संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण २.४ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण २.४ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण २.४ Translation - भाषांतर सूतगन्धगगनायसशुल्बं मारितं च परमामृतीकृतम् ।इष्टमेकमपि मूलिकागणं देहसिद्धिकरमाशु सेवितम् ॥४.१॥मृतकान्ताभ्रकं सूतं गन्धं भृङ्गविडङ्गकम् ।त्वग्वर्जं बिल्वबीजं च प्रत्येकं पलषोडश ॥४.२॥त्रिंशत्पलं त्र्यूषणं च त्रिंशत्त्रिंशद्घृतं मधु ।चित्रमूलं दशपलं सर्वं चूर्णं विलोडयेत् ॥४.३॥पलानि त्रिफलायास्तु विंशपूर्वं चतुःशतम् ।क्वाथ्यं अष्टगुणैस्तोयैर्ग्राह्यमष्टावशेषितम् ॥४.४॥कषायं भावयेत्तेन मासैकं पूर्वलोडितम् ।लोहपात्रे खरे घर्मे तत्पलार्धं सदा पिबेत् ॥४.५॥क्षीरैः शयनकाले तु वर्षान्मृत्युजरापहम् ।बालो निबिडसंधिश्च जीवेच्चन्द्रार्कतारकम् ॥४.६॥महारसायनं दिव्यं कामिनीशततोषकम् ।अग्निवर्णं क्षिपेत्क्षीरे कृष्णाभ्रं वह्नितापितम् ॥४.७॥भिन्नपत्त्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् ।त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥४.८॥चूर्णितं निक्षिपेत्तस्मिंस्त्रिदिनान्ते समुद्धरेत् ।तत्सर्वं पेषयेच्छ्लक्ष्णं सितवस्त्रेण बन्धयेत् ॥४.९॥जलपूर्णे घटे घर्मे दोलायन्त्रेण धारयेत् ।शुष्के तोये पुनस्तोयं दद्याद्यावज्जले गतम् ॥४.१०॥तदभ्रकं ततो वस्त्रं संत्यजेद्रक्षयेज्जलम् ।त्रिंशद्भागं ततः कुर्यात्तज्जलं साभ्रकं सुधीः ॥४.११॥तद्भागैकेन संलोड्य पलैकं श्वेततण्डुलात् ।त्रिंशत्पले गवां क्षीरे तत्पचेच्चाथ शीतलम् ॥४.१२॥मध्वाज्यैर्द्विपलैर्युक्तं निष्कैकैश्च मरीचकैः ।साधको भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥४.१३॥केशा दन्ता नखास्तस्य पतन्ति ह्युद्भवन्ति च ।वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥४.१४॥अमृताभ्रकयोगोऽयं शम्भुना गदितः पुरा ।मृताभ्रं गन्धकं शुद्धं कणा सर्वं समं घृतैः ॥४.१५॥कर्षैकं भक्षयेन्नित्यं वर्षान्मृत्युजरापहम् ।कोरण्टकस्य पत्त्राणि मृताभ्रं गन्धकं समम् ॥४.१६॥तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे ।तत्कर्षैकं पिबेत्क्षीरैरब्दान्मृत्युजरापहम् ॥४.१७॥मृताभ्रकस्य कर्षैकं गवां क्षीरं पलं तथा ।समूलपत्त्रां सर्पाक्षीं सार्द्रां पिष्ट्वा च गन्धकम् ॥४.१८॥एकीकृत्य पिबेत्सर्वं वर्षैकेन जरां जयेत् ।वज्रकायः खेचरश्च जीवेद्ब्रह्मदिनत्रयम् ॥४.१९॥मृताभ्रं कान्तलोहं च त्रिफला मागधी समम् ।पञ्चाङ्गं बदरीचूर्णमभ्रतुल्यं नियोजयेत् ॥४.२०॥सितामध्वाज्यसंयुक्तं पलार्धं भक्षयेत्सदा ।हन्ति वर्षाज्जरां मृत्युमायुः स्याद्ब्रह्मणो दिनम् ॥४.२१॥अमृतक्रीडे विष्णुसंवरणि स्वाहा ।अनेन मन्त्रेण सर्वे अभ्रकयोगा अभिमन्त्र्य भक्षणीयाः ।मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् ।काकतुण्डीबीजचूर्णं सर्वं तुल्यं प्रकल्पयेत् ॥४.२२॥शाल्मलीमल्लिपत्त्राणां द्रवैर्भाव्यं दिनत्रयम् ।त्रिदिनं भृङ्गजैर्द्रावैर्भावितं शोषयेत्पुनः ॥४.२३॥तस्मिन्तुल्यं गुडं क्षिप्त्वा वटिकाः कर्षमात्रकाः ।रुदन्त्युत्थद्रवैः क्षीरैर्मध्वाज्याभ्यां पिबेत्सदा ॥४.२४॥वर्षैकेन जरां मृत्युं हन्ति सत्यं न संशयः ।मृतं कान्तं कृष्णतिलांस्त्रिफलां चूर्णयेत्समम् ॥४.२५॥शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके ।स्थितं रात्रौ पिबेत्प्रातः पलार्धं मृत्युनाशनम् ॥४.२६॥वत्सरैकाज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।कान्तभस्म कणाचूर्णं निम्बनिर्यासमेव च ॥४.२७॥त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् ।लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥४.२८॥कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे ।शोषयित्वा विचूर्ण्याथ तानि कान्तं मृतं समम् ॥४.२९॥मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरापहम् ।कोरण्टपत्त्रचूर्णं तु कान्तभस्म तिला गुडम् ॥४.३०॥तुल्यं भक्ष्यं पलार्धं तद्वर्षान्मृत्युजरापहम् ।कान्तभस्म समं गन्धं तैलैर्ज्योतिष्मतीभवैः ॥४.३१॥लिहेन्नित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः ।बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥४.३२॥मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् ।घर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥४.३३॥गोक्षीरैस्तत्पिबेत्कर्षं जीवेद्ब्रह्मदिनत्रयम् ।वर्षमात्रान्न संदेहो दिव्यतेजा महाबलः ॥४.३४॥मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैर्लिहेत् ।निष्कं निष्कं तु वर्षैकं जीवेद्ब्रह्मदिनत्रयम् ॥४.३५॥त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा ।पिबेद्धारोष्णपयसा वयःस्तम्भकरं नृणाम् ॥४.३६॥वर्षद्वयप्रयोगेण जीवेदाचन्द्रतारकम् ।सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥४.३७॥रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् ।वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥४.३८॥लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु ।दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना ।वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥४.३९॥ओं हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं चन्द्रामृतं आज्ञापितंकुरु कुरुस्वाहा हे हे हं हः गं इति गन्धकलोहयोर्भक्षणमन्त्रः ।सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् ।आस्वादयेत्स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥४.४०॥मूलानि भक्षयेत्तासां आस्यवैरस्यशान्तये ।बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिबेत्सदा ॥४.४१॥स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् ।ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥४.४२॥सम्यग्जीर्णे तु दीप्ताग्नौ पिबेत्पश्चाद्बुभुक्षितः ।शृतं क्षीरं ततोऽन्नं च सेव्यं लौहरसायने ॥४.४३॥ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् ।मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥४.४४॥जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः ।ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥४.४५॥त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् ।एकीकृत्य क्षिपेद्भाण्डे तं रुद्ध्वा धान्यराशिगम् ॥४.४६॥कृत्वा मासात्समुद्धृत्य भागान्कुर्याच्चतुर्दश ।भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥४.४७॥एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः ।तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥४.४८॥ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह ।पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥४.४९॥पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् ।वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥४.५०॥ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् ।तुल्यैः पिबेद्भवेन्मूर्छा सिञ्चेत्तस्य मुखे पयः ॥४.५१॥बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः ।द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥४.५२॥दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् ।मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥४.५३॥महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् ।ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥४.५४॥अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् ।पक्वधात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥४.५५॥कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्गोमयैः पुनः ।आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्गोमयैस्ततः ॥४.५६॥शुष्के गजपुटं देयं परितोऽरण्यकोत्पलैः ।स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥४.५७॥क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् ।यथेष्टं भूगृहान्तस्थः क्षीराहारी जरां जयेत् ॥४.५८॥मासद्वयेन वसुधां छिद्रां पश्यति निश्चितम् ।जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥४.५९॥श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह ।कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥४.६०॥ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः ।अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥४.६१॥शरीरं भस्मना मर्द्यं मासान्मृत्युजरां जयेत् ।जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥४.६२॥अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः ।तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥४.६३॥अमृतं कुरु कुरु अमृतमालिन्यै नमः ।अनेन मन्त्रेण सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः ।शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा ।रेवत्यां वाथ सम्पूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥४.६४॥छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह ।वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥४.६५॥तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् ।तच्चूर्णं तु घृतैर्लेह्यं तद्वत्स्याद्बलमद्भुतम् ॥४.६६॥ओं नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं ह्रां सः ।इति औषधभक्षणमन्त्रः ।छायाशुष्कं देवदालीपञ्चाङ्गं चूर्णयेत्ततः ।मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरां जयेत् ॥४.६७॥जीवेत्कल्पसहस्रं तु रुद्रतुल्यो भवेन्नरः ।तच्चूर्णं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ॥४.६८॥पूर्ववज्जायते सिद्धिर्वत्सरान्नात्र संशयः ।तच्चूर्णं वाकुचीवह्निसर्पाक्षीभृङ्गराट्समम् ॥४.६९॥चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ।वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥४.७०॥पुनर्नवादेवदाल्योर्नीरैर्नित्यं पिबेन्नरः ।देवदाल्याश्च सर्पाक्ष्याः पलैकं वा शिवाम्बुना ॥४.७१॥पिबेत्स्यात्पूर्ववत्सिद्धिर्वत्सरान्नात्र संशयः ।देवदालीं च निर्गुण्डीं पिबेत्कर्षं शिवाम्बुना ।वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥४.७२॥ओं अमृतगण रुद्रगणाम्भः स्वाहा ।अयं च ग्रहणमन्त्रः ।नमो भगवते रुद्राय हुं फट्स्वाहा ।अयं साधकस्य शिखाबन्धनमन्त्रः ।ओं चर र र ।अयं भक्षणमन्त्रः ॥४.७३॥पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् ।चूर्णकर्षं गवां क्षीरैः पलद्वंद्वैर्युतं पिबेत् ॥४.७४॥मासषट्काज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।द्रवं श्वेतार्कपत्त्राणां भृङ्गराजद्रवैः समम् ॥४.७५॥एकीकृत्यातपे शुष्कं चूर्णं क्षीरैश्चतुर्गुणैः ।मृद्वग्निना पचेत्तावद्यावत्पिण्डत्वमागतम् ।तत्कर्षैकं घृतैर्लेह्यं वर्षात्स्यात्पूर्ववत्फलम् ॥४.७६॥ओं आं हं वासरमालिने स्वाहा ।अयं भक्षणमन्त्रः ।ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्त्रकम् ।छायाशुष्कं तु तच्चूर्णं गवां क्षीरैः पिबेत्पलम् ॥४.७७॥वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ।हस्तिकर्णस्य पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ॥४.७८॥कर्षमात्रं पिबेन्नित्यं मासैकमुदकैः सह ।आरनालैस्ततस्तक्रैर्दधिक्षीराज्यक्षौद्रकैः ॥४.७९॥प्रत्येकेन क्रमात्सेव्यं मासैकेन जरापहम् ।जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥४.८०॥ओं गरविषं दृष्टौ गृह्णामि स्वाहा ।हस्तिकर्णग्रहणमन्त्रः ।ओं अमृतकुटीजातानां अमृतं कुरु कुरु स्वाहा ।अनेन पूजयेत् ।ओं अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः ।भक्षणमन्त्रः ॥४.८१॥रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् ।तदर्धं मुसलीचूर्णं मुसल्यर्धं फलत्रयम् ॥४.८२॥मूलानां कतकोत्थानां तैलं पातालयन्त्रके ।ग्राहयेद्गर्भयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥४.८३॥नालिकेरजलैर्वाथ क्षाल्यं पञ्चांशवारकम् ।एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत्क्रमात् ॥४.८४॥कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् ।एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥४.८५॥सिद्धयोगो ह्ययं ख्यातो वज्रकायकरो नृणाम् ।पुष्यार्के ग्राहयेत्प्रातर्निर्गुण्डीमूलजां त्वचम् ॥४.८६॥छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिबेत्सदा ।अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥४.८७॥वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः ।तच्चूर्णं क्षीरमध्वाज्यैर्लोडितं स्निग्धभाण्डके ॥४.८८॥रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् ।द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥४.८९॥तच्चूर्णार्धपलं चाज्यैर्लिहेत्स्यात्पूर्ववत्फलम् ।तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥४.९०॥वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥४.९१॥निर्गुण्डीपत्त्रजं द्रावं भाण्डे मृद्वग्निना पचेत् ।गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥४.९२॥निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः ।राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् ।मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥४.९३॥ओं नमो माय गणपतये भूपतये कुबेराय स्वाहा इति भक्षणमन्त्रः ।भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा ।लाङ्गली निम्बपत्त्राणि सहदेवी समं समम् ॥४.९४॥एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः ।तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥४.९५॥वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ।तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥४.९६॥कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् ।यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥४.९७॥पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् ।ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥४.९८॥नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् ।निष्कार्धनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥४.९९॥काकमाचीफलं पिष्ट्वा कर्षैकमुदकैः पिबेत् ।वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥४.१००॥गुडूची मुसली मुण्डी निर्गुण्डी च शतावरी ।विजया च समं चूर्णं सितामध्वाज्यसंयुतम् ॥४.१०१॥खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् ।उक्तं गोरक्षनाथेन जीवेद्ब्रह्मदिनत्रयम् ॥४.१०२॥कृष्णाष्टम्यां कृष्णसूत्रैर्वृक्षं शुनकशाल्मलेः ।आवेष्ट्याघोरमन्त्रेण रात्रौ कृष्णाजकं बलिम् ॥४.१०३॥दत्त्वाघोरं जपेत्तत्र यावदष्टसहस्रकम् ।तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥४.१०४॥मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि ।वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥४.१०५॥तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् ।पुष्पवर्जं पिबेत्क्षीरं मासान्मृत्युजरापहम् ॥४.१०६॥फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् ।फलवर्जं पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥४.१०७॥चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः ।जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः ॥४.१०८॥तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।काकमाची भृङ्गराजः सर्पाक्षी सहदेविका ॥४.१०९॥समूला देवदाली च निम्बवाकुचीबीजकम् ।फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥४.११०॥नीलकोरण्टपत्त्राणि त्रिफला च समं समम् ।चूर्णं तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥४.१११॥छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुतम् ।भक्षेत्कर्षद्वयं नित्यं वर्षमात्राज्जरां जयेत् ।जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥४.११२॥ओं ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसंजीवनि सर्वकामप्रदे भगवान्सोमराज आज्ञापयति स्वाहा इति भक्षणमन्त्रः ।त्रिफला वाकुचीबीजं पिप्पली चाश्वगन्धिका ।सर्वं तुल्यं कृतं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥४.११३॥ओं ह्रां ह्रीं ह्रूं सः स्वाहा अनेन मन्त्रेण भक्षयेत् ।मूलिकाकल्पयोगेषु गुञ्जैकं मृतपारदम् ।प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् ।रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥४.११४॥अस्थिमुद्राधरो मन्त्री लक्षमेकं श्मशानतः ।जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥४.११५॥तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् ।अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥४.११६॥ओं ह्रीं महाभयेरुम् ।प्रातः पुष्यार्कमुख्ये विविधशुभदिने मन्त्रपूजाविधानैर्ग्राह्यं दिव्यौषधीनां फलदलकुसुमं मूलपत्त्रं रसं वा ।सर्वाङ्गं वाथ सिद्ध्यै सकलमभिनवं सेवयेद्ब्रह्मचारी क्षीरान्नं चोदकान्नं हितमशनमिदं सर्वमन्यद्विवर्ज्यम् ॥४.११७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP