संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण १.४ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण १.४ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ४ Translation - भाषांतर {मूर्छन}अथातः शुद्धसूतस्य मूर्च्छना विधिरुच्यते ।मेघनादो वचा हिंगु शूरणैर्मर्दयेद्रसम् ॥४.१॥नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ।पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥४.२॥ऊर्ध्वलग्नं समारुह्य दृढं वस्त्रेण बन्धयेत् ।ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ॥४.३॥जीर्णे गन्धे पुनर्देयं षड्भिर्वारैः समं समम् ।षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ॥४.४॥{मेर्चुर्यः: मूर्छन}गन्धकं मधुसारं च शुद्धसूतं समं समम् ।यामैकं पाचयेत्खल्वे काचकुप्यां निवेशयेत् ॥४.५॥रुद्ध्वा द्वादशयामं तं वालुकायन्त्रगं पचेत् ।स्फोटयेत्स्वांगशीतं तं तदूर्ध्वं गन्धकं त्यजेत् ॥४.६॥अधःस्थं रसमादाय सर्वरोगेषु योजयेत् ।{मेर्चुर्यः: फ़ोर्मुलतिओन्}शुद्धं सूतं द्विधा गन्धं सूतार्द्धं सैन्धवं क्षिपेत् ॥४.७॥द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् ।कृत्वा गोलं च संशोष्य क्षिप्त्वा मूषां निरुन्धयेत् ॥४.८॥शोषयित्वा धमेत्किंचित्सुतप्तां तां जले क्षिपेत् ।तस्माद्रसं समुद्धृत्य त्रिकण्टरसभावितम् ॥४.९॥योजयेत्सर्वरोगेषु धमेद्वा भूधरे पचेत् ।{मेर्चुर्यः: फ़ोर्मुलतिओन्}रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम् ॥४.१०॥कृत्वा तं बन्धयेद्वस्त्रे दोलायन्त्रगतं पचेत् ।गोमूत्रान्तः कृतं यामं नरमूत्रैर्दिनत्रयम् ॥४.११॥शोषयेच्च पुनर्वस्त्रे बद्ध्वावेष्ट्य सदा दृढम् ।शुष्कं निरुध्य मूषायां ततस्तुषाग्निना पचेत् ॥४.१२॥ऊर्ध्वभागमधः कृत्वा अधोभागं च ऊर्ध्वगम् ।इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयम् ॥४.१३॥पश्चादुद्धृत्य तं सूतं योगवाहं रुजापहम् ॥४.१४॥{मेर्चुर्यः: फ़ोर्मुलतिओन्}सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् ।चाण्डाली रुधिरं सूतं सूतपादं च टङ्कणम् ॥४.१५॥जयन्त्या मर्दयेद्द्रावैर्दिनैकं तत्तु गोलकम् ।पेषयेत्सहदेव्याथ लेपयेत्ताम्रसंपुटम् ॥४.१६॥तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु ।वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः ॥४.१७॥चित्रकैः सहदेव्या च गन्धकैर्लेपयेद्बहिः ।सम्पुटं बन्धयेद्वस्त्रे मृदालेप्य च शोषयेत् ॥४.१८॥तं रुद्ध्वान्धमूषायां ध्माते सम्पुटमाहरेत् ।सूक्ष्मचूर्णं हरेद्रोगान्योगवाहो महारसः ॥४.१९॥सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा ॥४.२०॥{मेर्चुर्यः: फ़ोर्मुलतिओन्}धत्तूरकद्रवैर्मर्द्यं दिनं गन्धं ससूतकम् ।अन्धमूषे दिनं स्वेद्यं भूधरे मूर्छितो भवेत् ॥४.२१॥कृत्वा षडङ्गुलां मूषां सुपक्वां मृन्मयीं दृढाम् ।मूषागर्भं विलेप्याथ मूलैर्बहुलपत्रकैः ॥४.२२॥तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः ।रुद्ध्वा सलवणैर्यन्त्रैश्चुल्यां दीप्ताग्निना पचेत् ॥४.२३॥सप्ताहान्ते समुद्धृत्य यवमानं ज्वरापहम् ।{मेर्चुर्यः: मूर्छन}काशीशं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् ॥४.२४॥काशीशस्यास्य भागेन दातव्या फुल्लतूरिका ।स्तोकस्तोकं क्षिपेत्खल्वे त्रियामं चैव मूर्छयेत् ॥४.२५॥प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं भवेत् ।स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् ॥४.२६॥ऊर्ध्वलग्नं ततश्चुल्ल्यां मूर्छितं चाहरेत्सूतम् ।{मेर्चुर्यः: मूर्छन}कुरण्टकरसैर्भाव्यं आतपे मर्दयेद्रसम् ॥४.२७॥लताकरञ्जपत्रैर्वाङ्गुष्ठाग्रेन विमर्दयेत् ।दिनैकं मूर्छितं सम्यक्सर्वरोगेषु योजयेत् ॥४.२८॥{हैरण्यगर्भक}अथ सूतस्य शुद्धस्य मूर्छितस्याप्ययं विधिः ।सूततुल्यं घृतं जीर्णं द्वाभ्यां तुल्यं च गन्धकम् ॥४.२९॥रविक्षीरैर्दिनं मर्द्यं अन्धयित्वा च भूधरे ।पुटकेन भवेत्सिद्धो रसो हैरण्यगर्भकः ॥४.३०॥{वैक्रान्तबद्धरस}कटुतुम्ब्युद्भवे कन्दे वन्ध्यायाः क्षीरकन्दके ।अपक्वैकं समादाय तद्गर्भे पिण्डिका ततः ॥४.३१॥दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।स्तोकं स्तोकं क्षिपेद्गन्धं पाषाणे तं तु कुट्टयेत् ॥४.३२॥याममात्रे भवेत्पिण्डी रसं कन्दे विनिक्षिपेत् ।अध ऊर्ध्वं भस्म वैक्रान्तं दत्त्वा निष्कार्द्धमात्रकम् ॥४.३३॥ततः कन्दस्य मज्जाभिर्मुखं बद्ध्वा मृदा दृढम् ।लिप्तं अङ्गुलमानेन सर्वतः शोष्य गोलकम् ॥४.३४॥पाचयेद्भूधरे यन्त्रे तत उद्धृत्य पुनः पचेत् ।ऊर्ध्वभागमधः कुर्यादित्येवं परिवर्तयेत् ॥४.३५॥क्रमेण चालयेदूर्ध्वं बहिर्युग्मोपलैः पचेत् ।ततो भिन्नस्तु संग्राह्यो बद्धः स्याद्दाडिमोपमम् ।नाम्ना वैक्रान्तबद्धोऽयं सर्वरोगेषु योजयेत् ॥४.३६॥{गन्धबद्धपारद}अथवा गन्धपीठीनां वस्त्रे बद्ध्वा तु गन्धकम् ।तुल्यं दत्त्वा निरुन्ध्याथ सम्पुटे लोहजे दृढे ॥४.३७॥पुटयेद्भूधरे तावद्यावज्जीर्यति गन्धकम् ।एवं पुनः पुनर्देयं यावद्गन्धस्तु षड्गुणम् ॥४.३८॥इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगहृत् ।{गन्धबद्धपारद (२)}मूषा जम्बीरविस्तारा दैर्घ्येण षोडशाङ्गुला ।अपक्वा सुदृढा कार्या सिकताभाण्डमध्यगा ॥४.३९॥त्रिभागं वालुका लग्ना पादांशेन बहिः स्थिताः ।पलैकं चूर्णितं गन्धं मूषामध्ये विनिक्षिपेत् ॥४.४०॥शुद्धसूतं समं पश्चात्क्षिपेद्गन्धपलं ततः ।भाण्डं आरोपयेच्चुल्ल्यां मूषामाच्छाद्य यत्नतः ॥४.४१॥मन्दाग्निना पचेत्तावद्यावन्निर्धूमतां व्रजेत् ।गन्धधूमे गते पूर्या काकमाचीद्रवैस्तु सा ॥४.४२॥द्रवे जीर्णे पुनः पूर्या नागवल्लीदलद्रवैः ।जीर्णे धुस्तूरकद्रावैः पूरयित्वा पुनः पचेत् ॥४.४३॥यावज्जीर्यति तद्गन्धं काकमाच्यादिभिः पुनः ।दत्त्वा दत्त्वा पचेत्तद्वद्धुस्तुरादिक्रमाद्रसम् ॥४.४४॥भित्त्वा मूषां समादाय जराव्याधिहरो रसः ।योजयेद्गन्धबद्धोऽयं योगवाहेषु सर्वतः ॥४.४५॥{मेर्चुर्यः: मूर्छनः: तेस्त्}कज्जलाभो यदा सूतो विहाय घनचापलम् ।मूर्छितः स तदा ज्ञेयो नानारसगतः क्वचित् ॥४.४६॥माधुर्यगौरवोपेतः तेजसा भास्करोपमः ।वह्निमध्ये यदा तिष्ठेत्तदा वृक्षस्य लक्षणम् ॥४.४७॥स जयति रसराजो मृत्युशङ्कापहारी सकलगुणनिधानः कायकल्पाधिकारी ।वलिपलितविनाशं सेवनाद्वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गे ॥४.४८॥इत्येता मारिताः सूता मूर्छिता बद्धं आगताः ।प्रत्येकं योगवाहः स्यात्तत्तद्योगेषु योजयेत् ॥४.४९॥मारितं देहसिद्ध्यर्थं मूर्छितं व्याधिनाशनम् ।रसभस्म क्वचिद्रोगे देहार्थे मूर्छितं क्वचित् ॥४.५०॥बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ।{मेर्चुर्यः: स्तोरगे}दन्ते शृङ्गेऽथवा वंशे रक्षयेत्साधितं रसम् ॥४.५१॥{मेर्चुर्यः: मेदिच्. प्रोपेर्तिएस्}पारदं क्रिमिकुष्ठघ्नं बल्यमायुष्यदृष्टिदम् ।सेवनात्सर्वरोगघ्नं रुच्यं गुरुकषायकम् ॥४.५२॥सूते गुणानां शतकोटिर्वज्रे चाभ्रे सहस्रं कनके शतैकम् ।तारे गुणाशीतिस्तदर्धं कान्ते तीक्ष्णे चतुःषष्टिः रवौ तदर्धम् ॥४.५३॥रसादिभिर्या क्रियते चिकित्सा दैवीति सद्भिः परिकीर्तिता सा ।सा मानुषी मन्त्रकृता शिफाद्यैः सा राक्षसी शस्त्रकृतादिभिर्या ॥४.५४॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP