संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण १.२ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण १.२ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण २ Translation - भाषांतर निःसारं वीक्ष्य विश्वं गदविकलवपुर्व्याप्तं एवातितप्तम् ।भूयः कारुण्यसिन्धोः सकलगुणनिधेः सूतराजस्य युक्तिम् ॥२.१॥दृष्ट्वा सूतस्य शास्त्राण्यवहितमनसा प्राणिनां इष्टसिद्ध्यै ।शृण्वन्तूच्चैर्मयोक्तं सुविपुलमतयो भोगिकेन्द्राः सरेन्द्राः ।यावत्सूतं न शुद्धं न च मृतमथ नो मूर्छितं गन्धबन्धम् ।नो वज्रं मारितं वा न च गगनवधो नापसूताश्च शुद्धाः ।स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपातो न यावत् ।तावद्वैद्यः क्व सिद्धो भवति वसुभुजां मण्डले श्लाघ्ययोग्यः ॥२.२॥{अष्टदोषनिवारण}अथातः सम्प्रवक्ष्यामि दोषाष्टकनिवारणम् ।इष्टकारजनीचूर्णैः षोडशांशैः रसस्य तु ॥२.३॥मर्दयेत्तप्तखल्वे तं जम्बीरोत्थद्रवैर्दिनम् ।खल्वं लोहमयं वाथ पाषाणाश्ममथापि वा ॥२.४॥काञ्जिकैः क्षालयेत्सूतं नागदोषस्य शान्तये ।विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत् ॥२.५॥राजवृक्षो मलं हन्ति चित्रकं हन्ति वह्निजम् ।चाञ्चल्यं कृष्णधत्तूरैस्त्रैफलैर्विषनाशनम् ॥२.६॥कटुत्रयं गिरिं हन्ति असह्याग्निं त्रिकण्टकः ।{(२)}प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम् ॥२.७॥सुवस्त्रगालितं सूतं खल्वे क्षिप्त्वा यथाक्रमम् ।प्रत्येकं प्रत्यहं यत्नात्सप्तरात्रं विमर्दयेत् ॥२.८॥उद्धृत्योष्णारनालेन मृद्भाण्डे क्षालयेत्सुधीः ।सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ॥२.९॥जायते शुद्धः सूतोऽयं युज्यते वैद्यकर्मणि ।{पारदशोधन}अजाशकृत्तुषाग्निं च ज्वालयित्वा भुवि क्षिपेत् ।तस्योपरि स्थितं खल्वं तत्रोक्तं मर्दयेद्रसम् ॥२.१०॥श्रीखण्डं देवदारु च काकतुण्डीं जयाद्रवैः ।कर्कोटीमूषलीकन्याद्रवे दत्त्वा विमर्दयेत् ।दिनैकं पातनायन्त्रे शुद्धं च विनियोजयेत् ॥२.११॥कुमार्याश्च निशाचूर्णे दिनं सूतं विमर्दयेत् ।पातयेत्पातनायन्त्रे सम्यक्शुद्धो भवेद्रसः ॥२.१२॥{हिंगुलोत्थपारदशोधन}पारिभद्ररसैः पेष्यं हिंगुलं याममात्रकम् ।जम्बीराणां द्रवैर्वाथ पात्यं पातालयन्त्रके ॥२.१३॥तं सूतं योजयेद्योगे सप्तकञ्चुकवर्जितम् ।इत्येवं शुद्धयः ख्याता यथेष्टैका प्रकारयेत् ॥२.१४॥{शुद्धसूतमारणौषधयः}अथैतां मूलिकां वक्ष्ये शुद्धसूतस्य मारणे ।ब्रह्मदण्डी मेघनादा चित्रकं तृणमुस्तिका ॥२.१५॥वज्रवल्ली बला शुण्ठी कटुतुम्ब्यर्धचन्द्रिका ।विषमुष्ट्यर्कलाक्षाश्च गोक्षुरः काकतुण्डिका ॥२.१६॥कन्या चण्डालिनीकन्दं सर्पाक्षी सरपुङ्खिका ।वस्ता रक्ताग्रनिर्गुण्डी लज्जाली देवदालिका ॥२.१७॥जाती जयन्ती वाराही भूकदम्बं कुरण्टकम् ।कोषातकी नीरकणा लाङ्गली सहदेविकाः ॥२.१८॥चक्रमर्दोऽमृताकन्दं काकमाची रविप्रिया ।विष्णुक्रान्ता हस्तिशुण्डी स्नुक्पयो भृङ्गराट्पटुः ॥२.१९॥इत्येताः मूलिका आख्याता योज्या पारदमारिकाः ।एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ॥२.२०॥{पारदभस्मनिर्माण}अप्रसूतगवां मूत्रे पेषयेद्रक्तमूलिकाम् ।तद्द्रवैः शोधितं सूतं तुल्यं गन्धकसंयुतम् ॥२.२१॥तप्तखल्वे चतुर्यामं अविच्छिन्नं विमर्दयेत् ।तत्पिण्डं पातयेद्यन्त्रे त्रिंशद्धट्टमहापुटे ॥२.२२॥एवं दशपुटैर्मार्यं मर्द्यं पात्यं पुनः पुनः ।तदुद्धृत्य पुनर्मर्द्यं वज्रमूषान्तरे क्षिपेत् ॥२.२३॥भूधराख्ये पुटे पच्याद्दशधा भस्मतां व्रजेत् ।द्रवैर्द्रवैः पुनर्मर्द्यं सिद्धोऽयं वज्रसूतकः ॥२.२४॥मूलिकामारितः सूतो जारणक्रमवर्जितः ।न क्रमेद्देहलोहाभ्यां रोगहर्ता भवेद्ध्रुवम् ॥२.२५॥{पारदभस्मनिर्माण (२)}रसं गन्धकतैलेन द्विगुणेन विमर्दयेत् ।दिनैकं वाथ सर्पाक्षीविष्णुक्रान्ताह्वभृङ्गजैः ॥२.२६॥त्र्यहं विमर्दयेद्द्रावैस्त्रिंशद्धट्टमहापुटे ।इत्येवमष्टधा पाच्यं रसो भस्मीभवेद्ध्रुवम् ॥२.२७॥{रसभस्मनिर्माण (३)}श्वेताङ्कोटजटावारि सूतं मर्द्यं दिनत्रयम् ।पुटयेद्भूधरे यन्त्रे मूषायां भस्मतां व्रजेत् ॥२.२८॥देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।सप्तधा सूतकं तेन कुर्याद्धमनं उत्थितम् ॥२.२९॥तं सूतं खर्परे कुर्याद्दत्त्वा दत्त्वा चतुर्द्रवम् ।चुल्ल्योपरि पचेद्वह्नौ भस्म स्यादरुणोपमम् ॥२.३०॥{पारदमारण (४)}काष्ठोदुम्बरजैः क्षीरैः सितां हिंगु विभावयेत् ।सप्तवारं प्रयत्नेन शोध्यं पेष्यं पुनः पुनः ॥२.३१॥काष्ठोदुम्बरपञ्चाङ्गैः कषायं षोडशांशकम् ।दत्त्वा तेन पुनर्मर्द्यं हिंगु वङ्गरसेश्वरम् ॥२.३२॥क्षिप्त्वा निरुध्य मूषायां भूधराख्ये पुटे पचेत् ।अष्टधा म्रियते सूतो देयं हिंगु पुटे पुटे ॥२.३३॥{पारदमारण (५)}अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।तच्चूर्णं पारदे देयं मूषायामेव रोधयेत् ॥२.३४॥रुद्ध्वा लघुपुटे पच्याच्चतुर्भिर्भस्मतां व्रजेत् ।{पारदमारण (६)}कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःसु वै ॥२.३५॥सप्तधा म्रियते सूतः स्वेदयेद्गोमयाग्निना ।{पारदमारण (७)}अङ्कोलस्य जटातोयैः पिष्ट्वा खल्वे विमर्दयेत् ॥२.३६॥सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् ।पुटयेद्भूधरे यन्त्रे दिनान्ते तं समुद्धरेत् ॥२.३७॥{पारदमारण (८)}धान्याभ्रं सूतकं तुल्यं मर्दयेन्मारकद्रवैः ।दिनैकं तेन कल्केन वस्त्रे लिप्त्वा च वर्तिकाम् ॥२.३८॥विलिप्य तैलैर्वर्तिं तां एरण्डोत्थैः पुनः पुनः ।प्रज्वाल्य तद्धृतं भाण्डे ग्राहयेत्पतितामधः ॥२.३९॥कृष्णभस्म भवेत्तच्च पुनर्मर्द्यं त्रियामकैः ।दिनैकं तत्पचेद्यन्त्रे कच्छपाख्ये न संशयः ॥२.४०॥मृतः सूतो भवेत्सद्यस्तत्तद्योगेषु योजयेत् ।{पारदमारण (९)}द्विपलं शुद्धसूतं तु सूतार्धशुद्धगन्धकम् ॥२.४१॥मर्दयेन्मारकद्रावैर्दिनमेकं निरन्तरम् ।बद्ध्वा तु भूधरे यन्त्रे दिनैकं मारयेत्पुटात् ॥२.४२॥{वज्रमूषा}तुषदग्धस्य भागौ द्वावेको वल्मीकमृत्तिका ।लोहकिट्टस्य भागैकं श्वेतपाषाणभागकम् ॥२.४३॥नरकेशसमं किंचिच्छागीक्षीरेण पेषयेत् ।यामद्वयं दृढं मर्द्यं तेन मूषान्धसंपुटाम् ॥२.४४॥शोषयित्वाथ संलिप्य तत्कल्कैः संनिरुध्य च ।वज्रमूषा समाख्याता सम्यक्पारदमारिका ॥२.४५॥{भस्मसूतवर्णाः}श्वेतं पीतं तथा रक्तं कृष्णं चेति चतुर्विधम् ।लक्षणं भस्मसूतस्य श्रेष्ठं स्यादुत्तरोत्तरम् ॥२.४६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP