संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१ Translation - भाषांतर येन सृष्टं विदा चिदात्मस्वमरुत्तेजोजलोर्वीगणाः सत्संविच्छिवशक्तिभैरवकलाः श्रीकण्ठपञ्चाननः ।ईशो रुद्रमुरारिधातृविबुधाश्चन्द्रार्कतारागणाः सोऽयं पातु चराचरं जगदिदं निर्नामनामाधिपः ॥१.१॥सूते सूतवरो वरं च कनकं शब्दात्परं स्पर्शनाद्धूमाद्विध्यति तत्क्षणादघहरं संख्यां सखर्वांशतः ।संख्यां अर्बुदकोटिलक्षमयुतं युक्त्या सहस्रं शतं दत्ते खेगतिमक्षयं शिवपदं तस्मै परस्मै नमः ॥१.२॥नत्वा श्रीपार्वतीं देवीं भैरवं सिद्धसंततिम् ।रसरत्नाकरं वक्ष्ये देहे लोहे शिवंकरम् ॥१.३॥{रसनामानि}शिवबीजः सूतराजः पारदश्च रसेन्द्रकः ।एतानि रसनामानि तथान्यानि शिवे यथा ॥१.४॥दत्ते शिवपदं सिद्धिं साधकानां महोत्तमाम् ।शिवबीजं तदाख्यातं सर्वसिद्धिप्रदायकम् ॥१.५॥{मेर्चुर्यः: निरुक्ति}यतः परशिवात्सूतस्तेन सूतः स चोदितः ।संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः ॥१.६॥रसीभवन्ति लोहानि देहा अपि सुसेवनात् ।रसेन्द्रस्तेन विख्यातो द्रवत्वाच्च रसः स्मृतः ॥१.७॥रसशास्त्रेषु सर्वेषु शम्भुना सूचितं पुरा ।रसो रसायनं दिव्यं सूचनान्नैव बुध्यते ॥१.८॥सिद्धैः शिवमुखात्प्राप्तं तेषां सिद्धिस्तु साधनात् ।सम्प्रदायक्रमो युक्तिस्तैः स्वशास्त्रेषु गोपिता ॥१.९॥मयापि तन्मुखात्प्राप्तं साधितं बहुधा ततः ।रसशास्त्राणि सर्वाणि समालोक्य यथाक्रमम् ॥१.१०॥साधकानां हितार्थाय प्रकटीक्रियतेऽधुना ।न क्रमेण विना शास्त्रं न शास्त्रेण विना क्रमः ॥१.११॥शास्त्रं क्रमयुतं ज्ञात्वा यः करोति स सिद्धिभाक् ।{आचार्य}आचार्यो ज्ञानवान्दक्षो रसशास्त्रविशारदः ॥१.१२॥मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः ।देवीभक्तः सदा धीरो देवतायागतत्परः ॥१.१३॥सर्वाम्नायविशेषज्ञः कुशलो रसकर्मणि ।एवं लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ॥१.१४॥{शिष्य}गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः ।निरालसाः स्वधर्मज्ञाः सदाज्ञापरिपालकाः ॥१.१५॥दम्भमात्सर्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः ।अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः ॥१.१६॥इत्येवं लक्षणैर्युक्ताः शिष्याः स्यू रससिद्धये ।{अनुचराः}सहायाः सोद्यमाः सर्वे यथा शिष्यास्ततोऽधिकाः ॥१.१७॥कुलीनाः स्वामिभक्ताश्च कर्तव्या रसकर्मणि ।{बदल्छेमिस्त्स्}नास्तिका ये दुराचाराश्चुम्बका गुरुतल्पगाः ॥१.१८॥विद्यां गृहीतुमिच्छन्ति चौर्येण च बलाच्छलात् ।न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् ॥१.१९॥कुर्वन्ति यदि मोहेन नाशयन्ति स्वकं धनम् ।इह लोके सुखं नास्ति परलोके तथैव च ॥१.२०॥तस्माद्भक्तिबलादेव संतुष्यति यथा गुरुः ।तथा शिष्येण सा ग्राह्या रसविद्यात्मसिद्धये ॥१.२१॥हस्तमस्तकयोगेन वरं लब्ध्वा सुसाधयेत् ।{रसशाला}आतङ्करहिते देशे धर्मराज्ये मनोरमे ॥१.२२॥उमामहेश्वरोपेते समृद्धे नगरे शुभे ।कर्तव्यं साधनं तत्र रसराजस्य धीमता ॥१.२३॥अत्यन्तोपवने रम्ये चतुर्द्वारोपशोभिते ।तत्र शाला प्रकर्तव्या सुविस्तीर्णा मनोरमा ॥१.२४॥सम्यग्वातायनोपेता दिव्यचित्रैर्विचित्रिता ।{रसमण्डप}तत्समीपे समे दीर्घे कर्तव्यं रसमण्डपम् ॥१.२५॥अतिगुप्तं सुविस्तीर्णकपाटार्गलभूषितम् ।ध्वजछत्त्रवितानाढ्यं पुष्पमालाविलम्बितम् ॥१.२६॥भेरीकाकलघण्टादिशृङ्गिनादविनादितम् ।भूः समा तत्र कर्तव्या सुदृढा दर्पणोपमा ॥१.२७॥तन्मध्ये वेदिका रम्या कर्तव्या लक्षणान्विता ।{रसलिङ्ग}निष्कत्रयं हेमपत्त्रं रसेन्द्रो नवनिष्ककम् ॥१.२८॥अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत् ।दोलायन्त्रे सारनाले जम्बीरस्थं दिनं पचेत् ॥१.२९॥{रसलिङ्गः: wओर्शिप्}तल्लिङ्गं पूजयेत्तत्र सुशुभैरुपचारकैः ।लिङ्गकोटिसहस्रस्य यत्फलं सम्यगर्चनात् ॥१.३०॥तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ।ब्रह्महत्यासहस्राणि गोहत्याप्रयुतान्यपि ॥१.३१॥तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् ।स्पर्शनात्प्राप्यते मुक्तिरिति सत्यं शिवोदितम् ।वाङ्मायां श्रीमद्घोरेण मन्त्रराजेन वार्चयेत् ॥१.३२॥अष्टादशभुजं शुभ्रं पञ्चवक्त्रं त्रिलोचनम् ॥१.३३॥प्रेतारूढं नीलकण्ठं रसलिङ्गं विचिन्तयेत् ।तस्योत्सङ्गे महादेवीं एकवक्त्रां चतुर्भुजाम् ॥१.३४॥अक्षमालाङ्कुशं दक्षे वामे पाशाभयं शुभम् ।दधन्तीं तप्तहेमाभां पीतवस्त्रां विचिन्तयेत् ॥१.३५॥वाङ्माया श्री कामराजशक्तिर्बीजरसाङ्कुशा ।यै नमो द्वादशैतेषां कामविद्या रसाङ्कुशा ॥१.३६॥अनया पूजयेद्देवीं गन्धपुष्पाक्षतादिभिः ।नन्दिभृङ्गिमहाकालान्पूजयेत्पूर्वदिक्क्रमात् ॥१.३७॥पूजयेन्नाममन्त्रैस्तु प्रणवादिनमोऽन्तकैः ।एवं नित्यार्चनं तत्र कर्तव्यं रससिद्धये ॥१.३८॥{रसदीक्षा}रसदीक्षा शिवेनोक्ता दातव्या साधकाय वै ।यथोक्तेन विधानेन गुरुणा मुदितात्मना ॥१.३९॥सुमुहूर्ते सुनक्षत्रे चन्द्रताराबलान्विते ।कलशं तोयसम्पूर्णं हेमरत्नफलैर्युतम् ॥१.४०॥स्थापयेद्रसलिङ्गाग्रे दिव्यवस्त्रेण वेष्टितम् ।गन्धपुष्पाक्षतधूपदीपैर्नैवेद्यतोऽर्चयेत् ॥१.४१॥पूजान्ते हवनं कुर्याद्योनिकुण्डे सुलक्षणे ।तिलाज्यैः पायसैः पुष्पैरष्टाधिकशतैः पृथक् ॥१.४२॥अघोरेण रसाङ्कुश्या होमान्ते शिष्यमावहेत् ।काकिनीशक्तिसंयुक्तं रससिद्धिपरायणम् ॥१.४३॥{काकिनी (देफ़्.)}यस्याः संकुचिताः केशाः श्यामा या पद्मलोचना ।सुरूपा तरुणी चित्रा विस्तीर्णजघना शुभा ॥१.४४॥संकीर्णरदना पीनस्तनभारेण चानता ।चुम्बनालिङ्गनस्पर्शकोमला मृदुभाषिणी ॥१.४५॥अश्वत्थपत्त्रसदृशयोनिदेशेन शोभिता ।कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥१.४६॥रसबन्धे प्रयोगे च उत्तमा रससाधने ।{काकिणीः: सुब्स्तितुते}तदभावे सुरूपा तु या काचित्तरुणाङ्गना ॥१.४७॥तस्या देयं त्रिसप्ताहं गन्धकं घृतसंयुतम् ।कर्षैकैकं प्रभाते तु सा भवेत्काकिनीसमा ॥१.४८॥{रसदीक्षा (चोन्त्.)}एवं शक्तियुतो योऽसौ दीक्षयेत्तं गुरूत्तमः ।सुस्नातं अभिषिञ्चेत विमलैः कलशोदकैः ॥१.४९॥अघोरमङ्कुशीं विद्यां दद्याच्छिष्याय सद्गुरुः ।यथाशक्त्याथ शिष्येण दातव्या गुरुदक्षिणा ॥१.५०॥अथाज्ञया गुरोर्मन्त्रं लक्षं लक्षं पृथग्जपेत् ।दशांशेन हुनेत्कुण्डे त्रिकोणे हस्तमात्रके ॥१.५१॥कमलं चतुरस्रं च चतुर्द्वारैः सुशोभितम् ।जातिपुष्पं त्रिमध्वक्तं पूर्णान्ते कन्यकार्चनम् ।कृत्वाथ प्रविशेच्छालां शुभां लिप्तां सुवेदिकाम् ॥१.५२॥षट्कोणं मण्डलं तत्र सिन्दूरेण द्विहस्तकम् ।वेदिकायां लिखेत्सम्यक्तद्बहिश्चाष्टपत्त्रकम् ॥१.५३॥कमलं चतुरस्रं च चतुर्द्वारेषु शोभितम् ।कर्णिकायां न्यसेत्खल्वं लोहजं स्वर्णरेखितम् ॥१.५४॥तन्मध्ये रसराजं तु पलानां शतमात्रकम् ।पञ्चाशत्पञ्चविंशं वा पूजयेद्रसलिङ्गवत् ॥१.५५॥वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् ।भूनागं शक्तयश्चैताः षट्सु पत्त्रेषु पूजयेत् ॥१.५६॥{उपरसाः}गन्धतालककासीसशिलाकङ्कुष्ठभूखगम् ।राजावर्तो गैरिकं च ख्याता उपरसा अमी ॥१.५७॥{उपरसः: wओर्शिप्}पूज्या अष्टदलेष्वेते पूर्वादीशान्तगाः क्रमात् ।{महारसाः}रसकं विमला ताप्यं चपला तुत्थमञ्जनम् ॥१.५८॥हिङ्गुलं सस्यकं चैव ख्याता एते महारसाः ।पूर्वादीशानपर्यन्तं पत्त्राग्रेषु प्रपूजयेत् ॥१.५९॥पूर्वद्वारे स्वर्णरौप्ये दक्षिणे ताम्रसीसके ।पश्चिमे वङ्गकान्तौ च उत्तरे तीक्ष्णमुण्डके ॥१.६०॥सर्वमेतमघोरेण पूजयेदङ्कुशान्वितम् ।{आउस्स्तत्तुन्ग्देसाल्छेमिस्तेन्}विडकाञ्जिकयन्त्राणि क्षारमृल्लवणानि च ॥१.६१॥कोष्ठी मूषा वङ्कनाली तुषाङ्गारवनोपलाः ।भस्त्रिका दंशकानेका शिला खल्वोऽप्युदूखलम् ॥१.६२॥स्वर्णकारोपकरणं समस्ततुलनानि च ।मृत्काष्ठताम्रलोहाद्यपात्राणि विविधानि च ॥१.६३॥दिव्यौषधानि वर्गाश्च रञ्जकं स्नेहनानि च ।एतानि द्वारबाह्ये तु मूलमन्त्रेण पूजयेत् ॥१.६४॥वाङ्मायां हें ततः क्ष्में च क्ष्मश्च पञ्चाक्षरो मनुः ।अनेन मूलमन्त्रेण भैरवं तत्र पूजयेत् ॥१.६५॥{रससिद्धस्}सर्वेषां रससिद्धानां नामानि कीर्तयेत्तदा ।व्यालाचार्यश्चन्द्रसेनः सुबुद्धिर्नरवाहनः ॥१.६६॥नागार्जुनो रत्नघोषः सुरानन्दो यशोधरः ।इन्द्रद्युम्नश्च माण्डव्यश्चर्पटिः शूरसेनकः ॥१.६७॥वाडबो नागबुद्धिश्च खण्डः कापालिको हरः ।कामली तात्त्विकः शम्भुर्लोको लम्पटशारदौ ॥१.६८॥बाणासुरो मुनिश्रेष्ठो गोविन्दः कपिलो बलिः ।एते सर्वे तु भूपेन्द्रा रससिद्धा महाबलाः ॥१.६९॥चरन्ति सर्वलोकेषु निर्जरामरणाः सदा ।सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ॥१.७०॥वन्द्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसायनम् ।हर्षयेद्द्विजदेवांश्च तर्पयेदिष्टदेवताम् ॥१.७१॥कुमारीयोगिनीयोगिमुनिमायिकसाधकान् ।तर्पयेत्पूजयेद्भक्त्या निजशक्त्यनुसारतः ॥१.७२॥इत्येवं सर्वसम्भारयुक्तं कुर्याद्रसोत्सवम् ।सर्वविघ्नप्रशान्त्यर्थं सर्वेप्सितफलप्रदम् ॥१.७३॥अन्यथा चेद्विमूढात्मा मन्त्रदीक्षाक्रमं विना ।कर्तुमिच्छति सूतस्य साधनं गुरुवर्जितः ॥१.७४॥नासौ सिद्धिमवाप्नोति यत्नकोटिशतैरपि ।तस्मात्सर्वप्रयत्नेन शास्त्रोक्तां कारयेत्क्रियाम् ॥१.७५॥सम्यक्साधनसोद्यमा गुरुयुता राजाज्ञयालंकृता नानाकर्मणि कोविदा रसपरास्त्वाढ्या जनैश्चार्थिताः ।मात्रायन्त्रसुपाककर्मकुशलाः सर्वौषधीकोविदास्तेषां सिध्यति नान्यथा विधिबलात्श्री पारदः पारदः ॥१.७६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP