संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण १.३ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण १.३ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३ Translation - भाषांतर {जारणपूर्वं मारणम्}अथातो जारणापूर्वं बीजं मारणमुच्यते ।अजीर्णं चाप्यबीजं च सूतकं यस्तु मारयेत् ॥३.१॥ब्रह्महा स दुराचारो मम द्रोही महेश्वरि ।तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् ॥३.२॥{रसस्य समुखकरणम्}संस्थाप्य गोमयं भूमौ पक्वमूषां ततः परम् ।तन्मध्ये कटुतुम्ब्युत्थं तैलं दत्त्वा रसं क्षिपेत् ॥३.३॥काकमाचीरसं देयं तैलं तुल्यं ततः पुनः ।गन्धकं व्रीहिमात्रं च क्षिप्त्वा तं च निरोधयेत् ॥३.४॥तत्पृष्ठे पावको देयः पूर्णं वा वह्निखर्परम् ।स्वाङ्गशीतलतां ज्ञात्वा जीर्णे तैले च गन्धकम् ॥३.५॥काकमाचीद्रवं चाग्नौ दत्त्वा दत्त्वा च जारयेत् ।मूषाधो गोमयं चात्र दत्त्वा चोदधर्वं च पावकम् ॥३.६॥षड्गुणं गन्धकं जार्यं सूतस्यैवं मुखं भवेत् ।{समुखपारदस्य जारणापूर्वको मारणविधिः}तं सूतं मर्दयेन्नीरैर्जम्बीरोत्थैः पुनः पुनः ॥३.७॥चतुःषष्ट्यंशकैः पूर्वैर्द्वात्रिंशांशं ततः पुनः ।षोडशांशं शुद्धहेमपत्रं सूतेषु निक्षिपेत् ॥३.८॥शिखिपित्तेन सम्पिष्टं तैलैश्च सर्षपोद्भवैः ।लिप्त्वा हेमं क्षिपेत्सूतं यामं जम्बीरजैर्द्रवैः ॥३.९॥मर्द्यं तं पूर्ववत्पच्यान्मूषायां जम्बीरद्रवैः ।पूरयेद्रोधयेच्चाग्निं दत्त्वा यत्नेन जारयेत् ॥३.१०॥ग्रासे ग्रासे च तन्मर्द्यं जम्बीराणां द्रवैः दृढम् ।मूलिका लवणं गन्धमभावे पित्ततैलयोः ॥३.११॥पिष्ट्वा जम्बीरनीरेण हेमपत्रं प्रलेपयेत् ।इत्येवं जारणा कार्या ततः सूतं च मारयेत् ॥३.१२॥अथवा निर्मुखं सूतं विडयोगेन मारयेत् ।{विडनिर्माणविधि}विडमत्र प्रवक्ष्यामि साधयेद्भिषजां वरः ॥३.१३॥शंखचूर्णं रविक्षीरैश्चातपे भावयेद्दिनम् ।तद्वज्जम्बीरजैर्द्रावैर्दिनैकं धूमसारकम् ॥३.१४॥सुवर्चलमजामूत्रैः क्वाथ्यं यामचतुष्टयम् ।कण्टकारीं च संक्वाथ्यं दिनैकं नरमूत्रकैः ॥३.१५॥सज्जीक्षारं तिन्तिडीकं काशीशं च शिलाजतुम् ।जम्बीरोत्थैर्द्रवैर्भाव्यं पृथग्यामं चतुष्टयम् ॥३.१६॥जयपालबीजं त्वग्घीनं मूलकानां द्रवैर्दिनम् ।सैन्धवं टङ्कणं गुञ्जां शिग्रुमूलद्रवैर्दिनम् ॥३.१७॥एतत्सर्वं समांशं तु मर्द्यं जम्बीरजैर्द्रवैः ।तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वाडवानलः ।अनेन मर्दयेत्सूतं ग्रसते तप्तखल्वके ॥३.१८॥{विडयोगेन पारदादिमारणप्रकारः}स्वर्णाभ्रकसर्वलोहानि यथेष्टानि च जारयेत् ।मारयेत्पूर्वयोगेन मारणं चात्र कथ्यते ॥३.१९॥{पारदमारण (१)}कुम्भीं समूलां उद्धृत्य गोमूत्रेण सुपेषयेत् ।तद्द्रवैर्मर्दयेत्सूतं दिनैकं कान्तसम्पुटे ॥३.२०॥लिप्त्वा नियामका देया ऊर्ध्वश्चाधस्तदन्वयेत् ।मृद्वग्निना दिनैकं तु पचेच्चुल्यां मृतो भवेत् ॥३.२१॥{पारदमारण (२)}गोघृतं गन्धकं सूतं पिष्ट्वा पिण्डीं प्रकल्पयेत् ।कुमारीदलमध्यस्थं कृत्वा सूत्रेण वेष्टयेत् ॥३.२२॥तं कान्तसम्पुटे रुद्ध्वा त्रिभिर्लघुपुटैः पचेत् ।ततो ध्माते भवेद्भस्म चान्धमूषे क्षयं ध्रुवम् ॥३.२३॥{पारदमारण (३)}शाकवृक्षस्य पक्वानि फलान्यादाय शोधयेत् ।पेषयेद्रविदुग्धेन तेन मूषां प्रलेपयेत् ॥३.२४॥आदिप्रसूतगोर्जातजरायोश्चूर्णपूरितः ।तन्मध्ये सूतकं रुद्ध्वा ध्मातो भस्मत्वमाप्नुयात् ॥३.२५॥{पारदमारण (४)}कर्कोटकीं काकमाचीं च कञ्चुकीं कटुतुम्बिकाम् ।काकजङ्घां काकतुण्डीं काकिनीं काकमञ्जरीः ॥३.२६॥पिष्ट्वैतान्वज्रमूषास्तैर्लेपं कृत्वा रसं क्षिपेत् ।मर्दितं दिनमेकं तु तैरेवार्द्रोत्थितै रसैः ॥३.२७॥रुद्ध्वाथ भूधरे पच्यादष्टवारं पुनः पुनः ।मर्दयेल्लिप्तमूषास्ता रुद्ध्वा ध्मातो मृतो भवेत् ॥३.२८॥{पारदमारण (५)}रसैर्नियामकैर्मर्द्यो दृढं यामचतुष्टयम् ।द्विगुणैर्गन्धतैलैश्च पचेन्मृद्वग्निना शनैः ॥३.२९॥यावत्खोटो भवेत्तत्तद्रोधयेल्लौहसम्पुटे ।हरीतकीं जले पिष्ट्वा लौहकिट्टेन मूषिकाम् ॥३.३०॥कृत्वा तन्मध्यतः क्षिप्त्वा सम्पुटं चान्धयेत्पुनः ।तस्योर्ध्वं स्रावकाकारं हृत्वा नागद्रुतं क्षिपेत् ॥३.३१॥कठिनेन धमेत्तावद्यावन्नागो द्रुतो भवेत् ।न धमेच्च पुनस्तावद्यावत्कठिनतां व्रजेत् ॥३.३२॥एवं पुनः पुनर्ध्मातस्त्रियामैर्म्रियते रसः ।{नियामकौषध्यः}नियामकास्ततो वक्ष्ये सूतस्य मारकर्मणि ॥३.३३॥सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शरपुङ्खिका ।काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुपर्णिका ॥३.३४॥वर्षाभूः कञ्चुकी मूर्वा पद्मकोत्पलचिञ्चिका ।शतावरी वज्रलता वज्रकन्दा त्रिपर्णिका ॥३.३५॥मण्डूकपर्णी पाटली चित्रको ग्रीष्मसुन्दरः ।काकमाची महाराष्ट्री हरिद्रा तिलकर्णिका ॥३.३६॥श्वेतार्कशिग्रुधत्तूरमृगदूर्वाहरीतकी ।गुडूची मूषली पुङ्खा भृङ्गराड्रक्तचित्रकम् ॥३.३७॥तगरं शूरणं मुण्डी मयङ्का पोतकोकिलम् ।सैन्धवं श्वेतवर्षाभूः साम्भरं हिंगु माक्षिकम् ॥३.३८॥विष्णुकान्ता सोमवल्ली व्रणघ्नी यक्षलोचनम् ।व्याघ्रपादी हंसपदी वृश्चिकाली कुरण्टकम् ॥३.३९॥स्वयम्भूकुसुमं कुञ्ची हस्तिशुण्डीन्द्रवारुणी ।बीजान्यहस्करस्यापि सर्वत्रैते नियामकाः ॥३.४०॥एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ।मारणे मूर्च्छने बन्धे रसस्यैतानि योजयेत् ॥३.४१॥{रसस्य जारणमारणविधिः}अप्रसूतगवां मूत्रैः पिष्ट्वा पूर्वनियामिकाः ।तद्द्रवैर्मर्दयेत्सूतं यथा पूर्वोदितं क्रमात् ॥३.४२॥इत्येवं जारणं प्रोक्तं मारणं परिकीर्तितम् ।{रसभस्मपरीक्षा}परीक्षा मारिते सूते कर्तव्या च यथोदिता ॥३.४३॥अधस्तुषाग्निना तप्तो ह्यक्षीणस्तिष्ठते यदा ।तदा भस्म विजानीयाच्चुल्ल्यां यामं निरीक्षयेत् ॥३.४४॥मूलिकामारितं सूतं सर्वयोगेषु योजयेत् ।जारितो याति सूतोऽसौ जरादारिद्र्यरोगनुत् ॥३.४५॥मूर्छितो व्याधिनाशाय बद्धः सर्वत्र योजयेत् ॥३.४६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP