}शिला सौवर्चलं ताप्यगंधकासीसटंकणम् ।मर्दयेच्चणकाम्लैश्च सर्वमेतद्दिनावधि ॥१५.११॥रसस्यैतत्षोडशांशं दत्त्वा बीजं च दापयेत् ।मुच्यते यत्र यत्रैव तत्तद्द्रवति तत्क्षणात् ॥१५.१२॥{मेर्चुर्यः: ग्रास ओफ़् अ बीज}अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् ।टंकणं च यवक्षारं कासीसं च सुवर्चलम् ॥१५.१३॥सामुद्रं सैंधवं राजी माक्षिकं नवसारकम् ।कर्पूरं कांजिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम् ॥१५.१४॥मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च ।लेपमङ्गुलमानेन मूषायन्त्रमिदं भवेत् ॥१५.१५॥गर्भद्रावितबीजात्तु सूतमत्र विनिक्षिपेत् ।रुद्ध्वा स्वेद्यं दिनैकं तु कारीषाग्नौ ग्रसत्यलम् ॥१५.१६॥{मेर्चुर्य्(?):: रञ्जन (?)}ताप्यसत्त्वाभ्रयोः सत्त्वं द्वंद्वितं द्रावयेत्पुनः ।मृतशुल्बं ताप्यचूर्णं तस्मिन्वाह्यं शनैः शनैः ॥१५.१७॥त्रिगुणे वाहिते तस्मिन्रञ्जितं वाहितं तु तत् ॥१५.१८॥{मेर्चुर्यः: रञ्जन (ओफ़् ~)}गोमूत्रै रक्तवर्गं तु पिष्ट्वा तेनैव भावयेत् ।हिङ्गुलं माक्षिकं गंधं शिलाचूर्णं समं समम् ॥१५.१९॥भावितं सप्तवाराणि शोष्यं पेष्यं पुनः पुनः ।तीक्ष्णं ताम्रं समं चूर्ण्य पूर्ववद्द्वंद्वमेलितम् ॥१५.२०॥तस्मिन्द्रुतं पूर्वचूर्णं वापयित्वाथ सेचयेत् ।रक्तवर्गसमायुक्ते तैले ज्योतिष्मतीभवे ।इत्येवं दशधा कुर्यात्स्यादिदं रसरञ्जकम् ॥१५.२१॥{रसरञ्जकं (३)}रक्तवर्गेण गोमूत्रैर्भावयेद्दरदं त्रिधा ।समांशे विमले ताम्रे द्राविते वाहयेद्धमन् ।सप्तधा दरदं तं तु स्यादिदं रसरञ्जकम् ॥१५.२२॥{रसरञ्जकं (४)}स्वर्णनागं व्योमसत्त्वं समांशं द्वंद्वमेलितम् ।शिला गैरिकं माक्षीकं रसकं रक्तवर्गकम् ॥१५.२३॥समांशं चूर्णयेत्सर्वं वापो देयो ह्यनेन वै ।पूर्वद्वंद्वितखोटस्य द्रावितस्य पुनः पुनः ॥१५.२४॥दशवारं कृते वापे रञ्जकोऽयं रसस्य च ॥१५.२५॥{लेअद्=> गोल्द्}यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला ।विंशवारं प्रयत्नेन तेन कल्केन लेपयेत् ॥१५.२६॥नागपत्रं पुटे पच्याद्यावच्चूर्णमुपागतम् ।रसकस्य तु भागांस्त्रीन्भागैकं दरदस्य च ॥१५.२७॥शिलागंधविषाणां च त्रयाणामेकभागकम् ।पेषयेन्मातुलुंगाम्लैस्तेन कल्केन लेपयेत् ॥१५.२८॥मूषागर्भे क्षिपेत्तत्र पूर्वनागं क्षिपेत्ततः ।द्रुतं यावत्समुद्धृत्य लिप्त्वा मूषां पुनर्धमेत् ॥१५.२९॥इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् ।{तारारिष्ट, लेअद्, चोप्पेर्=> गोल्द्}पीताभ्रकस्य सत्त्वं तु पूर्वनागं च तत्समम् ॥१५.३०॥द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् ।समुखे सूतराजे तु पूर्ववत्षड्गुणं क्रमात् ॥१५.३१॥ततस्तस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ।पादांशं दापयेत्खल्वे मातुलुंगद्रवैः सह ॥१५.३२॥मर्दयेच्चणकाम्लैर्वा गर्भद्रावणकेन वा ।द्रवत्येव तु तद्गर्भे मूषायन्त्रेऽथ जारयेत् ॥१५.३३॥इत्येवं द्रावितं जार्यं यावद्बीजसमं रसे ।सारणादित्रयेणान्तं पूर्ववत्कारयेत्क्रमात् ॥१५.३४॥तारारिष्टमहिं शुल्बं यथेष्टैकं तु वेधयेत् ।सहस्रांशेन तेनैव दिव्यं भवति कांचनम् ॥१५.३५॥{चन्द्रार्क => गोल्द्}स्वर्णेन द्वंद्वितं वज्रं पूर्ववच्चाभिषेकितम् ।जारयेत्समुखे सूते समांशं अभ्रसत्त्ववत् ॥१५.३६॥जारितं जारयेत्तेन स्वर्णवज्रेण वै त्रिधा ।मुखं बद्ध्वा रसं बद्ध्वा क्रामणेन तु योजयेत् ।चंद्रार्के तु सहस्रांशं दिव्यं भवति कांचनम् ॥१५.३७॥{गन्धनागद्रुतिः}वृषस्य मूत्रमादाय गजस्य महिषस्य वा ।तन्मध्ये सूतनागं तु द्रावितं सप्तधा क्षिपेत् ॥१५.३८॥ततस्तस्यैव पत्राणि कण्टवेध्यानि कारयेत् ।गंधकं चूर्णितं शुद्धं पत्राणां तु चतुर्गुणम् ॥१५.३९॥अलक्तकेन संसिक्तं कार्पासपत्रवत्कृतम् ।तस्य शुष्कस्य पृष्ठे तु नररोमाणि दापयेत् ॥१५.४०॥तत्पृष्ठे चूर्णितं गंधं ततो नागदलानि च ।गंधकं नररोमाणि तत्कार्पासं च पृष्ठतः ॥१५.४१॥अनेन कारयेद्वर्तिं बहिः सूत्रेण वेष्टयेत् ।करंजतैलमध्ये तु दशरात्रं तु धारयेत् ॥१५.४२॥प्रज्वाल्य चोभयाग्रे तु द्रुतं तैलं समाहरेत् ।भाण्डे सकांजिके चैव तस्मादुद्धृत्य रक्षयेत् ।काचकूप्यां प्रयत्नेन गन्धनागद्रुतिस्त्वियम् ॥१५.४३॥{मेर्चुर्यः: प्रेपरतिओन्फ़ोर्जारण}शुद्धसूतं दृढं मर्द्यं रजनीचूर्णसंयुतम् ।चूर्णं यावद्भवेत्कृष्णं क्षालयेदुष्णकांजिकैः ॥१५.४४॥एवं त्रिसप्तधा कुर्यात्ततो जारणमारभेत् ।{मेर्चुर्यः: गर्भद्रुति}अम्लैर्मनःशिलां पिष्ट्वा तेन लेपं तु कारयेत् ॥१५.४५॥गोस्तनाकारमूषायामस्यां पूर्वरसं क्षिपेत् ।चतुःषष्ट्यंशतः पूर्वा देया गंधद्रुतिः क्रमात् ॥१५.४६॥रुद्ध्वा मूषां विशोष्याथ गर्ते गोमयपूरिते ।मूषार्धं विन्यसेत्तत्र करीषतुषवह्निना ॥१५.४७॥कपोताख्यं पुटं देयं स्वांगशीतं समुद्धरेत् ।दद्यादजीर्णशङ्कायां सिंहवल्लीरसस्य तु ॥१५.४८॥चतुर्बिन्दुप्रमाणं तु तद्वद्गर्ते पुटे पचेत् ।एवं पुनः पुनर्जार्यं गन्धनागद्रुतिः क्रमात् ॥१५.४९॥त्रिगुणं जारितः सूतो भवेज्जांबूनदप्रभः ।अस्य सूतस्य पादांशं पक्वबीजं सुचूर्णितम् ।मर्दयेच्चणकाम्लेन यामाद्गर्भे द्रवत्यलम् ॥१५.५०॥{गोल्दः: द्रावण}मूषायन्त्रगतं द्राव्यं पूर्ववत्स्वेदनेन वै ।जीर्णे बीजं पुनर्दत्त्वा द्राव्यं गर्भेऽथ जारयेत् ॥१५.५१॥एवं बीजं समं जार्यं पक्वं वा रञ्जने क्रमात् ।गर्भं द्रावणबीजं वा यथेष्टैकं तु जारयेत् ॥१५.५२॥ततस्तु त्रिगुणं रीतिस्तारं वाह्यं धमन्धमन् ।तारारिष्टं भवेत्तत्तु कृत्वा पत्रं प्रलेपयेत् ॥१५.५३॥सक्षौद्रं पूर्वसूतेन द्वात्रिंशांशेन तत्पुनः ।वेष्ट्यमर्कदलैः पच्याद्दोलायंत्रे सकांजिकैः ॥१५.५४॥दशाहान्ते समुद्धृत्य द्रावितं कांचनं भवेत् ॥१५.५५॥{मेर्चुर्यः: जारण wइथभ्रसत्त्व}समुखे निर्मुखे वाथ रसराजे तु जारयेत् ।पूर्ववद्व्योमचूर्णं तु चारितं जारयेत्क्रमात् ॥१५.५६॥चतुःषष्टिगुणं यावत्ततः सार्यं च जारयेत् ।चारयेज्जारयेत्तद्वत्यावत्षष्टिगुणं भवेत् ।ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥१५.५७॥{मेर्चुर्यः: गर्भद्रुति}महारसैश्चोपरसैर्यत्किंचित्सत्वमाहरेत् ।तन्मध्यगं तु पादांशं सूते दत्त्वा विमर्दयेत् ॥१५.५८॥तप्तखल्वे चतुर्यामं गर्भद्रावकसंयुतम् ।तत्तत्सर्वं द्रवत्येव मूषायन्त्रेऽथ जारयेत् ॥१५.५९॥इत्येवं सर्वसत्वानि द्रावयोगाच्च जारयेत् ।{मेर्चुर्यः: गर्भद्रुति, जारण}रञ्जितं पक्वबीजं च शुद्धं ताम्रं च हाटकम् ॥१५.६०॥गर्भद्रावणबीजं च मृततीक्ष्णं समं समम् ।सर्वं च मर्दितं खोटं कृत्वा धाम्यं पुनः पुनः ॥१५.६१॥क्षिपेन्माक्षिकचूर्णं च ताम्रे तीक्ष्णे क्षयं गते ।समुद्धृत्य तु तद्बीजं पादांशं पूर्वपारदे ॥१५.६२॥पूर्ववद्द्रावयेद्गर्भे मूषायन्त्रेऽथ जारयेत् ।द्वात्रिंशद्गुणितं बीजं क्रमेणानेन जारयेत् ।जीर्णे गर्भे द्रुतं सूतं रञ्जयेत्तन्निगद्यते ॥१५.६३॥{मेर्चुर्यः: जारण}गंधेन यन्मृतं नागं पक्वबीजस्य साधनम् ।तन्नागं हेमसंतुल्यमंधमूषागतं धमेत् ॥१५.६४॥तच्चूर्णमभिषिक्तं च पादांशं दापयेद्रसे ।मर्दयेदम्लवर्गेण गर्भद्रावणकेन वा ॥१५.६५॥तप्तखल्वे चतुर्यामं मूषायन्त्रेऽथ जारयेत् ।अनेन क्रमयोगेन जारयेत्तं कलागुणम् ॥१५.६६॥{चोप्पेर्=> गोल्द्}मृतं शुल्बं मृतं तीक्ष्णं स्वर्णे वाह्यं तु षड्गुणम् ।एतद्बीजं ततो जार्यं क्रमाद्यावच्चतुर्गुणम् ॥१५.६७॥पूर्ववद्द्रावितं खल्वे मूषायन्त्रे च पूर्ववत् ।बद्धरागस्तदा सूतो जायते कुंकुमप्रभः ॥१५.६८॥इत्येवं रञ्जनं सूते कृत्वा सार्यं त्रिधा क्रमात् ।सारितं जारयेन्मूत्रे मूषायन्त्रे पुटन्पुटन् ॥१५.६९॥जारितं सारयेत्पश्चात्सारितं चैव जारयेत् ।अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥१५.७०॥ततस्तस्य मुखं बद्ध्वा पूर्ववद्बन्धयेच्च तम् ।क्रामणेन समायुक्तं कोटिभागेन वेधयेत् ।द्रुतं ताम्रं तु तद्दिव्यं भवेत्स्वर्णं न संशयः ॥१५.७१॥{सिल्वेर्=> गोल्द्}हिंगुलोत्थितसूतं च भूनागैर्मर्दयेत्त्र्यहम् ।तप्तखल्वे ततः पात्यं ऊर्ध्वलग्नं समाहरेत् ॥१५.७२॥पादांशं जारयेत्तस्य द्वंद्वितं व्योमसत्त्वकम् ।ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥१५.७३॥पूर्ववद्द्वंद्वयोगेन मात्रापाकं च पूर्ववत् ।महारसैश्चोपरसैर्यत्सत्त्वं पातितं पुरा ॥१५.७४॥तत्सत्त्वं च पृथक्पादं सूते दत्त्वा विमर्दयेत् ।तप्तखल्वे दिनैकं तु गर्भद्रावणसंयुतम् ॥१५.७५॥द्रवत्येव ततो जार्यं मूषायन्त्रं तु पूर्ववत् ।जीर्णे जीर्णे पुनर्देयं प्रतिसत्त्वं क्रमेण वै ॥१५.७६॥ततस्तथैव पादांशं गर्भद्रावणबीजकम् ।पूर्ववद्द्रावितं जार्यं क्रमेणानेन षड्गुणम् ॥१५.७७॥सारणादिक्रामणान्तं तारे वेधं प्रदापयेत् ।सहस्रांशेन तत्स्वर्णं भवेज्जांबूनदप्रभम् ॥१५.७८॥{मेर्चुर्यः: जारण ओफ़् सुल्फ़ुर्}शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ।द्रवं च ब्रह्मपुष्पाणां विष्णुक्रान्ताद्रवं तथा ॥१५.७९॥द्रवैरेभिः शुद्धगंधं भावयेद्दिनसप्तकम् ।इष्टिकागर्भमध्ये तु सुशुद्धं पारदं क्षिपेत् ॥१५.८०॥मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।दशांशं पूर्वगंधं तु दत्त्वा श्रावेण रोधयेत् ॥१५.८१॥पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।तद्वज्जार्यं पुटेनैव पुनर्देयं च गंधकम् ॥१५.८२॥एवं जार्यं समं गंधं ततो यंत्रात्समुद्धरेत् ।अथवा गंधतुल्यं तु जार्यं तेन रसस्य तु ॥१५.८३॥जारयेत्पूर्वयोगेन काचकूप्यन्तरेऽपि वा ॥१५.८४॥{चोप्पेर्, लेअद्=> गोल्द्}अस्यैव रसराजस्य समांशं व्योमसत्त्वकम् ।द्वंद्वितं पूर्ववज्जार्यं मात्रायुक्तिश्च पूर्ववत् ॥१५.८५॥ततो रसकसत्वं च जार्यं अष्टगुणं रसे ।तीक्ष्णशुल्बोरगं चैव क्रमादष्टगुणं रसे ॥१५.८६॥प्रत्येकं जारयेद्यत्नादभिषिक्तं तु पूर्ववत् ।पक्वबीजं ततो जार्यं द्वात्रिंशद्गुणितं क्रमात् ॥१५.८७॥अथास्य रसराजस्य गर्भद्रावणबीजकम् ।तप्तखल्वे समं दत्त्वा गर्भद्रावकसंयुतम् ॥१५.८८॥मर्दयेद्दिनमेकं तु गर्भे द्रवति तद्द्रुतम् ।मूषायन्त्रे ततो जार्यं पूर्ववत्स्वेदनेन वै ॥१५.८९॥तज्जीर्णे रंजकं बीजं तुल्यं दत्त्वाथ पूर्ववत् ।द्रावयेत्द्रवगर्भे तु तद्वज्जार्यं क्रमेण वै ॥१५.९०॥यावच्चतुर्गुणं यत्नाद्द्रुतं गर्भेऽथ जारयेत् ।अनेन क्रमयोगेन भवेल्लाक्षानिभो रसः ॥१५.९१॥ततस्तं पक्वबीजेन सारितं जारयेत्क्रमात् ।प्रतिसारणकं कुर्याज्जारयेच्चाथ सारयेत् ॥१५.९२॥सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ।क्रामणेन समायुक्तं शुल्बे वेधं प्रदापयेत् ॥१५.९३॥नागे वा कोटिभागेन दिव्यं भवति कांचनम् ॥१५.९४॥{रसबीज}तिन्तिणीब्रह्ममाण्डूकीद्रवैर्धान्याभ्रकं क्रमात् ।मर्दयेत्त्रिदिनं चाथ भावयेत्तिंतिणीद्रवैः ॥१५.९५॥घर्मे दिनत्रयं यावत्शोष्यं पेष्यं पुनः पुनः ।मृत्खर्परे शुद्धसूतं क्षिप्त्वा सोष्णं तु कारयेत् ॥१५.९६॥गंधकं त्रुटिमात्रं तु पूर्वाभ्रं त्रुटिमात्रकम् ।दत्त्वा दत्त्वा च मृद्वग्नौ पचेत्स्यादभ्रपिष्टिका ॥१५.९७॥एकवीरारसैर्भाव्यं गंधं घर्मे त्रिसप्तधा ।तं गंधकं स्निग्धभाण्डे द्राव्य मृद्वग्निना क्षिपेत् ॥१५.९८॥तन्मध्ये पूर्वपिष्टिं तु दोलायंत्रे विधौ पचेत् ।षड्गुणं जारयेदेवं गंधकं मृदुवह्निना ॥१५.९९॥तद्रसं भागमेकं तु पक्वबीजस्य षोडश ।भागाः सुरञ्जितस्यैव चूर्णीकृत्वाथ द्वंद्वयेत् ॥१५.१००॥पूर्ववद्द्वंद्वलिप्तायां मूषायां धमनेन च ।रसबीजमिदं ख्यातं चूर्णितं चाभिषेचयेत् ॥१५.१०१॥{मेर्चुर्यः: जारणः: wइथ्रसबीज}अथातः शुद्धसूतस्य काचकूप्यां गतस्य च ।पूर्ववद्भावितं गंधं जार्यं तस्यैव षड्गुणम् ॥१५.१०२॥जारयेद्वा तुलायंत्रे गौरीयंत्रक्रमेण वै ।तस्यैव रसराजस्य पादांशं रसबीजकम् ॥१५.१०३॥पूर्ववद्द्रावयेद्गर्भे मूषायन्त्रेऽथ जारयेत् ।अनेन क्रमयोगेन द्राव्यं जार्यं पुनः पुनः ।द्विरष्टगुणितं यावद्रसबीजं रसस्य वै ॥१५.१०४॥{सिल्वेर्=> गोल्द्}भागद्वयं शुद्धतारं भागैकं शुद्धहाटकम् ।समावर्त्य तु तत्पत्रं कृत्वा पूर्वरसेन वै ॥१५.१०५॥लेपयेन्मधुनाक्तेन सहस्रांशेन तत्पुनः ।वेष्टयेदर्कजैः पत्रैर्दोलायंत्रे सकांजिके ॥१५.१०६॥दशाहं पाचितं द्राव्यं दिव्यं भवति कांचनम् ॥१५.१०७॥{मेर्चुर्यः: कोटिवेधिन्}सुशुद्धं नागचूर्णं तु पूर्ववच्चाभिषेकितम् ।समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ॥१५.१०८॥षट्त्रिंशगुणितं यावत्तावज्जार्यं क्रमेण वै ।गर्भद्रावणबीजं च पूर्ववद्द्रावितं क्रमात् ॥१५.१०९॥जारयेत्त्रिगुणं तस्य बीजं यद्रंजकं पुनः ।समं जार्यं पुनः जार्यं पक्वबीजेन वै क्रमात् ॥१५.११०॥सप्तशृंखलिकायोगान्मुखं रुद्ध्वाथ बन्धयेत् ।क्रामणेन समायुक्तं कोटिवेधी भवेद्रसः ॥१५.१११॥{चोप्पेर्=> सिल्वेर्}नागवज्जारयेद्बंगं षट्त्रिंशगुणितं क्रमात् ।पूर्ववद्द्रावितं गर्भे तारबीजं तु जारयेत् ॥१५.११२॥त्रिगुणं तु भवेद्यावत्ततस्तेनैव सारयेत् ।सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ॥१५.११३॥क्रामणेन समायुक्तं ताम्रे वेधं प्रदापयेत् ।कोटिभागेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥१५.११४॥{सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्}समुखे निर्मुखे वाथ सूतराजे तु जारयेत् ।द्वंद्वितं व्योमसत्वं तु यावदष्टगुणं तथा ॥१५.११५॥ततो रसकसत्वं च जार्यं अष्टगुणं तथा ।पक्वबीजं समांशं च जारयेदभ्रसत्ववत् ॥१५.११६॥स्वर्णेन द्वंद्वितं वज्रं समांशेन तु जारयेत् ।पूर्ववत्कच्छपे यन्त्रे बिडयोगेन वै तथा ॥१५.११७॥गर्भद्रावणबीजं च पादांशं तप्तखल्वके ।मर्दयेन्मातुलिंगाम्लैर्गर्भे द्रवति तत्क्षणात् ॥१५.११८॥गर्भद्रावणयोगं वा दत्त्वा द्रवति मर्दनात् ।मूषायन्त्रेण तत्सूतं पचेत्कारीषवह्निना ॥१५.११९॥जीर्णे बीजं पुनर्द्राव्यं जारयेद्द्रावयेत्पुनः ।एवं चतुर्गुणं जार्यं गर्भे द्रावणबीजकम् ॥१५.१२०॥ततस्तु रंजकं बीजं तद्वज्जार्यं समं क्रमात् ।सारणादिक्रामणान्तं पूर्ववत्कारयेत्क्रमात् ॥१५.१२१॥तारे ताम्रे भुजंगे वा कोटिभागेन योजयेत् ।करोति कनकं दिव्यं देवाभरणमुत्तमम् ॥१५.१२२॥{मेर्चुर्यः: धूमवेधिन्; चोप्पेर्=> गोल्द्}समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ।स्वर्णादिमुण्डपर्यन्तं अष्टलोहं पृथक्क्रमात् ॥१५.१२३॥प्रत्येकमष्टगुणितं अभिषेकं च पूर्ववत् ।अभ्रादिसत्वं यत्सर्वं प्रत्येकं त्रिगुणं क्रमात् ॥१५.१२४॥पृथग्जार्यं कूर्मयन्त्रे बिडयोगेन पूर्ववत् ।ततस्तु पादपादांशं गर्भद्रावणबीजकम् ॥१५.१२५॥पूर्ववद्द्रावितं जार्यं त्रिगुणं तु यदा भवेत् ।ततस्तु पक्वबीजेन सारयेज्जारयेत्त्रिधा ॥१५.१२६॥इत्येवं सप्तधा कुर्यान्मुखं बद्ध्वाथ बन्धयेत् ।धूमावलोकवेधी स्यात्ताम्रं भवति कांचनम् ॥१५.१२७॥एवं चारणजारणं बहुविधं कृत्वा रसे संक्रमं गर्भे द्रावणबीजकं च विधिना गर्भद्रुतं कारयेत् ।जीर्णे रंजनसारणामुखमथो बद्ध्वाथ बद्ध्वा रसं कुर्यात्कांचनमभ्रमेरुसदृशं दानाय भोगाय वै ॥१५.१२८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP