संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१० रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१० रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१० Translation - भाषांतर लोहैर्महारसवरैर्विडपक्वबीजं कृत्वाथ पारदवरे विधिवच्च जार्यम् ।योज्यं तथा सकलसारणकर्मयोगे तद्वक्ष्यते विविधबीजविडाधिकारम् ॥१०.१॥{पक्वबीज (१)}ताम्रं समं शुद्धं द्रावितं लेपयेत्पुनः ।साम्लेन ताप्यकल्केन धमेत्स्वर्णावशेषितम् ॥१०.२॥एवं दशगुणं वाह्यं ताप्यं वा तुत्थसत्त्वकम् ।पक्वबीजमिदं ख्यातं स्वर्णशेषं समाहरेत् ॥१०.३॥{पक्वबीज}नागाभ्रं द्वंद्वितं तुल्यं स्वर्णे वाह्यं द्विषड्गुणम् ।पूर्ववत्स्वर्णशेषं तु ग्राह्यं स्यात्पक्वबीजकम् ॥१०.४॥{पक्वबीज (३)}स्वर्णं पीताभ्रसत्त्वं च तुल्यांशं द्वंद्वितं धमेत् ।ताप्यं तालकवापेन स्वर्णशेषं समाहरेत् ।एवं दशगुणं सत्त्वं वाह्यं स्यात्पक्वबीजकम् ॥१०.५॥{पक्वबीज (४)}रसकाभ्रकयोः सत्त्वं ताम्रं नागं क्रमोत्तरम् ॥१०.६॥चूर्णितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।तत्खोटं माक्षिकं तुत्थं अम्लैः पिष्ट्वा पुटे पचेत् ॥१०.७॥समुद्धृत्य पुनश्चाम्लैर्मर्द्यं रुद्ध्वा पुटे पचेत् ।एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे तु वाहयेत् ।धमेद्दशगुणं यावत्तावत्स्यात्पक्वबीजकम् ॥१०.८॥{बीजः: फ़्रों लेअद्}लोहस्य कुट्यमानस्य सुतप्तस्य दलानि वै ।पतन्ति तानि स्वीकृत्य ख्यातोऽयं लोहपर्पटः ॥१०.९॥लोहपर्पटमाक्षीकं कंकुष्ठं विमलाभ्रकम् ।मृतशुल्बं शिलासूतं दरदार्कस्नुहीपयः ॥१०.१०॥एतैः समं नागचूर्णं मर्द्यं रुद्ध्वा पुटे पचेत् ।पुनर्मर्द्यं पुनः पाच्यं यावद्वारांश्चतुर्दश ॥१०.११॥एवं शतगुणं वाह्यं शुद्धहेम्नि धमन्धमन् ।तत्स्वर्णं नागबीजं स्याद्गोरोचननिभं भवेत् ॥१०.१२॥{बीजः: फ़्रों लेअदः: पक्वः: रञ्जन}खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि हि ।क्षिप्त्वाग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥१०.१३॥चतुर्यामात्तु तद्भस्म जातं पात्रात्समुद्धरेत् ।रुद्ध्वा गजपुटे पच्यात्पादांशं गंधकं पुनः ॥१०.१४॥दत्त्वाम्लमर्दितं पच्यादेवं वारांश्चतुर्दश ।रक्तवर्णं भवेद्भस्म तद्भागं खर्परे क्षिपेत् ॥१०.१५॥भागत्रयं शिलाचूर्णं पृथक्पात्रे विनिक्षिपेत् ।पञ्चाङ्गं वासकाचूर्णं त्वक्चूर्णं चार्जुनस्य वै ॥१०.१६॥शाककिंशुककोरण्टशिग्रूणां पुष्पमाहरेत् ।नागिनी नागकन्या च कुमारी चाहिमारकम् ॥१०.१७॥सर्वेषां प्रतिभागैकं शिलामध्ये विनिक्षिपेत् ।सर्वं चतुर्गुणैर्मूत्रैश्छागजैः क्वाथमाचरेत् ॥१०.१८॥पूर्वोक्तनागभूतैश्च खर्परस्थस्य संक्षिपेत् ।चालयेत्पाचयेच्चुल्ल्यां यावत्सप्तदिनावधि ॥१०.१९॥यत्नेन मृतनागेन वापो देयो द्रुतस्य च ।पक्वबीजस्य वारांस्त्रीन्रञ्जितं जायते शुभम् ॥१०.२०॥{लेअदः: मृतः: अल्छेम्. उसे}दलानां चैव बीजानां पिष्टीस्तम्भे विशेषतः ।उच्चाटे क्रामणे योज्यं पूर्वोक्तं मृतनागकम् ॥१०.२१॥{बीजः: पक्वः: रञ्जन}मञ्जिष्ठा ब्रह्मपुष्पं च पुष्पं च करवीरकम् ॥१०.२२॥सर्वासां वृक्षजातीनां रक्तपुष्पाणि चाहरेत् ।खादिरं देवदारुं च द्विनिशा रक्तचन्दनम् ॥१०.२३॥सर्वं लाक्षारसैः पिष्ट्वा क्षिप्त्वा तैलं चतुर्गुणम् ।पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ।त्रिसप्तधा पक्वबीजं रञ्जते जायते शुभम् ॥१०.२४॥{बीजः: पक्व, रञ्जितः: अल्छेम्. उसे}गर्भद्रावैः प्रयोक्तव्यं तथा सर्वत्र सारणे ।समेन जारयेत्सूतं द्विगुणेन तु सारयेत् ॥१०.२५॥त्रिगुणेन ह्यनेनैव कर्तव्यं प्रतिसारणम् ।सारितं क्रामणेनैव वेधकाले नियोजयेत् ॥१०.२६॥{बीजः: फ़्रों सिल्वेर्}विमला तीक्ष्णचूर्णं च सत्त्वं श्वेताभ्रकस्य च ।रसकं तारमाक्षीकं समभागं विचूर्णयेत् ॥१०.२७॥चूर्णाच्चतुर्गुणं वङ्गं द्वंद्वमेलापकं धमेत् ।मर्दयेदम्लयोगेन रुद्ध्वा गजपुटे पचेत् ॥१०.२८॥एवं पञ्चपुटैः पक्वं ततस्तारे तु वाहयेत् ।धमन्दशगुणं यावत्तत्तारं तारबीजकम् ॥१०.२९॥{बीजः: फ़्रों सिल्वेर्}ताप्येन मारयेद्बंगं यथा तालेन मारितम् ।तद्द्वात्रिंशगुणं तारे वाहयेत्तालवापतः ।ताम्रबीजं तु तच्छ्रेष्ठं सारणे रञ्जने हितम् ॥१०.३०॥{बीजः: फ़्रों सिल्वेर्}कुटिलं विमला तीक्ष्णं समं चूर्णं प्रकल्पयेत् ।ध्मातव्यं द्वंद्वलिप्तायां खोटमम्लेन पेषितम् ॥१०.३१॥पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् ।यावद्दशगुणं तत्तु तारबीजं भवेच्छुभम् ॥१०.३२॥{बीजः: फ़्रों सिल्वेर्}बंगं श्वेताभ्रसत्त्वं च तारमाक्षिकसत्त्वकम् ।द्वंद्वमूषागतं धाम्यं त्रितयं चूर्णितं समम् ॥१०.३३॥वाह्यं दशगुणं तारे तारमाक्षिकवापतः ।तत्तारं जायते बीजं सर्वकार्यकरक्षमम् ॥१०.३४॥{तारबीजरञ्जन}यथाप्राप्तैः श्वेतपुष्पैर्नानावृक्षसमुद्भवैः ॥१०.३५॥रसं चतुर्गुणं योज्यं कङ्गुणीतैलवापतः ।पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ॥१०.३६॥द्रावितं तारबीजं तु एकविंशतिवारकम् ।रञ्जितं जायते तत्तु रसराजस्य रञ्जकम् ॥१०.३७॥{सारणातैल}ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् ।तैलमेकं समादाय मण्डूकवसया समम् ॥१०.३८॥कूर्मसूकरमेषाहिजलूकामत्स्यजापि वा ।एतेष्वेका वसा ग्राह्या पूर्वतैलं समाहरेत् ॥१०.३९॥रक्तवर्गं पीतवर्गं कार्यं क्षीरैश्चतुर्गुणैः ।पुष्पाणां रक्तपीतानां एकैकानां द्रवं हरेत् ॥१०.४०॥एतद्द्वंद्वविभागं स्यात्पूर्वक्वाथचतुष्टयम् ।पाटलीकाकतुण्ड्युत्थं महाराष्ट्रीद्रवं तथा ॥१०.४१॥प्रत्येकं भागमेकैकं पूर्वतैलवसायुतम् ।योज्यं भागद्वयं तत्र भूलतामलताप्यकम् ॥१०.४२॥द्वन्द्वमेलापयोरेकं तैलात्षोडशकांशकम् ।प्रत्येकं योजयेत्तस्मिन्सर्वमेकत्र पाचयेत् ॥१०.४३॥ग्राह्यं तैलावशेषं तु वस्त्रपूतं सुरक्षयेत् ।विख्यातं सारणातैलं रसराजस्य कर्मणि ॥१०.४४॥{क्रामणः: सुब्स्तन्चेस्फ़ोर्~}नागं वङ्गं मृतं तुल्यमम्लेन च वटीकृतम् ।क्रामणार्थे प्रयोक्तव्यं वेधकाले रसस्य तु ॥१०.४५॥{क्रामणः: सुब्स्तन्चेस्फ़ोर्}सौराष्ट्रीं भावयेद्घर्मे गवां पित्तैः त्रिधाततः ।तत्सत्त्वं सोमवद्ग्राह्यं क्रामकं योजयेद्रसे ॥१०.४६॥{क्रामणः: सुब्स्तन्चेस्फ़ोर्~}मनःशिला विषं ताप्यं महिषीकर्णजं मलम् ।काकविट्खररक्तं च क्रामणं स्नुक्पयोऽन्वितम् ॥१०.४७॥{क्रामणः: सुब्स्तन्चेस्फ़ोर्~}नररक्तार्कदुग्धं च टंकणं भूलता शिला ।समांशं क्रामकं योज्यं वेधकाले रसस्य तु ॥१०.४८॥{क्रामणसत्त्व (५)}इन्द्रगोपं विषं कांतं नररक्तं स्नुहीपयः ।रसकं दरदं तैलं सर्वमेकत्र मर्दयेत् ।क्रामकं क्षेपलेपाभ्यां वेधकाले नियोजयेत् ॥१०.४९॥{क्रामणः: सुब्स्तन्चेस्फ़ोर्~; वेधः: ~}रसं धान्याभ्रकं सत्त्वं काकवितरितालकम् ।नयनं सहदेवानां भूनागश्च समं समम् ॥१०.५०॥पिण्डितं क्रामणे सिद्धं क्षेपे लेपे नियोजयेत् ॥१०.५१॥{क्रामणसत्त्व (७)}कदलीकन्दसौवीरं कण्टकारीरसप्लुतम् ।क्रामणं सर्वधातूनां सर्वद्वंद्वेषु मेलनम् ॥१०.५२॥क्रामणेन विना सूतो न क्रमेद्देहलोहयोः ।उक्तस्थानेषु योगेषु तस्मात्सर्वेषु योजयेत् ॥१०.५३॥{महाविड}दग्धं शंखं रविक्षीरैर्भावितं शतधातपे ।ततः पञ्चपुटैः पक्वं रुद्ध्वा रुद्ध्वाथ संपुटे ॥१०.५४॥तत्समं टंकणं क्षिप्त्वा ह्यम्लवर्गेण भावयेत् ।राजावर्तं प्रवालं च दरदं गंधकं शिला ॥१०.५५॥पञ्चानां तु समं चूर्णं शङ्खतुल्यं नियोजयेत् ।सर्वं तदम्लवर्गेण मर्दयेद्दिवसत्रयम् ॥१०.५६॥अयं महाविडः ख्यातः खोटानां जारणे हितः ।मूषालेपं तु सर्वत्र जारणे योजयेत्सदा ॥१०.५७॥तत्क्षणाज्जरते सूतो वज्रादीनि न संशयः ॥१०.५८॥{विड (२)}त्रिक्षारं पञ्चलवणं नवसारं कटुत्रयम् ।इन्द्रगोपं घनं शिग्रु सूरणं वनसूरणम् ॥१०.५९॥भावयेदम्लवर्गेण त्रिदिनं ह्यातपे खरे ।अनेन मर्दितः सूतो भक्षयेदष्टलोहकम् ॥१०.६०॥{विड (३)}व्योषं गंधकं कासीसं स्वर्णपुष्पी सुवर्चलम् ।सर्जी टंकणं सौवीरं सैन्धवं शिग्रुजैर्द्रवैः ।दशाहं भावयेद्घर्मे विडोऽयं जारणे हितः ॥१०.६१॥{विड (४)}दग्धशङ्खं रविक्षीरैर्भावितं शतधातपे ।ततः पञ्चपुटैः पक्वं जारणे विडमुत्तमम् ॥१०.६२॥{विड (५)}त्रिक्षारं पञ्चलवणं अम्लवेतससंयुतम् ।अनेन मर्दयेत्सूतमभ्रसत्त्वं चरत्यलम् ॥१०.६३॥{विड (६)}गोमूत्रं गंधकं घर्मे शतवारं विभावयेत् ।शिग्रुमूलद्रवैस्तद्वद्दग्धं शङ्खं विभावयेत् ॥१०.६४॥एतद्गंधकशंखाभ्यां समांशं विषसैन्धवम् ।एतैर्विमर्दितं सूतं ग्रसते सर्वलोहकम् ॥१०.६५॥{वह्निमुखो विड (७)}टंकणं शतधा भाव्यं द्रवैः पालाशवृक्षजैः ।विडो वह्निमुखो नाम हितः सर्वस्य जारणे ॥१०.६६॥{विड (८)}गंधकं नवसारं वा मुखं कांतस्य चातपे ।शतधा मूत्रवर्गेण भावितं स्याद्विडं पृथक् ॥१०.६७॥{ज्वालामुखो विडः (९)}त्रिक्षारं गंधकं तालं भूखगं नवसारकम् ।सैंधवं च समं सर्वं मूत्रवर्गैर्दिनं पचेत् ॥१०.६८॥ज्वालामुखो विडो नाम हितः सर्वत्र जारणे ॥१०.६९॥{विड (१०)}गंधकं शतधा भाव्यं वनशिग्रुशिफाद्रवैः ।जम्बीरैर्नवसारं वा भावितं स्याद्विडं पृथक् ॥१०.७०॥{विडः: वडवानल}वासकैरंडकदली देवदाली पुनर्नवा ।वासापालाशनिचुलं तिलं काञ्चनमोक्षकम् ॥१०.७१॥एतान्समूलानादाय नातिशुष्कान्विखण्डयेत् ।पञ्चाङ्गं मूलकं दग्ध्वा तिलकाण्डं च तत्समम् ॥१०.७२॥एतत्क्षारैः पूर्वकल्कं मूत्रवर्गेण भावयेत् ।वस्त्रपूतं द्रवं पच्यात्मृद्वग्नौ लोहपात्रके ॥१०.७३॥बाष्पाणां बुद्बुदानां च बहूनां उद्गमो यदा ।तदा कासीसं सौराष्ट्री क्षारत्रयं कटुत्रयम् ॥१०.७४॥गंधकं पंचलवणं नवसारं च हिंगुलम् ।एतेषां निक्षिपेच्चूर्णं तस्मिन्पात्रेऽथ चालयेत् ॥१०.७५॥गुडपाकं समुत्तार्य लोहसंपुटके क्षिपेत् ।सप्ताहं भूमिगर्भेऽथ धान्यराशौ तथा पुनः ।सप्ताहं संस्थितः सिद्धो विडोऽयं वडवानलः ॥१०.७६॥{विडः: फ़ोर्सत्त्वजारण}भावयेन्निचुलक्षारं देवदालीदलद्रवैः ।एकविंशतिवारं तु बिडोऽयं सत्त्वजारणे ॥१०.७७॥{विडः: तीव्रानल}देवदालीशिफाबीजं गुंजासैंधवटंकणम् ।समांशं निचुलक्षारमम्लवर्गेण सप्तधा ॥१०.७८॥कोशातकीदलरसैर्भावयेद्दिनसप्तकम् ।तीव्रानलो नाम बिडो विहितो हेमजारणे ॥१०.७९॥{विडः: फ़ोर्जारण ओफ़् गोल्द्}मूलकार्द्रकवह्नीनां क्षारं गोमूत्रलोलितम् ।वस्त्रपूतं द्रवं ग्राह्यं गंधकं तेन भावयेत् ॥१०.८०॥शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥१०.८१॥{विडः: फ़ोर्जारण ओफ़् गोल्द्}त्रिक्षारं पंचलवणं शङ्खं तालं मनःशिला ।दिनैकमम्लवर्गेण पक्वं स्याद्धेमजारणे ॥१०.८२॥{विडः: फ़ोर्जारण ओफ़् गोल्द्}गंधकं नवसारं च जम्बीराम्लेन मर्दयेत् ।शतवारं खरे घर्मे बिडोऽयं हेमजारणे ॥१०.८३॥{विडः: फ़ोर्जारण}कन्याहयारिधत्तूरद्रवैर्भाव्यं तु गंधकम् ।शतधा तं खरे घर्मे विडोऽयं सर्वजारणे ॥१०.८४॥अनेन ग्रसते शीघ्रं शुक्तिसंभवसंपुटे ॥१०.८५॥{विडः: फ़ोरिम्प्रोवेमेन्तोफ़् ग्रासन}सैंधवं गंधकं तुल्यं ताम्रवल्लीद्रवैः प्लुतम् ।अनेन बिडयोगेन गगनं ग्रसते रसः ॥१०.८६॥{सिद्धविड}शिलागंधकसिन्धूत्थं प्रत्येकं च पलं पलम् ।पलत्रयं च भूनागं सर्वमेकत्र मर्दयेत् ॥१०.८७॥शोषयेच्च पुनर्देयं भूनागानां पलत्रयम् ।तद्वन्मर्द्यं पुनः शोष्यं पाचयेन्मन्दवह्निना ॥१०.८८॥एवं अष्टगुणं दत्त्वा मर्द्यं पाच्यं विचूर्णयेत् ।अयं सिद्धविडो योज्यो जारणे हेमकर्मणि ॥१०.८९॥सम्यक्संस्कृतगंधकाद्युपरसं सत्त्वं ततो व्योमजं पश्चान्माक्षिकसत्त्वहाटकवरं गर्भद्रुतौ द्रावितम् ।रागै रञ्जितबीजजालं अखिलं बाह्यां द्रुतिं द्वंद्वितां सूते सर्वमिदं क्रमेण विधिना सिद्धैर्बिडैर्जारयेत् ॥१०.९०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP