संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण १.५ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण १.५ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ५ Translation - भाषांतर {उपरसनामानि}गन्धकं वज्रवैक्रान्तं वज्राभ्रं तालकं शिला ।खर्परं शिखितुत्थं च विमलां हेममाक्षिकम् ॥५.१॥कासीसं कान्तपाषाणं वराटीमथ हिंगुलम् ।कङ्कुष्ठं शंखभूनागं टंकणश्च शिलाजतु ॥५.२॥एते उपरसाः शोध्याः मार्या द्राव्याः पुटे क्वचित् ॥५.३॥{गन्धः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}अपक्वगन्धं कुरुतेऽति कुष्ठं तापं भ्रमं पित्तरुजां करोति ।रूपं सुखं वीर्यबलं च हन्ति तस्मात्संशुद्धं विधियोजनीयम् ॥५.४॥{गन्धकशोधन}साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा स्रावेण रोधयेत् ॥५.५॥भाण्डं निक्षिप्य भूम्यन्ते ऊर्ध्वे देयं पुटं लघु ।ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥५.६॥{गन्धकशोधन (२)}अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं च सप्तधा ।गन्धकं नवनीतेन पिष्ट्वा वस्त्रं प्रलेपयेत् ॥५.७॥तद्वह्निज्वलिता देशे हृत्वा धार्या ह्यधोमुखा ।तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥५.८॥{सुल्फ़ुरः: शुद्धः: मेदिच्. प्रोपेर्तिएस्}शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युज्वरादिकान् ।अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥५.९॥{वज्रः: शोधन}व्याघ्रीकन्दयुतं वज्रं दोलायन्त्रेण पाचितम् ।सप्ताहात्कौद्रवे क्वाथे कौलत्थे विमलं भवेत् ॥५.१०॥{वज्रः: मारण}त्रिसप्तकृत्वस्तत्तप्तं खरमूत्रेण सेचयेत् ।षड्गुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥५.११॥प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वोदितक्रमैः ।भस्मीभवति तद्वज्रं वज्रवत्कुरुते तनुम् ॥५.१२॥{वज्रः: मारण}ऊर्णाशृङ्गं परिपिष्य पिण्डं एतस्य मध्ये तु निधाय वज्रम् ।पिण्डेऽथवाधाय च वज्रवल्ल्याः पुटत्रयं तस्य रसे विदध्यात् ॥५.१३॥मृत्युरेव भवेदस्य वज्राख्यस्य न संशयः ॥५.१४॥{वज्रः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}अशुद्धवज्रं आयुर्घ्नं पीडां कुष्ठं करोति च ।पाण्डुतापगुरुत्वं च तस्माच्छुद्धं तु कारयेत् ॥५.१५॥{वज्रः: सुब्त्य्पेसः: चोलोउर्, चस्ते}श्वेतरक्तपीतकृष्णा द्विजाद्याः वज्रजातयः ।रसायने भवेद्विप्रः श्वेतः सिद्धिप्रदायकः ॥५.१६॥क्षत्रियो मृत्युजिद्रक्तो वलीपलितरोगहा ।द्रवकारी भवेद्वैश्यः पीतो देहस्य दार्ढ्यकृत् ॥५.१७॥कृष्णः शूद्रो रुजां हन्ति वयःस्थैर्यं करोति च ।पुंस्त्रीनपुंसकाश्चैते लक्षणेन तु लक्षयेत् ॥५.१८॥{वज्रः: पुंवज्रः: परीक्षा}वृत्ताः फलकसम्पूर्णास्तेजस्वन्तो बृहद्भवाः ।पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥५.१९॥{वज्रः: स्तीवज्रः: परीक्षा}रेखाबिन्दुसमायुक्ताः षट्कोणास्ताः स्त्रियः स्मृताः ।{वज्रः: नपुंसकः: परीक्षा}त्रिकोणायत्ता दीर्घा विज्ञेयास्ता नपुंसकाः ॥५.२०॥पूर्वपूर्वमिमे शस्ताः पुरुषाः बलवत्तराः ।शरीरकान्तिजनका भोगदा वज्रयोषितः ॥५.२१॥नपुंसकास्त्वल्पवीर्याः कामुकाः सत्त्ववर्जिताः ।स्त्री तु स्त्रीणां प्रदातव्या क्लीबं क्लीबे तथैव च ॥५.२२॥सर्वेषां सर्वदा योज्याः पुरुषाः बलवत्तराः ॥५.२३॥{वज्रः: शोधन}गृहीत्वा तु शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।महिषीविष्ठया लेप्यं करीषाग्नौ विपाचयेत् ॥५.२४॥निशायां तु चतुर्यामं निशान्ते वाश्वमूत्रके ।सेचयेत्तानि प्रत्येकं सप्तरात्रेण शुध्यति ॥५.२५॥{वज्रः: शोधन}मेघनादा शमी श्यामा शृङ्गी मदनकोद्भवम् ।कुलत्थं वेतसं चाथ अगस्त्यं सिन्धुवारकाः ॥५.२६॥एतेषां सजलैः क्वाथैर्वज्रं जम्बीरमध्यगम् ।दोलायन्त्रे त्र्यहं पाच्यमेवं वज्रं विशुद्धयेत् ॥५.२७॥{वज्रः: शोधन}कुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् ।व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिं ऋच्छति ॥५.२८॥{वज्रः: शोधन}व्याघ्रीं कन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ।अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ॥५.२९॥वज्रीक्षीरेण वा सिञ्चेदेवं शुद्धं च मारयेत् ॥५.३०॥{वज्रः: ब्राह्मणः: मारण}विप्रजात्यादिवज्राणां मारणं कथ्यते पुनः ।अश्वत्थबदरीझिण्टीमाक्षिकं कर्कटास्थि च ॥५.३१॥तुल्यं स्नुहीपयः पिष्ट्वा वज्रं तद्गोलके क्षिपेत् ।रुद्ध्वा गजपुटे पच्याद्विप्रजातिर्मृतो भवेत् ॥५.३२॥{वज्रः: क्षत्रियः: मारण}करवीरं मेषशृङ्गं च बदरं च उदुम्बरम् ।अर्कदुग्धसमं पिष्ट्वा विप्रवन्मारयेन्नृपम् ॥५.३३॥{वज्रः: वैश्यः: मारण}बलां चातिबलां गन्धं पेषयेत्कच्छपास्थि च ।एतैर्वा वारुणीदुग्धैः म्रियेद्वैश्योऽपि विप्रवत् ॥५.३४॥{वज्रः: शूद्रः: मारण}सूरणं लसुनं शङ्खं समं पेष्यं मनःशिलाम् ।वटक्षीरेण मूषान्तर्विप्रवच्छूद्रमारणम् ॥५.३५॥{वज्रः: स्त्री, नपुंसकः: मारण}स्त्रियस्तेषां म्रियन्ते च तत्तदौषधयोगतः ।नपुंसकमृतिस्तेषां चतुर्णां औषधैः समम् ॥५.३६॥{वज्रः: मारण}द्विवर्षरूढकार्पासैर्मूलं कान्तमुखैः सह ।नारीस्तन्येन सम्पिष्य पिष्ट्वा ध्मातं मृतं भवेत् ॥५.३७॥{वज्रः: मारण}मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसैः ।गजदन्तसमं पिष्ट्वा वज्रीदुग्धेन गोलकम् ॥५.३८॥कृत्वा तन्मध्यगं वज्रं म्रियते धमनेन तु ।{वज्रः: मारण}त्रिवर्षनागवन्ध्यास्तु कार्पासस्याथ मूलिका ।पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ॥५.३९॥पचेद्गजपुटे तं च म्रियते सप्तधा पुटैः ॥५.४०॥{वज्रः: मारण}मत्कुणानां तु रक्तेन सप्तधातपशोषितम् ।कुलिशं भावितं तदक्ध्रूर्णितापि मनःशिला ॥५.४१॥लिप्त्वा च बदरीपत्रैः वेष्टयित्वा पुरे पचेत् ।पुनर्लेप्यं पुनः पाच्यं सप्तधा म्रियतेऽपि च ॥५.४२॥{वज्रः: मारण}वज्रं महानदीशुक्तौ क्षिप्तं भाव्यं मुहुर्मुहुः ।स्नुह्यर्कोन्मत्तकन्यानां द्वयेणैकेन चाह्निकम् ॥५.४३॥कृष्णकर्कटमांसेन पिष्टितं वेष्टयेद्बहिः ।भूनागस्य मृदा सम्यग्ध्माते भस्मत्वमाप्नुयात् ॥५.४४॥{वज्रः: मारण}रक्तोत्पलस्य मूलैश्च मेघनादस्य कुड्मलैः ।पिण्डितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥५.४५॥{वज्रः: मृतः: मेदिच्. प्रोपेर्तिएस्}वज्रमायुर्बलं रूपं देहसौख्यं करोति च ।सेवितो हन्ति रोगांश्च मृतो वज्रो न संशयः ।{वैक्रान्तः: शोधन}वैक्रान्तं वज्रवच्छोध्यं नीलं वा लोहितं च वा ।{वैक्रान्तः: मारण}हयमूत्रे तत्सेच्यं तप्तं तप्तं त्रिसप्तधा ॥५.४६॥ततश्चोत्तरवारुण्याः पञ्चाङ्गे गोलके क्षिपेत् ।रुद्ध्वा मूषापुटे पच्यादुद्धृत्य गोलके पुनः ॥५.४७॥क्षिप्त्वा रुद्ध्वा पचेदेवं सप्तधा भस्मतां व्रजेत् ।{वैक्रान्तः: सुब्स्तितुते फ़ोर्वज्र}भस्मीभूतं च वैक्रान्तं वज्रस्थाने नियोजयेत् ॥५.४८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP