संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.४ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.४ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.४ Translation - भाषांतर सम्यक्सिद्धमतान्तरैः समुचितैः सत्संप्रदायैः शुभैः ख्यातैर्गन्धकजारणादिविविधैर्योगैः सुसिद्धैः क्रमात् ।यद्दृष्टं सुलभं सुवर्णकरणं तारस्य संरंजनात् ।सत्यं सज्जनरक्षणातुरतया संतन्यते तत्त्वतः ॥४.१॥{गन्धपिष्टि}दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।स्तोकं स्तोकं क्षिपेत्खल्वे मर्दकेन शनैः शनैः ॥४.२॥कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका ।{स्वर्णपिष्टि}भागत्रयं शुद्धसूतं भागैकं शुद्धहाटकम् ॥४.३॥अम्लेन मर्दयेद्यामं ख्यातेयं स्वर्णपिष्टिका ।{सुल्फ़ुरः: षड्गुणजारण}गन्धपिष्टिं हेमपिष्ट्या समया वेष्टयेद्बहिः ॥४.४॥वस्त्रेण वेष्टयेद्गाढं सूताख्ये लोहसंपुटे ।निधाय पोटलीमध्ये सर्वतुल्यं च गन्धकम् ॥४.५॥क्षिप्त्वा निरोधयेत्संधिं मृल्लोणेन च रोधयेत् ।भूधराख्ये पुटे पक्त्वा जीर्णे गन्धं पुनः क्षिपेत् ॥४.६॥षड्गुणे गन्धके जीर्णे शनैर्वस्त्रं निवारयेत् ।पुनः पुनः समं गन्धं दत्त्वा जार्यं शनैः शनैः ॥४.७॥निःशेषं नैव कर्तव्यं प्रमादाद्याति सूतकः ।एवं शतगुणे जीर्णे यन्त्रादुद्धृत्य पिष्टिकाम् ॥४.८॥{वेधः: सिल्वेर्=> गोल्द्}तत्तुल्ये संपुटे हेम्नि रुद्ध्वा बाह्ये च वेष्टयेत् ।कुमारीद्रवपिष्टेन काचेनाङ्गुलमात्रकम् ॥४.९॥तद्बहिष्टङ्कणेनैव लोणमृत्तिकया ततः ।वेष्ट्यं अङ्गुलितैलेन सूर्यतापेन शोषितम् ॥४.१०॥कोष्ठीयन्त्रे गतं धाम्यं वङ्कनाले दृढाग्निना ।तत्खोटं जायते दिव्यं सिन्दूरारुणसंनिभम् ॥४.११॥तेन वेधस्तु तारस्य द्रुतस्य शतभागतः ।देयः संजायते स्वर्णं सिद्धयोग उदाहृतः ॥४.१२॥{गन्धपिष्टि}गन्धकं शोधितं चूर्ण्यं सप्तधा कनकद्रवैः ।भावयेदातपे तद्वन्नारीणां रजसा पुनः ॥४.१३॥तद्गन्धं कर्षमेकं तु नरपित्तेन लोलितम् ।पलैकं पारदं शुद्धं आतपे खर्परे क्षिपेत् ॥४.१४॥तत्पृष्ठे लोलितं गन्धं क्षिप्त्वाङ्गुष्ठेन मर्दयेत् ।पिष्टिका जायते दिव्या सर्वकामफलप्रदा ॥४.१५॥{गन्धपिष्टि}तिलपर्णीरसेनैव सप्तधा शुद्धगंधकम् ।भावयेत्पेषयेत्तच्च छायाशुष्कं पुनः पुनः ॥४.१६॥शुद्धं सूतं पलैकं च मूषायां हि निधापयेत् ।शुद्धस्वर्णस्य गुलिकां निष्कमात्रां विनिक्षिपेत् ॥४.१७॥तां मूषां वालुकायन्त्रे स्थापयेत्पूर्वगन्धकम् ।त्रुटिशस्त्रुटिशो दत्त्वा चुल्ल्यां मन्दाग्निना पचेत् ॥४.१८॥पादांशे गन्धके जीर्णे जायते गन्धपिष्टिका ।गन्धपिष्टिः पृथग्ग्राह्या स्वर्णस्य गुलिकां विना ॥४.१९॥{गन्धपिष्टि}छायायां गन्धकं भाव्यं शतधा मर्कटीद्रवैः ।घर्मे मृत्खर्परे सूतं क्षिपेत्किंचिच्च गन्धकम् ॥४.२०॥मर्कटीद्रवसंयुक्तं जीर्णे गन्धे द्रवं पुनः ।देयं पादांशकं यावद्गन्धकं सद्रवं क्रमात् ॥४.२१॥जायते पिष्टिका दिव्या सर्वकामफलप्रदा ।{गन्धपिष्टि}गन्धकं सूक्ष्मचूर्णं तु काञ्जिकैः क्षालयेत्त्रिधा ॥४.२२॥त्रिधा जम्बीरजैर्द्रावैर्हंसपाद्याश्च सप्तधा ।कर्पूरं च पृथग्भाव्यं श्वेताद्रिकर्णिकाद्रवैः ॥४.२३॥आतपे त्रीणि वाराणि ततो जारणमारभेत् ।द्विगुञ्जामात्रकर्पूरैर्यन्त्रगर्भं प्रलेपयेत् ॥४.२४॥तद्गर्भे भावितं गन्धं सार्धनिष्कं प्रदापयेत् ।शुद्धसूतं पलं चार्धं कर्पूरं पूर्वतुल्यकम् ॥४.२५॥पूर्वतुल्यं ततो गन्धं क्रमेणाथ प्रदापयेत् ।श्वेताद्रिकर्णिकामूलं गोमूत्रेण प्रपेषयेत् ॥४.२६॥आच्छाद्य तेन कल्केन शरावेण निरुध्य च ।पाचयेन्नलिकायन्त्रे दिनान्ते तं समुद्धरेत् ॥४.२७॥कर्पूरादि पुनर्देयं तद्वज्जार्यं दिनावधि ।इत्येवं तु पुनः कुर्याज्जायते गन्धपिष्टिका ॥४.२८॥{गन्धपिष्टि}पारदस्य पलैकं तु कर्षैकं शुद्धगन्धकम् ।स्निग्धखल्वे कराङ्गुल्या देवदालीद्रवे प्लुतम् ॥४.२९॥मर्दयेदातपे तीव्रे जायते गन्धपिष्टिका ।{गन्धपिष्टि}शुद्धसूतं पलैकं तु कर्षार्धं शुद्धगन्धकम् ॥४.३०॥निधाय ताम्रखल्वे तु तदधोऽग्निं मृदुं क्षिपेत् ।कराङ्गुष्ठेन संमर्द्य यामाद्भवति पिष्टिका ॥४.३१॥{गन्धपिष्टिः: स्तम्भन}तिक्तकोशातकीबीजं चाण्डालीकन्द एव च ।नारीस्तन्येन सम्पिष्य लेपयेद्गन्धपिष्टिकाम् ॥४.३२॥निक्षिपेत्सूरणे कन्दे क्षीरकन्दोदरे तथा ।वन्ध्याकर्कोटकीवज्रकन्दे वा कुडुहुञ्जिके ॥४.३३॥मुखं कन्दस्य मज्जाभी रुद्ध्वा कन्दं मृदा लिपेत् ।पुटयेद्भूधरे यन्त्रे करीषाग्नौ दिनावधि ॥४.३४॥ऊर्ध्वाधः परिवर्तेन यथा कन्दो न दह्यते ।ततः पिष्टीं समुद्धृत्य स्तम्भिता जायते ध्रुवम् ॥४.३५॥{गन्धपिष्टिः: स्तम्भितः: जारण}अथास्या जारणा कार्या स्तनाख्ये लोहसंपुटे ।निधाय जारयेद्गन्धं तुल्यं तुल्यं तु भूधरे ॥४.३६॥जीर्णे गन्धे पुनर्देयं यन्त्रे जार्यं च पूर्ववत् ।एवं शतगुणं जार्यं जीर्णे यन्त्रात्समुद्धरेत् ॥४.३७॥सर्वासां गन्धपिष्टीनां रञ्जनं स्यात्तु जारणात् ।{गन्धपिष्टिः: मारण}दिव्यौषधगणद्रावैः पिष्टिः खल्वे विमर्दयेत् ।दिनान्ते गोलकं कृत्वा बीजैर्दिव्यगणोद्भवैः ॥४.३८॥लेपयेद्वज्रमूषां तु गोलं तत्र निरोधयेत् ।दिनैकं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥४.३९॥समुद्धृत्य पुनर्मर्द्यं पूर्वद्रावैस्तु पूर्ववत् ।पुटान्तं कारयेदेवं दशवारं पुनः पुनः ॥४.४०॥{गन्धपिष्टिः: वेधः: सिल्वेर्=> गोल्द्}म्रियते नात्र संदेहो गन्धपिष्ट्यास्ततः पुनः ।मृतपिष्टिपलैकं तु पेषयेद्वासकद्रवैः ॥४.४१॥तत्कल्कैर्नागपत्रं तु लेपयित्वा पलाष्टकम् ।छायाशुष्कं न्यसेत्पिण्डे वासापत्रसमुद्भवे ॥४.४२॥तं पिण्डं संपुटे रुद्ध्वा पुटेदारण्यकोत्पलैः ।समुद्धृत्य पुनर्देया पलैका मृतपिष्टिका ॥४.४३॥वासाद्रावैर्दिनं मर्द्यं तं गोलं वेष्टयेत्पुनः ।वासापत्रोत्थपिण्डेन रुद्ध्वा गजपुटे पचेत् ॥४.४४॥एवं पुनः पुनः कुर्याद्रक्तवर्णं मृतं भवेत् ।तन्नागं पलमात्रं तु यामैकं वासकद्रवैः ॥४.४५॥मर्दितं लेपयेत्तेन ताम्रपत्रं पलाष्टकम् ।दिनैकं पाचनायन्त्रे पाचयेन्म्रियते ध्रुवम् ॥४.४६॥षोडशांशेन तेनैव तारे वेधं प्रदापयेत् ।तत्तारं जायते स्वर्णं जाम्बूनदसमप्रभम् ॥४.४७॥यया कया गन्धपिष्ट्या स्तम्भनं जारणं विना ।पूर्ववत्क्रमयोगेन दिव्यं भवति काञ्चनम् ॥४.४८॥{वेधः: सिल्वेर्=> गोल्द्}अर्जुनस्य त्वचो भस्म वासाभस्म समं समम् ।गृहकन्याद्रवैर्मर्द्यं दिनैकं तेन लेपयेत् ॥४.४९॥कण्टवेध्यं नागपत्रं रुद्ध्वा लघुपुटे पचेत् ।उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः सभस्मकैः ॥४.५०॥रुद्ध्वा गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् ।एवं शतपुटैः पाच्यं भस्म द्रावैश्च मर्दयेत् ॥४.५१॥तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् ।रुद्ध्वा गजपुटे पक्त्वा पुनर्लिप्त्वा पुटे पचेत् ॥४.५२॥इत्येवं तु त्रिधा कुर्यात्तारमायाति काञ्चनम् ।{वेधः: सिल्वेर्=> गोल्द्}लोहपात्रे द्रुते नागे चूर्णितं रसकं समम् ॥४.५३॥क्षिप्त्वा चुल्ल्यां पचेद्यामं चाल्यं पाषाणमुष्टिना ।यामान्ते हिङ्गुलं क्षेप्यं चूर्णितं नागतुल्यकम् ॥४.५४॥सुसूक्ष्मं मर्दयेत्तावत्दृढं पाषाणमुष्टिना ।पचेच्चण्डाग्निना तावद्दिनानामेकविंशतिम् ॥४.५५॥जायते कुङ्कुमाभं तु तारं तेनैव वेधयेत् ।चतुःषष्टितमांशेन दिव्यं भवति काञ्चनम् ॥४.५६॥{वेधः: सिल्वेर्=> गोल्द्}द्रावयेत्खर्परे नागं पादांशं तत्र निक्षिपेत् ।चिञ्चाश्वत्थत्वचः क्षारं लोहदर्व्या विमर्दयेत् ॥४.५७॥यामान्ते तत्समुद्धृत्य वज्रीक्षीरैर्दिनावधि ।मर्द्यं खल्वे समुद्धृत्य मृद्भाण्डान्तर्निरोधयेत् ॥४.५८॥पचेद्रात्रौ चतुर्यामं चुल्ल्यां चण्डाग्निना पुनः ।उद्धृत्य मर्दयेत्खल्वे वज्रीक्षीरैर्दिनावधि ॥४.५९॥रात्रौ पाच्यं दिवा मर्द्यं यावत्षण्मासमेव च ।यथा न पतते तस्मिञ्जलं धूलिस्तु रक्षयेत् ।सहस्रांशे धृते शरे वेधे दत्ते सुकाञ्चनम् ॥४.६०॥{वेधः: सिल्वेर्=> गोल्द्}शिलागन्धककर्पूरकुङ्कुमं मर्दयेत्समम् ।जम्बीरोत्थद्रवैर्यामं तत्समं नागपत्रकम् ॥४.६१॥लिप्त्वा लिप्त्वा पुटैः पच्याद्यावच्छष्टिपुटी भवेत् ॥४.६२॥तन्नागं विद्युदाभासं जायते तेन वेधयेत् ।चतुःषष्टितमांशेन तारमायाति काञ्चनम् ।{वेधः: सिल्वेर्=> गोल्द्}तीक्ष्णं शुल्बं नागवङ्गौ द्रुतं नागं तु तुत्थकम् ।चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥४.६३॥वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् ।सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥४.६४॥{तारारिष्ट}शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेत्हठात् ।तत्खोटं सिद्धचूर्णं च मर्द्यं पाच्यं च पूर्ववत् ॥४.६५॥तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् ।रुद्ध्वा गजपुटे पच्यादेवं वारत्रयं कृते ॥४.६६॥पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते ।{तारारिष्ट}वङ्गनागसमं कान्तमथवा ताम्रनागकम् ॥४.६७॥माक्षिकं शुल्बतीक्ष्णं वा शुल्बनागं सवङ्गकम् ।एते योगास्तु चत्वारः पृथक्चूर्णानि कारयेत् ॥४.६८॥पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च ।मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥४.६९॥पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् ।तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥४.७०॥{वेधः: सिल्वेर्=> गोल्द्}शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् ।नागचूर्णं च भागैकमन्धमूषागतं धमेत् ॥४.७१॥सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ।कर्तव्यं पूर्ववत्प्राज्ञैस्तामादाय विमर्दयेत् ॥४.७२॥मधुना याममात्रं तु तेन लेपं तु कारयेत् ।शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥४.७३॥रुद्ध्वा गजपुटे पच्याद्दिव्यं भवति काञ्चनम् ।{वेधः: सिल्वेर्=> गोल्द्}मूलपत्रफलं बिल्वाच्छाकवृक्षाच्च तत्त्रयम् ।शिग्रुमूलं रसं चैतन्मर्दयेत्किंशुकद्रवैः ॥४.७४॥अनेन नागचूर्णं तु मर्द्यं मर्द्यं पुटे पचेत् ।एवं शतपुटैः पक्वं जायते पद्मरागवत् ॥४.७५॥तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् ।रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥४.७६॥तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ।{वेधः: सिल्वेर्=> गोल्द्}राजावर्तं हिंगुलकं कंकुष्ठं च प्रवालकम् ॥४.७७॥प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा ।सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥४.७८॥अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् ।पूर्ववत्कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥४.७९॥तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् ।एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥४.८०॥{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् ।एतानि समभागानि द्विभागं रसकं भवेत् ॥४.८१॥मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् ।छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपञ्चकम् ॥४.८२॥दत्त्वा तु मर्दयेत्खल्वे तारारिष्टं तु लेपयेत् ।प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥४.८३॥अर्धकल्केन लेप्याथ पादकल्केन वा पुनः ।एवं पुटत्रयं देयं दिव्यं भवति काञ्चनम् ॥४.८४॥{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् ।सिद्धचूर्णेन संयुक्तं पुटान्तं पूर्ववत्कृतम् ॥४.८५॥तेनैव मधुनोक्तेन तारारिष्टं प्रलेपयेत् ।रुद्ध्वा रुद्ध्वा पुटे पच्यात्त्रिधा भवति काञ्चनम् ॥४.८६॥{वेधः: सिल्वेर्=> गोल्द्(wइथ्लेअद्)}गंधकं तालकं शुल्वं समहिंगुलपेषितम् ।मातुलुङ्गद्रवैः सार्धं नागपत्राणि तेन वै ॥४.८७॥लिप्त्वा रुद्ध्वा पुटे पच्यात्पुनस्तेनैव मर्दयेत् ।एवं षष्टिपुटैः पक्वो नागः स्यात्कुङ्कुमप्रभः ॥४.८८॥तेन तारस्य पत्राणि मधुलिप्तानि लेपयेत् ।रुद्ध्वा तीव्राग्निना धाम्यमेवं वारत्रये कृते ॥४.८९॥तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ।{वेधः: लेअद्=> गोल्द्}लाङ्गली गिरिकर्ण्यग्निः करवीरजमूलकम् ।सौवीरं टङ्कणं स्तन्यैः पिष्ट्वा पिण्डं प्रकल्पयेत् ॥४.९०॥चतुर्धा विमला शुद्धा तेष्वेका पलमात्रकम् ।द्विपलं पारदं शुद्धं शुद्धं हेमपलत्रयम् ॥४.९१॥यामैकं मर्दयेत्सर्वं पूर्वपिण्डोदरे क्षिपेत् ।तत्पिण्डं वज्रमूषायां रुद्ध्वा धाम्यं हठाग्निना ।तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ॥४.९२॥तन्नागेन शतांशेन द्रुतं शुल्बं तु वेधयेत् ।तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ।जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥४.९३॥{वेधः: सिल्वेर्=> गोल्द्}पारदं कुङ्कुमं गन्धं स्त्रीपुष्पेण दिनावधि ।मर्दयेत्तुल्यतुल्यांशं तेन कल्केन साधयेत् ॥४.९४॥शुद्धानि तारपत्राणि लिप्त्वा रुद्ध्वा धमेद्धठात् ।पत्रं कृत्वा पुनर्लेप्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥४.९५॥इत्येवं सप्तधा कुर्याल्लेपनं द्रावणं क्रमात् ।ततस्तस्यैव पत्राणि तेन कल्केन लेपयेत् ॥४.९६॥उद्घाटं द्रावयेत्तं च द्रुतमाज्ये विनिक्षिपेत् ।सप्ताहं धारयेत्तस्मिन्दिव्यं भवति काञ्चनम् ॥४.९७॥{वेधः: सिल्वेर्=> गोल्द्}कुङ्कुमं गन्धकं सूतं मञ्जिष्ठा तत्समं समम् ।शाकवृक्षफलद्रावैः सुपक्वैर्मर्दयेद्दिनम् ॥४.९८॥तेन तारस्य पत्राणि प्रलिप्तानि विशोषयेत् ।आवर्त्य ढालयेत्तस्मिंस्तेन कल्केन भावितम् ॥४.९९॥एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।तत्तारं जायते स्वर्णं सम्यग्द्वादशवर्णकम् ॥४.१००॥{वेधः: सिल्वेर्=> गोल्द्}पारदं कान्तपाषाणं गन्धकं रक्तचन्दनम् ।रुदन्तीद्रवसंयुक्तं दिनमेकं विमर्दयेत् ॥४.१०१॥तेन तारस्य पत्राणि प्रविलिप्तानि शोषयेत् ।धामयेदन्धमूषायामेवं कुर्यात्त्रिसप्तधा ॥४.१०२॥शाकवृक्षस्य मूलं तु भाव्यं तत्पत्रजैर्द्रवैः ।रक्ताश्वमारजैश्चैव पृथग्भाव्यं त्रिधा त्रिधा ॥४.१०३॥अनेन पूर्वतारस्य द्रुतस्य प्रतिवापनम् ।दापयेत्सप्तवारं तु दिव्यं भवति काञ्चनम् ॥४.१०४॥{सिद्धचूर्ण}गन्धकं गन्धमूली च रविदुग्धेन मर्दयेत् ।मृण्मये संपुटे रुद्ध्वा मासं भूमौ विनिक्षिपेत् ॥४.१०५॥उद्धृत्य तेन तारस्य पत्रलेपं तु कारयेत् ।पूर्वतारे द्रुते देयः प्रतिवापः पुनः पुनः ॥४.१०६॥सप्तविंशतिमे वापे तत्तारं काञ्चनं भवेत् ।{सिद्धचूर्ण}शुद्धसूतसमं गन्धं खल्वे मर्द्यं दिनावधि ॥४.१०७॥जायते कज्जली श्रेष्ठा सर्वकार्यकरी शुभा ।कज्जली टङ्कणं ताप्यं प्रत्येकं कर्षमात्रकम् ॥४.१०८॥कर्षद्वयं शुद्धगन्धं यामं सर्वं विचूर्णयेत् ।सिद्धचूर्णमिदं ख्यातं भवेत्पादादिकं पलम् ॥४.१०९॥यत्र यत्र मिलत्येतत्तत्र चूर्णं पलं पलम् ।योजयेल्लोहवादेषु तदिदानीं निगद्यते ॥४.११०॥{वेध, रञ्जनः: सिल्वेर्=> गोल्द्}ताम्रतीक्ष्णारकान्तानां चूर्णं एकस्य चाहरेत् ।यथा लोहे पलैकं तु सिद्धचूर्णेन संयुतम् ॥४.१११॥वज्रमूषागतं रुद्ध्वा ध्मातं खोटं भवेत्तु तत् ।तुल्यैर्भूनागजीवैर्वा गन्धकेन समेन वा ॥४.११२॥मर्दयेन्मातुलुङ्गाम्लैः पूर्वखोटं दिनावधि ।तत्पिण्डं पक्वमूषायां रुद्ध्वा गजपुटे पचेत् ॥४.११३॥आरण्योपलकैरेवं पुटं दद्याच्चतुर्दश ।इन्द्रगोपकसंकाशं जायते पूजयेच्छिवम् ॥४.११४॥क्षौद्रयुक्तेन तेनैव तारपत्राणि लेपयेत् ।रुद्ध्वा धमेत्पुटेद्वाथ एवं वारत्रये कृते ॥४.११५॥जायते कनकं दिव्यं सिद्धोऽयं ताररञ्जकः ।इत्येवं सर्वयोगानामत्रत्यानां पृथक्पृथक् ॥४.११६॥सिद्धचूर्णेन संयुक्तं कर्तव्यं विधिना बुधैः ।{वेधः: सिल्वेर्=> गोल्द्}शुल्बं नागं समं धाम्यं समं वा शुल्ववङ्गकम् ॥४.११७॥आवर्तते तु तच्चूर्णं सिद्धचूर्णेन पूर्ववत् ।शुल्बं नागं वङ्गघोषं यथेष्टैकं विचूर्णयेत् ॥४.११८॥तत्समं तीक्ष्णचूर्णं च त्वन्धमूषागतं धमेत् ।एतत्खोटं विचूर्ण्याथ सिद्धचूर्णेन संयुतम् ॥४.११९॥पूर्ववत्क्रमयोगेन तारमायाति काञ्चनम् ।{??}शुल्बस्य भागत्रितयमेकैकं नागवङ्गयोः ॥४.१२०॥समावर्त्य विचूर्ण्याथ सिद्धचूर्णेन पूर्ववत् ।नागमेकं द्वयं शुल्बं तच्छुल्वेनैव पन्नगम् ॥४.१२१॥रुद्ध्वा ध्मातं च तच्चूर्ण्य सिद्धचूर्णेन पूर्ववत् ।सिद्धचूर्णत्रयो भागा भागैकं हेमगैरिकम् ॥४.१२२॥रुद्ध्वा ध्मातं पुनश्चूर्ण्य सिद्धचूर्णेन पूर्ववत् ।{वेधः: सिल्वेर्=> गोल्द्}गन्धकेन हतं शुल्वं माक्षिकं च समं समम् ॥४.१२३॥हंसपाच्चित्रकद्रावैर्दिनमेकं विमर्दयेत् ।तेनैव तारपत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ॥४.१२४॥तं उद्धृत्य धमेत्पश्चात्कृत्वा पत्राणि लेपयेत् ।पूर्वकल्केन रुद्ध्वाथ पुटं दत्त्वा समुद्धरेत् ॥४.१२५॥इत्येवं दशधा कुर्यात्तारमायाति काञ्चनम् ।{सिल्वेरः: रञ्जन}तीक्ष्णं द्वयं त्रयं घोषमारं भागचतुष्टयम् ॥४.१२६॥नवभागं ताम्रचूर्णं नागं च नवभागकम् ।अंधमूषागतं ध्मातं तत्खोटं सूक्ष्मचूर्णितम् ॥४.१२७॥सिद्धचूर्णेन संयुक्तं पूर्ववत्ताररञ्जनम् ।{??}मृतनागसमं तुत्थं द्वाभ्यां तुल्यं च माक्षिकम् ॥४.१२८॥केवलं मृतनागं वा सिद्धचूर्णेन पूर्ववत् ।{वेधः: सिल्वेर्=> गोल्द्}नागाभ्रं वाथ वङ्गाभ्रमन्धयित्वा धमेद्धठात् ॥४.१२९॥तत्खोटं सूक्ष्मचूर्णं तु सिद्धचूर्णेन संयुतम् ।पूर्ववत्क्रमयोगेन तारमायाति काञ्चनम् ॥४.१३०॥{वेधः: सिल्वेर्=> गोल्द्}तीक्ष्णं शुल्बं नागवङ्गं मृतं नागं तु तुत्थकम् ।चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥४.१३१॥वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् ।सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥४.१३२॥{तारारिष्टः: प्रोदुच्तिओन्}शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेद्धठात् ।तत्खोटं सिद्धचूर्णं तु मर्द्यं पाच्यं च पूर्ववत् ॥४.१३३॥तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् ।रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥४.१३४॥पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते ।{तारारिष्टः: प्रोदुच्तिओन्}वङ्गं नागं समं कान्तमथवा ताम्रनागकम् ॥४.१३५॥माक्षिकं शुल्बतीक्ष्णं च शुल्वं नागं सवङ्गकम् ।एते योगास्तु चत्वारः पृथक्चूर्णानि कारयेत् ॥४.१३६॥पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च ।मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥४.१३७॥{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् ।तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥४.१३८॥{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् ।नागचूर्णं तु भागैकमन्धमूषागतं धमेत् ॥४.१३९॥सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ।कर्तव्यं पूर्ववत्प्राज्ञैस्तमादाय विमर्दयेत् ॥४.१४०॥मधुना याममात्रं तु तेन लेपं तु कारयेत् ।शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥४.१४१॥रुद्ध्वा गजपुटे पक्त्वा दिव्यं भवति काञ्चनम् ।{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}राजावर्तं हिङ्गुलकं कंकुष्ठं च प्रवालकम् ॥४.१४२॥प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा ।सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥४.१४३॥अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् ।पूर्ववत्कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥४.१४४॥तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् ।एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥४.१४५॥{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् ।एतानि समभागानि द्विभागो रसको भवेत् ॥४.१४६॥मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् ।छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपंचकम् ॥४.१४७॥दत्त्वा तु मर्दयेत्खल्वे तारारिष्टं तु लेपयेत् ।प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥४.१४८॥अर्धकल्केन लेप्योऽथ पादकल्केन वै पुनः ।एवं पुटत्रये दत्ते दिव्यं भवति कांचनम् ॥४.१४९॥{वेधः: सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् ।सिद्धचूर्णेन संयुक्तं पुटान्ते पूर्ववत्कृतम् ॥४.१५०॥तेनैव मधुनाक्तेन तारारिष्टं प्रलेपयेत् ।रुद्ध्वा रुद्ध्वा पुटैः पच्यात्त्रिधा भवति काञ्चनम् ॥४.१५१॥{वेधः: सिल्वेर्=> गोल्द्(wइथ्चोप्पेर्)}शुल्बपत्राणि तप्तानि आरनाले विनिक्षिपेत् ।पुनः पाच्यं पुनः क्षेप्यं यावत्तत्रैव शीर्यते ॥४.१५२॥तत्पत्रमारनालस्थं क्षालयेदारनालकैः ।पादांशं टङ्कणं दत्त्वा याममम्लेन पेषयेत् ॥४.१५३॥रुद्ध्वा लघुपुटैः पच्यादेवं शतपुटैः पचेत् ।मध्वाज्यं टङ्कणः पश्चात्पच्याद्रुद्ध्वा धमेद्धठात् ॥४.१५४॥तच्छुल्बं कालिकाहीनं जायते शुकतुण्डवत् ।तच्छुल्बं त्रिगुणं तारे निर्वाप्यं काञ्चनं भवेत् ॥४.१५५॥{वेधः: सिल्वेर्=> गोल्द्}शिग्रुपत्रसमैः पत्रैर्मूलैः प्रवालसंनिभैः ।ज्ञेया दिव्यौषधी सिद्धा नाम्ना सा कीटमारिणी ॥४.१५६॥तद्द्रवैः पारदो मर्द्यो यावत्सप्तदिनावधि ।तेनैव तारपत्राणि प्रलिप्तानि विशोषयेत् ॥४.१५७॥रुद्ध्वा गजपुटे पच्यादेवं कुर्यात्त्रिसप्तधा ।जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ॥४.१५८॥{वेधः: सिल्वेर्=> गोल्द्}शुद्धसूतसमा राजी सूतपादं च गन्धकम् ।मृद्भाण्डे पाचयेच्चुल्ल्यां धत्तूरद्रवसंयुतम् ॥४.१५९॥वासाकाष्ठेन तन्मर्द्यं द्रवो देयः पुनः पुनः ।एवं दिनत्रयं कुर्याज्जायते भस्मसूतकः ॥४.१६०॥तन्मर्द्यं मातुलुङ्गाम्लैर्दिनमेकं तु तेन वै ।चतुःषष्टितमांशेन तारपत्राणि लेपयेत् ॥४.१६१॥रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ।तत्तारं जायते स्वर्णं महादेवेन भाषितम् ॥४.१६२॥तारस्य रञ्जनमिदं सुखभोगहेतुं कृत्वा विवेकमतिभिर्भुवने जनानाम् ।देयं सदा सकलकीर्तिशुभाप्तिसिद्ध्यै नो चेद्वने वसतिरेव परा हि धन्या ॥४.१६३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP