संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१८ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१८ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१८ Translation - भाषांतर द्रुतिरिह परिपाच्या जारयेत्पारदेन्द्रे मुनिगणितं अथासौ सारितः कोटिवेधी ।अथ पविकृतबीजं रत्नगर्भं द्रुतं वा चरति यदि रसेन्द्रः स्यात्तदा शब्दवेधी ॥१८.१॥{द्रुतीनां रसेन सह मेलापनं (१)}पाठा वंध्या तालमूली नीलीसिन्दूरचित्रका ।पद्मकन्दं क्षीरकन्दं समं नागबला तथा ॥१८.२॥एतेषां ग्राहयेत्स्वच्छं रसं वस्त्रेण गालितम् ।द्रुतिं समुखसूतं च औषधीनां तथा द्रवम् ॥१८.३॥सर्वं क्षिप्त्वा घोषपात्रे शोषयेदातपे खरे ।द्रवः पुनः पुनर्देयो यावद्यामत्रयं भवेत् ॥१८.४॥मिलन्ति द्रुतयः सर्वाः पारदे नात्र संशयः ॥१८.५॥{सर्वद्रुतिमेलापन (२)}वज्रकंदामृता गुंजा द्रवैर्मर्द्यं च पूर्ववत् ।मिलन्ति द्रुतयः सर्वा रसराजे न संशयः ॥१८.६॥{सर्वद्रुतिमेलापन (३)}कृष्णागुरु सिता हिङ्गु कस्तूरीब्रह्मबीजकम् ।तुल्यं चूर्णं दशांशेन सूते द्रुतियुते क्षिपेत् ॥१८.७॥मिलन्ति द्रुतयः सर्वा अनेनैव न संशयः ॥१८.८॥{सर्वद्रुतिमेलापन (४)}कृष्णागुरु श्वेतहिंगु सिता लशुननाभयः ।पूर्ववन्मर्दनेनैव मिलन्ति द्रुतयो रसे ॥१८.९॥{सर्वद्रुतिमेलापन (५)}अश्वलालार्द्रकं निम्बपत्राणि लशुनं समम् ।टंकणेन समायुक्तं पूर्ववद्द्रुतिमेलकम् ॥१८.१०॥{सर्वद्रुतिमेलापन (६)}माक्षिकं सविषं गुंजा टंकणं स्त्रीरजः समम् ।स्त्रीस्तन्यं संयुतं पिष्ट्वा तेन मूषां प्रलेपयेत् ॥१८.११॥द्रुतियुक्तं रसं तत्र क्षिप्त्वा रुद्ध्वा दिनावधि ।स्वेदयेत्करीषाग्निस्थं त्रिदिनं वा तुषाग्निना ।मिलन्ति द्रुतयः सर्वा मीलिता जारयेत्ततः ॥१८.१२॥द्रुतयो मीलिता येन मूषां तेनैव लेपयेत् ।तथा च जीवयोगेन ख्यातेऽयं लिप्तमूषिका ॥१८.५७॥{चोप्पेर्=> गोल्द्}हेमकांतद्रुतिं तुल्यां मेलयेत्समुखे रसे ।षोडशांशं रसात्सर्वं लिप्तमूषान्धितं पुटेत् ॥१८.५८॥सतुषेऽथ करीषाग्नौ यावत्सूतावशेषितम् ।पुनश्च मेलयेत्तद्वत्सर्ववज्जारयेत्ततः ॥१८.५९॥एवं समां द्रुतिं सूते जारयेत्क्रमयोगतः ।ततस्तं पक्वबीजेन सारयेज्जारणात्रयम् ॥१८.६०॥मूषायन्त्रे तु तज्जार्यं मुखं बद्ध्वाथ बन्धयेत् ।तारारे ताम्रसंयुक्ते शतांशेन नियोजयेत् ॥१८.६१॥क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥१८.६२॥{चोप्पेर्=> गोल्द्}हेमाभ्रशुल्बद्रुतयो द्विगुणं जारयेद्रसे ।पूर्ववत्क्रमयोगेन ततो रंजकबीजकम् ॥१८.६३॥मूषायन्त्रे समं जार्यं सारयेत्सारणात्रयम् ।मुखं बद्ध्वा रसं बद्ध्वा सहस्रांशेन वेधयेत् ।तारारं ताम्रसंयुक्तं दिव्यं भवति कांचनम् ॥१८.६४॥{=> गोल्द्}कांतशुल्बसुवर्णानां द्रुतयः समुखे रसे ।जारयेत्पूर्वयोगेन प्रत्येकं द्विगुणं क्रमात् ॥१८.६५॥ततो रंजकबीजानि द्विगुणं तस्य जारयेत् ।अथ बीजैस्त्रिधा सार्यं जारयेत्सारयेत्पुनः ॥१८.६६॥जारितोऽथ मुखं बद्ध्वा रसं बद्ध्वाथ वेधयेत् ।अयुतांशेन तेनैव पूर्ववत्कांचनं भवेत् ॥१८.६७॥{लक्षवेधी रसः (द्रुतिजारणेन)}कांतहेमाभ्रद्रुतयो यावत्पञ्चगुणं क्रमात् ।जारयेत्पूर्वयोगेन ततो रंजकबीजकम् ॥१८.६८॥जार्यं पञ्चगुणं तस्मिन्मूषायन्त्रे प्रयत्नतः ।सारयेत्पक्वबीजेन त्रिधा तं जारयेत्पुनः ॥१८.६९॥पुनः सार्यं पुनर्जार्यं एवं वारत्रये कृते ।मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥१८.७०॥{दशलक्षवेधी रसः}आ रत्नहेमद्रुतयः षड्गुणं जार्यते रसे ।षड्गुणं रंजकं बीजं ततस्तस्यैव जारयेत् ॥१८.७१॥त्रिधा सार्यं पुनर्जार्यं एवं वारचतुष्टयम् ।मुखं बद्ध्वा रसं बद्ध्वा नागतैलेन वेधयेत् ।दशलक्षांशयोगेन दिव्यं भवति कांचनम् ॥१८.७२॥{मेर्चुर्यः: वेधिनः: १०० तो कोटि}प्रत्येकं सूततुल्यांशमभ्रहेमद्रुतिद्वयम् ।मेलितं पूर्वयोगेन जारयेत्तत्क्रमेण वै ॥१८.७३॥शतवेधी भवेत्सूतो द्विधा सहस्रवेधकः ।त्रिगुणेऽयुतवेधी स्याल्लक्षवेधी चतुर्गुणे ॥१८.७४॥सम्यक्पञ्चगुणे जीर्णे दशलक्षाणि विध्यति ।एवं रसगुणे जीर्णे कोटिवेधी भवेद्रसः ॥१८.७५॥ततः सप्तगुणं तस्य जार्यं रंजकबीजकम् ।त्रिधाथ पक्वबीजेन सारयेत्पूर्ववत्क्रमात् ॥१८.७६॥जारणा सारणा कार्या पुनः सारणजारणे ।अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥१८.७७॥मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेत्तु सः ।तारे च ताम्रसंयुक्ते क्रामणान्तं नियोजयेत् ॥१८.७८॥{मेर्चुर्यः: बन्धन (?)}श्वेताभ्रतारघोषारद्रुतयः समुखे रसे ।जार्याः समा यथापूर्वं तारबीजेन सारयेत् ।त्रिधा तं पूर्ववज्जार्यं मुखं बद्ध्वाथ बन्धयेत् ॥१८.७९॥{तिन्=> सिल्वेर्}कांततारारद्रुतयो द्विगुणाः समुखे रसे ।जारयेत्त्रिगुणा यावत्पक्वबीजेन चाथवा ॥१८.८०॥सारितं जारितं कुर्यात्पूर्ववच्छृङ्खलात्रयम् ।मुखं बद्ध्वा रसं बद्ध्वा अयुतांशेन वेधयेत् ॥१८.८१॥द्रुते बंगे तु तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥१८.८२॥{तिनः: स्तम्भन}तारतीक्ष्णघोषजाता द्रुतयः समुखे रसे ।कुर्यात्चतुर्गुणा यावत्तारबीजेन सारयेत् ॥१८.८३॥चतस्रः शृङ्खला यावन्मुखं बद्ध्वाथ बन्धयेत् ।अनेन लक्षभागेन बंगस्तम्भो भवेद्दृढः ॥१८.८४॥{मेर्चुर्यः: कोटिवेधी}तारा कांतद्रुतयो जार्या सप्तगुणा रसे ।तत्सार्यं तारबीजेन सप्तशृंखलिका क्रमात् ॥१८.८५॥मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ॥१८.८६॥{सप्तशृङ्खला}समुखस्य रसेन्द्रस्य धान्याभ्रं पूर्वसंस्कृतम् ।चारयेज्जारयेत्तद्वत्समांशं चाथ तस्य वै ॥१८.८७॥षड्गुणं द्वंद्विते व्योम्नि सर्वं जार्यं च पूर्ववत् ।ततो माक्षिकसत्वं च पादांशं तस्य गर्भतः ॥१८.८८॥द्रावयेज्जारयेत्तद्वत्तावद्रसकसत्वकम् ।पूर्ववद्द्रावितं जार्यं मूषायन्त्रे तु तत्क्रमात् ॥१८.८९॥गर्भद्रावणकं बीजं द्रावितं जारयेत्पुनः ।भवेच्चतुर्गुणं यावत्पश्चादभ्रसुवर्णयोः ॥१८.९०॥द्रुतिं समसमां सूते द्वंद्वयित्वाथ जारयेत् ।पूर्ववत्क्रमयोगेन कांतहेम्नो द्रुतिः पुनः ॥१८.९१॥प्रत्येकं जारयेत्तुल्यं स्वर्णतीक्ष्णद्रुतिस्तथा ।द्वंद्वितां जारयेत्तुल्यां ततो रंजकबीजकम् ॥१८.९२॥पूर्ववत्क्रमयोगेन जार्ये तस्मिन्चतुर्गुणम् ।ततस्तं पक्वबीजेन सारयेत्सारणात्रयम् ॥१८.९३॥तदेव जारितं कुर्यान्मूषायन्त्रे तु पूर्ववत् ।इत्येवं सप्तवाराणि सारितं तत्त्रिधा त्रिधा ॥१८.९४॥पूर्ववज्जारणा कार्या ख्यातेयं सप्तशृङ्खला ।सारणा यत्र यत्रोक्ता विज्ञेया वार्तिकैः पुनः ॥१८.९५॥मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ।क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥१८.९६॥कर्माष्टादशकेनैव क्रमाद्वेधः प्रकाशितः ।समुखं निर्मुखं बंधं रसबंधं तथेरितम् ॥१८.९७॥गोपितं शंभुना सिद्धैः सूचितं न प्रकाशितम् ।वार्तिकानां हितार्थाय मया तत्प्रकटीकृतम् ॥१८.९८॥{वज्रबीज}वज्रभस्म शुद्धहेम व्योमसत्वमयोरजः ।चत्वारि समभागानि नागचूर्णं चतुःसमम् ॥१८.९९॥द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।एकीभूते समुद्धृत्य मूषायां प्रकटं धमेत् ॥१८.१००॥माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ।हेमवज्रावशेषं तु यावत्स्यादुद्धरेत्ततः ॥१८.१०१॥तस्मिन्नागं व्योमसत्त्वं अयश्चूर्णं च पूर्ववत् ।निक्षिपेद्द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥१८.१०२॥मिश्रीभूतं समुद्धृत्य मूषायां प्रकटं धमेत् ।स्वर्णवज्रावशेषं तद्यावज्जातं समुद्धरेत् ॥१८.१०३॥एवं पुनः पुनर्जार्यं व्योमसत्वायसं फणी ।पूर्ववत्क्रमयोगेन षड्गुणं जारयेत्पुनः ॥१८.१०४॥माक्षिकाद्धौतसत्त्वकं [... औ६ Zएइछेन्झ्] ।क्षिपन्क्षिपन्धमेत्तं तु बाह्यमेवं तु षड्गुणम् ॥१८.१०५॥वज्रबीजमिदं ख्यातं जारणे परमं हितम् ॥१८.१०६॥{वज्रबीजजारणेन स्पर्शवेधी शब्दवेधी रसः}वासनामुखिते सूते द्वंद्वितं व्योमसत्वकम् ।पूर्ववत्क्रमयोगेन षड्गुणं जारयेत्पुनः ॥१८.१०७॥तस्मिन्जार्यं वज्रबीजं व्योमसत्त्वक्रमेण वै ।ग्रसते कच्छपे यंत्रे यथाजीर्णं तथा फलम् ॥१८.१०८॥द्विगुणेऽयुतवेधी स्यात्त्रिगुणे लक्षवेधकः ।यदा चतुर्गुणं जीर्णं दशलक्षाणि विध्यति ॥१८.१०९॥कोटिवेधी पञ्चगुणे दशकोट्यस्तु षड्गुणे ।अर्बुदांशात्सप्तगुणे शङ्खवेध्यष्टमे गुणे ॥१८.११०॥नवमे खर्ववेधी स्याद्दशमे पद्मवेधकः ।त्रयोदशगुणे जीर्णे स्पर्शवेधी भवेद्रसः ॥१८.१११॥चतुर्दशगुणे जीर्णे भवेत्पाषाणवेधकः ।त्रिपञ्चगुणिते जीर्णे सशैलवनकाननाम् ॥१८.११२॥वेधयेन्मेदिनीं सर्वां स भवेद्भूचरो रसः ।एवं कलागुणे जीर्णे त्रैलोक्यव्यापको भवेत् ॥१८.११३॥खेचरो रसराजेन्द्रो मुखस्थः खेगतिप्रदः ।जायते च यथाशक्त्या ततः सार्यं क्रमेण वै ॥१८.११४॥वज्रबीजेन तुल्येन प्रथमा सारणा भवेत् ।पूर्ववज्जारणा कार्या द्विगुणेनानुसारयेत् ॥१८.११५॥तथैव जारयेद्भूयः कर्तव्या प्रतिसारणा ।त्रिगुणेन तु तेनैव मुखं बद्ध्वाथ बन्धयेत् ॥१८.११६॥द्विसहस्रादिलक्षान्तं वेधकस्याप्ययं विधिः ।इत्येवं च पुनः कुर्यात्सारणां कोटिवेधके ॥१८.११७॥दशकोट्याद्यर्बुदान्ते च जारिते वेधके रसे ।त्रिप्रकारा प्रकर्तव्या सारणा तु त्रिधा त्रिधा ॥१८.११८॥चतुर्गुणा शङ्खवेधे तदूर्ध्वं पञ्चधा भवेत् ।षड्गुणा पद्मवेधे तु मूलवेधे तु सप्तधा ॥१८.११९॥अष्टधा स्पर्शवेधे तु दशधा शब्दवेधके ।ततस्त्रयोदशगुणाः कलागुणे कलागुणाः ॥१८.१२०॥क्रमशः सारणा कार्या यथाशक्त्यानुसारतः ।मुखं बद्ध्वा रसं बद्ध्वा पश्चाद्वेधं प्रकल्पयेत् ॥१८.१२१॥चंद्रार्के वा भुजंगे वा क्रामणेन समायुतम् ।इत्येवं पद्मपर्यन्तं संख्यावेधात्तु यो रसः ॥१८.१२२॥तद्वेष्टितं मधूच्छिष्टैः कुंतवेधे तु योजयेत् ।तत्सर्वं कनकं दिव्यं जायते शंभुभाषितम् ॥१८.१२३॥{धूमवेधविधि}धूमवेधे रसं पिष्ट्वा तेन वस्त्रं प्रलेपयेत् ।ततो ज्योतिष्मतीतैले धृत्वा वर्तिं कल्पयेत् ॥१८.१२४॥ज्वलितां तां ताम्रकूटे योजयेत्पत्त्रतां गते ।तद्धूमगंधमात्रेण सर्वं भवति कांचनम् ॥१८.१२५॥{स्पर्शवेधविधि}स्पर्शवेधी रसो योऽसौ गुटिकां तेन कारयेत् ।द्रुतानामष्टलोहानां क्षिप्त्वा मध्ये समुद्धरेत् ।तद्भवेत्कांचनं दिव्यमसंख्यं नात्र संशयः ॥१८.१२६॥{शब्दवेधविधि}शब्दवेधी रसो योऽसौ गुटिकां तेन कारयेत् ।धारयेद्वक्त्रमध्ये तु ततो लोहानि वेधयेत् ।तत्सर्वं जायते स्वर्णं श्रुते शब्दे न संशयः ॥१८.१२७॥{पाषाणवेधविधि}पाषाणवेधको योऽसौ पर्वतानि तु तेन वै ।वेधयेदग्निना तप्तान्सर्वं भवति कांचनम् ॥१८.१२८॥{मेदिनीवेधविधि}मेदिनीवेधको योऽसौ राजिकार्धार्धमात्रकः ।तेनैव वेधयेत्सर्वां सशैलवनकाननाम् ।मेदिनी सा स्वर्णमयी भवेत्सत्यं शिवोदितम् ॥१८.१२९॥{त्रैलोक्यव्यापकविधि}त्रैलोक्यव्यापको योऽसौ तं करे धारयेत्तु यः ।स भवेत्खेचरो दिव्यो महाकायो महाबलः ॥१८.१३०॥स्वेच्छाचारी महावीरः शिवतुल्यो भवेत्तु सः ।तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् ॥१८.१३१॥जायन्ते नात्र संदेहस्तत्स्वेदस्पर्शनादपि ।रसकायो महासिद्धः सर्वलोकेषु पूज्यते ॥१८.१३२॥अवध्यो देवदैत्यानां यावच्चन्द्रार्कमेदिनी ।भुञ्जानो दिव्यभोगांश्च क्रीडते भैरवो यथा ॥१८.१३३॥{रसबीजं शतवेधी}भागत्रयं शुद्धसूतं भागैकं मृतवज्रकम् ।काकिनीरजसा मर्द्यं तप्तखल्वे दिनावधि ॥१८.१३४॥तेनैव पादभागेन हेमपत्राणि लेपयेत् ।व्योमवल्लीरसैः पिष्टं कांतटंकणतालकम् ॥१८.१३५॥अनेन चाष्टमांशेन पूर्वलिप्तानि लेपयेत् ।रुद्ध्वा स्वेद्यं दिवारात्रौ करीषाग्नौ ततः पुनः ॥१८.१३६॥कदलीकंदसौवीरटंकणं च समं समम् ।कण्टकार्या द्रवैः पिष्ट्वा मूषा लेप्या त्वनेन वै ॥१८.१३७॥तन्मध्ये पूर्वपक्वं यद्रुद्ध्वा धाम्यं दृढाग्निना ।तत्सर्वं जायते खोटं सौवीरं काचटंकणम् ॥१८.१३८॥दत्त्वा दत्त्वा धमेत्खोटं जायते भास्करोपमम् ।रसबीजमिदं ख्यातं वेधके जारणे हितम् ।चंद्रार्के शतवेधी स्यात्कांचनं कुरुते शुभम् ॥१८.१३९॥{शब्दवेधी रसः}अथ वक्ष्ये रसेन्द्रस्य समांशस्य च भक्षणम् ।पूर्वोक्तं रसबीजं तु समुखे चारयेद्रसे ॥१८.१४०॥अभ्रसत्वप्रकारेण जारयेत्तत्क्रमेण वै ।पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥१८.१४१॥ततस्तेनैव बीजेन सारणाक्रामणात्रयम् ।ततश्च जारितं कुर्यान्मुखं बद्ध्वाथ बन्धयेत् ।शब्दवेधी भवेत्सो हि रसः शंकरभाषितम् ॥१८.१४२॥{रसबीजं शतवेधि}समुखस्य रसेन्द्रस्य पक्वबीजं समांशकम् ।जारयेच्चाभिषिक्तं तदभ्रसत्त्वक्रमेण वै ॥१८.१४३॥मृतवज्रं षोडशांशं तस्मिन्सूते विनिक्षिपेत् ।तालकं टंकणं कांतं तृतीयं चाष्टमांशकम् ॥१८.१४४॥दत्त्वा तस्मिंस्तदा खल्वे व्योमवल्लीद्रवैर्दिनम् ।तत्सर्वं मर्दितं कृत्वा छायाशुष्कं प्रयत्नतः ॥१८.१४५॥द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।करीषाग्नौ दिवारात्रौ ध्माते खोटं भवेत्तु तत् ॥१८.१४६॥काचटंकणसौवीरैः शोधयेत्तं धमन्धमन् ।रसबीजमिदं ख्यातं पूर्ववत्शतवेधकम् ।जायते रसराजोऽयं कुरुते कनकं शुभम् ॥१८.१४७॥{मेर्चुर्यः: रञ्जनः: रेद्}अथवा समुखे सूते पूर्ववज्जारयेद्दिनम् ।पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥१८.१४८॥रसबीजेन चान्येन त्रिधा सार्यं क्रमेण वै ।सारिते जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ।शब्दवेधी भवेत्साक्षात्ताम्रं स्वर्णं करोति वै ॥१८.१४९॥{रसबीजम्}पक्वबीजस्य चूर्णं तु पूर्ववच्चाभिषेकितम् ।षोडशांशेन सूतस्य समुखस्य तु चारयेत् ॥१८.१५०॥द्व्यङ्गुल्यां मर्दनेनैव घर्मे चरति तत्क्षणात् ।तद्बीजं जारयेत्तस्य स्वेदनैश्चाभ्रसत्ववत् ॥१८.१५१॥अनेन क्रमयोगेन समं बीजं तु सारयेत् ।तद्वद्द्वादशभागेन पक्वबीजं तु तस्य वै ॥१८.१५२॥चारयेन्मर्दयन्नेव कच्छपाख्येऽथ जारयेत् ।अभ्रसत्वप्रकारेण समं यावच्च जारयेत् ॥१८.१५३॥ततस्तस्याष्टमांशेन पक्वबीजं तु दापयेत् ।मर्दयेत्तप्तखल्वे तत्चरत्येव हि तत्क्षणात् ॥१८.१५४॥तं सूतं सूरणे कंदे गर्भे क्षिप्त्वा निरुध्य च ।लिप्त्वा कंदं पुटे पच्याद्यथा कंदो न दह्यते ॥१८.१५५॥तत्रैव ग्रसते सूतो जीर्णे ग्रासं तु दापयेत् ।अनेन क्रमयोगेन समबीजं समं पुनः ॥१८.१५६॥पादांशं पक्वबीजं तु दत्त्वा चार्यं च मर्दयेत् ।मूषायन्त्रे ततो जार्यं स्वेदनेन पुनः पुनः ॥१८.१५७॥अनेन क्रमयोगेन समबीजं च जारयेत् ।एवं चतुर्गुणे जीर्णे पक्वबीजे तु पारदे ।जायते कुंकुमाभस्तु रसेन्द्रो बलवत्तरः ॥१८.१५८॥{धूमवेधी शब्दवेधी पाषाणवेधी रसः}अभ्रकं भ्रामकं ब्राह्मी मृतलोहाष्टकं तथा ।महारसाश्चोपरसाः कटुतुम्ब्याश्च बीजकम् ॥१८.१५९॥शङ्खनाभिर्मेषशृङ्गी वज्रकंदं समं समम् ।मयूरस्य तु रक्तेन सर्वं पाच्यं दिनावधि ॥१८.१६०॥ततस्तं मर्दयेत्खोटं शिखिरक्ते दिनद्वयम् ।अनेन मृतवज्रं तु लेपितं कारयेत्ततः ॥१८.१६१॥मूषामाम्रफलाकारां द्विद्विलिप्तां तु कारयेत् ।तन्मध्ये पूर्वसूतं तु पादांशं लिप्तवज्रकम् ॥१८.१६२॥अथवा वज्रबीजं च पूर्वकल्केन लेपितम् ।अथवा द्वंद्वितं वज्रं समं स्वर्णेन यत्कृतम् ॥१८.१६३॥तल्लिप्तं पूर्वकल्केन पादांशं तत्र निक्षिपेत् ।आच्छादितं धमेन्मन्दं मूषाधोमुखवायुना ॥१८.१६४॥किंचित्किंचिद्बिडं दत्त्वा जीर्णे तस्मात्समुद्धरेत् ।पुनस्तल्लिप्तमूषायां क्षिप्त्वा वज्रेण संयुतम् ।पूर्ववत्क्रमयोगेन जीर्णे वज्रे समुद्धरेत् ।अनेन क्रमयोगेन वज्रं वा वज्रबीजकम् ॥१८.१६५॥स्वर्णद्वंद्वितवज्रं वा जारयेत्तत्पुनः पुनः ।एकादशगुणं यावत्तावज्जार्यं रसेन्द्रके ॥१८.१६६॥सुदग्धां शङ्खनाभिं तु मातुलिंगरसैर्दिनम् ।मर्दयेल्लोलयेत्तेन मुक्ताचूर्णं सुशोभनम् ॥१८.१६७॥द्रावितं मौक्तिकं वाथ पूर्ववज्जारयेद्धमन् ।मूषायां बिडलिप्तायां पादं पादं शनैः शनैः ॥१८.१६८॥एकादशगुणं यावत्तज्जार्यं कच्छपेन तत् ॥१८.१६९॥नीलीनिर्याससंतुल्यं शिखिपित्तं विमर्दयेत् ।इन्द्रनीलं च नीलं च तेन लिप्त्वाथ जारयेत् ॥१८.१७०॥पूर्ववत्क्रमयोगेन धमनात्स्वेदनेन वा ।विडलेपितमूषायां एकादशगुणं क्रमात् ॥१८.१७१॥द्रावितं चेन्द्रनीलं वा नीलं च द्रावितं क्रमात् ।द्वंद्वितं रसराजस्य जार्यमभ्रद्रुतिर्यथा ।इत्येवं जारयेन्नीलं द्रावितं कठिनं तु वा ॥१८.१७२॥शिखिपित्तनृरक्ताभ्यां लेपितं पद्मरागकम् ।जारयेद्रसराजस्य त्वेकादशगुणं क्रमात् ।जार्यं वा द्रावितं तत्तु यथा चाभ्रद्रुतिः पुरा ॥१८.१७३॥रजनी तुल्यकंकुष्ठं ब्रह्मपुष्पद्रवैर्दिनम् ।भावितं तेन लिप्तं तु पुष्परागं तु जारयेत् ॥१८.१७४॥कठिनं द्रावितं वाथ रुद्रसंख्याक्रमेण वै ।एवं रत्नैर्भवेत्तृप्तो रसराजो महाबलः ॥१८.१७५॥अनेनैव शतांशेन मधूच्छिष्टेन लेपयेत् ।शुद्धहाटकपत्राणि रुद्ध्वा गजपुटे पचेत् ॥१८.१७६॥इंद्रगोपसमाकारं तत्स्वर्णं जायते शुभम् ।अनेनैव सुवर्णेन सारयेत्सारणात्रयम् ॥१८.१७७॥रत्नतृप्तं सूतराजं मूषायन्त्रे विनिक्षिपेत् ।शनैः शनैर्धमेत्तावद्यावत्सूतावशेषितम् ॥१८.१७८॥मुखं बद्ध्वा रसं बद्ध्वा धूमवेधी भवेत्तु तत् ।अनेन क्रमयोगेन पुनः सारणजारणा ॥१८.१७९॥कर्तव्यास्त्रिप्रकारा वै मुखं बद्ध्वाथ बन्धयेत् ।शब्दवेधी रसेन्द्रोऽयं जायते खेगतिप्रदः ॥१८.१८०॥पुनश्च त्रिविधा कार्या सारणाज्जारणा क्रमात् ।तस्यैव तु रसेन्द्रस्य मुखबन्धं च कारयेत् ॥१८.१८१॥तेनैव वेधयेत्सर्वं गिरिपाषाणभूतलम् ।जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥१८.१८२॥सिद्धैर्भूचरखेचरा शिवमुखात्प्राप्ता महाजारणा कृत्वा तां च रसे रसातलमिदं स्वर्णेन पूर्णं कृतम् ।तेषां कर्म विचार्य सारमखिलं स्पष्टीकृतं तन्मया यः कश्चिद्गुरुतन्त्रमन्त्रनिरतस्तस्यैव सिद्धं भवेत् ॥१८.१८३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP