संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१४ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१४ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१४ Translation - भाषांतर सूतेन सत्त्वरचितेन च जारितेन पक्वाख्यबीजगुणसंख्यसुसारितेन ।विज्ञाय यस्तु मतिमान्स तु वार्तिकेन्द्रश्चंद्रार्कवेधविधिना कनकं करोति ॥१४.१॥{मेर्चुर्यः: चारण}स्वर्णे नागं समावर्त्य माषमात्रं तु घर्षयेत् ।तप्तखल्वे ततस्तस्मिन्पलमेकं रसं क्षिपेत् ॥१४.२॥सिद्धमूलीद्रवं दत्त्वा मर्दयेत्कांजिकैर्दिनम् ।घर्मे वा तप्तखल्वे वा ततो ग्रासं तु दापयेत् ॥१४.३॥चतुःषष्ट्यंशकं पूर्वं द्वंद्वं सत्त्वं विभावितम् ।दत्त्वा मर्द्यं दिनैकं तु चारणायंत्रके क्षिपेत् ॥१४.४॥सजम्बीरैर्दिनं घर्मे धारितं चरति ध्रुवम् ॥१४.५॥{मेर्चुर्यः: जारण}जारणं त्रिक्षारं पंचलवणं अम्लवर्गे स्नुहीपयः ।गोमूत्रैर्लोलयेत्सर्वं तेन वस्त्रं घनं लिपेत् ॥१४.६॥तन्मध्ये जारितं सूतं बद्ध्वा भूर्जेन वेष्टयेत् ।सिद्धमूल्यम्लसंयुक्तं दोलायंत्रे त्र्यहं पचेत् ॥१४.७॥उद्धृत्योष्णारनालेन क्षालयेल्लोहपात्रके ।वस्त्रपूतं ततः कृत्वा सोष्णपात्रे विमर्दयेत् ॥१४.८॥हस्तेनैव भवेद्यावत्सुधौतं पारदं पुनः ।चतुर्गुणेन वस्त्रेण क्षालयेन्निर्मलो भवेत् ॥१४.९॥अजीर्णे च पुनर्मर्द्यमम्लं दत्त्वा दिनावधि ।दोलायां स्वेदयेत्तद्वद्भवेज्जीर्णं न संशयः ॥१४.१०॥{मेर्चुर्यः: प्रेपरतिओन्फ़ोर्ग्रासन}इष्टिका गुडदग्धोर्णा गृहधूमं च सर्जिका ।सैंधवेन युतं सर्वं षोडशांशं रसस्य तु ॥१४.११॥दत्त्वा ततोऽम्लवर्गेण घर्मे मर्द्यं दिनावधि ।इष्टिकादम्लवर्गेण दोलायंत्रे दिनं पचेत् ।जीर्णे जीर्णे त्विदं कुर्याद्ग्रासग्राही भवेद्रसः ॥१४.१२॥{मेर्चुर्यः: जारण ओफ़् बीजस्}द्वात्रिंशांशं ततो ग्रासं दत्त्वा चार्यं च जारयेत् ।पूर्ववत्स्वेदनान्तं च कृत्वा ग्रासं तृतीयकम् ॥१४.१३॥षोडशांशं प्रदातव्यं तज्जीर्णे चाष्टमांशकम् ।जारयेत्पूर्वयोगेन ह्येवं ग्रासचतुष्टयम् ॥१४.१४॥ततः कच्छपयन्त्रेण जारयेत्तन्निगद्यते ।ऊर्ध्वाधश्चाष्टमांशेन ग्रासे ग्रासे बिडं क्षिपेत् ॥१४.१५॥चतुर्थांशं ततो ग्रासं ग्रासं देयं समं पुनः ।जीर्णे जीर्णे समं देयमेवं जार्यं च षड्गुणम् ॥१४.१६॥रागाणां ग्रहणार्थं च ग्रासे ग्रासे तु पूर्ववत् ।इत्येवं द्वंद्वयोगानां सत्त्वानां च विशेषतः ॥१४.१७॥स्वर्णादिसर्वलोहानां बीजानां जारणाहितम् ।कर्तव्यं वक्ष्यते तत्र मात्रायुक्तिश्च पूर्ववत् ॥१४.१८॥{मेर्चुर्यः: जारण ओफ़् द्वन्द्वस्}अभावे व्योमसत्त्वस्य कान्तपाषाणसत्त्वकम् ।तीक्ष्णपाषाणसत्त्वं वा द्वंद्वितं व्योमसत्त्ववत् ॥१४.१९॥जारयेत्पूर्वयोगेन सर्वेषां स्यात्फलं समम् ।इत्येवं षड्गुणं द्वंद्वं यत्किंचिज्जारयेद्रसे ॥१४.२०॥{सिद्धबीजः: प्रेपरतिओन्}जारितं सिद्धबीजेन सारयेत्तन्निगद्यते ।ताप्यसत्त्वं घोषताम्रं शुद्धहेम समं समम् ॥१४.२१॥आवर्त्य द्वंद्वलिप्तायां मूषायामन्धितं पुनः ।समुद्धृत्य पुनर्धाम्यं मूषायां प्रकटं धमेत् ॥१४.२२॥माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ।स्वर्णशेषं भवेद्यावत्तावत्पाच्यं च तत्पुनः ॥१४.२३॥पूर्ववच्च धमेत्तावद्यावत्स्वर्णावशेषितम् ।ताप्यसत्त्वेन ताम्रेण द्वंद्वमेवं पुनः पुनः ॥१४.२४॥षड्वारं धमनेनैव ग्राह्यं स्वर्णावशेषितम् ।सिद्धबीजमिदं ख्यातं दाडिमीपुष्पवद्भवेत् ॥१४.२५॥अनेन सिद्धबीजेन पूर्ववत्सारणात्रयम् ।कृत्वाथ जारयेत्तद्वज्जीर्णे बद्ध्वा मुखं तथा ॥१४.२६॥बन्धनं शोधनं चैव क्रामणं चैव पूर्ववत् ।चंद्रार्के द्राविते योज्यं सहस्रांशेन कांचनम् ॥१४.२७॥{मेर्चुर्यः: जारण ओफ़् सुल्फ़ुर्}अथातः शुद्धसूतस्य जारणे पूर्वभावितम् ।अथ शुद्धस्य सत्त्वस्य जारयेत्पूर्वभाषितम् ।गंधकं तु तुलायन्त्रे पश्चात्सर्वं ग्रसत्यलम् ॥१४.२८॥मुखनालान्विता ऊर्ध्ववक्त्रा स्याद्द्वादशाङ्गुला ।दृढा लोहमयी कुर्यादनया सदृशी परा ॥१४.२९॥एकस्यां निक्षिपेत्सूतं अन्यस्यां गंधकं समम् ।एकस्या मुखमध्ये तु ह्यपरस्या मुखं क्षिपेत् ॥१४.३०॥लिप्त्वा मृल्लवणैः संधिं गंधकाधः पुटं लघु ।रसस्याधो जलं स्थाप्यं गंधधूमं पिबत्यलम् ॥१४.३१॥जीर्णे गंधे समुद्घाट्य तुल्यं गंधं च दापयेत् ।इत्येवं षोडशगुणं गंधं जार्यं पुनः पुनः ॥१४.३२॥जारितः सूतराजोऽयं वासनामुखितो भवेत् ॥१४.३३॥{मेर्चुर्यः: वासनामुखितः: ?}व्योमसत्त्वं ताप्यसत्त्वं शुल्बं शुद्धं समं समम् ।आवर्त्य द्वंद्वलिप्तायां मूषायामथ चूर्णयेत् ॥१४.३४॥भावयेदभिषेकेण पूर्ववत्शतवारकम् ।पूर्ववच्चारयेदेतद्वासनामुखिते रसे ॥१४.३५॥तद्वज्जार्यं प्रयत्नेन यावद्भवति षड्गुणम् ।तत्सूते सारितं जार्यं सिद्धबीजं तु पूर्ववत् ॥१४.३६॥मुखं च बंधनं कृत्वा वेधायान्तं प्रदापयेत् ।क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ।सहस्रांशेन तत्सत्यं रसोऽयं कामरूपकः ॥१४.३७॥{सिल्वेर्=> गोल्द्}पूर्ववत्शुद्धसूतस्य पूर्वसंस्कृतगंधकम् ।जारयेत्षड्गुणं सम्यक्तुलायंत्रेण पूर्ववत् ॥१४.३८॥तिक्तकोशातकीद्रावं लांगलीद्रावसंयुतम् ।दापयेत्पूर्वसूतस्य खल्वे मर्द्यं दिनावधि ॥१४.३९॥पादांशं पक्वबीजं च चारयित्वाथ जारयेत् ।पूर्ववद्बिडयोगेन एवं जार्यं समक्रमात् ॥१४.४०॥त्रिधाथ पक्वबीजं तु सारयित्वाथ जारयेत् ।तारे वेधं शतांशेन दापयेत्काञ्चनं भवेत् ॥१४.४१॥{शतांशविधि; प्रोदुच्तिओनोफ़् गोल्द्}तारं स्यादष्टानवतिभागाः स्वर्णस्य भागकम् ।भागैकं वेधकं सूतं संख्येयं शतवेधके ॥१४.४२॥{गोल्दः: प्रोदुच्तिओन्}रसकस्य तु यत्सत्त्वं चूर्णितं वाभिषेकितम् ।पूर्ववत्क्रमयोगेन रसे चार्यं च जारयेत् ॥१४.४३॥यावदष्टगुणं पश्चात्समं कृष्णाभ्रसत्त्वकम् ।चार्यं जार्यं क्रमेणैव पक्वबीजं चतुर्गुणम् ॥१४.४४॥जारयेच्च पुनः सूते कच्छपाख्ये विडान्विते ।रागग्रहणपर्यन्तं कृत्वा प्रक्षाल्य तं रसम् ॥१४.४५॥उन्मत्तमुनिपत्राणि रजनी काकमाचिका ।धान्याम्लैः पेषयेत्तुल्यं तद्द्रवैर्मर्दयेद्रसम् ॥१४.४६॥सप्ताहं तप्तखल्वे तु कच्छपे तु दिनं पचेत् ।ततो दिव्यौषधैरेव मर्दयेद्दिवसत्रयम् ॥१४.४७॥तं रुद्ध्वा वज्रमूषायां त्रिदिनं तुषवह्निना ।स्वेदितं च पुनर्मर्द्यं तद्वद्रुद्ध्वा धमेद्दृढम् ॥१४.४८॥कुक्कुटाण्डनिभं बद्धं जायते चूर्णयेत्पुनः ।ब्रह्मपुष्पद्रवमर्द्यं दिनैकं चान्धयेत्पुनः ॥१४.४९॥पचेद्गजपुटेऽप्येवं देयं पुटचतुष्टयम् ।वृश्चिकाल्या द्रवैरेवं तद्वत्पुटचतुष्टयम् ॥१४.५०॥कुंकुमसुरसेनैव तद्वत्पुटचतुष्टयम् ।मातुलुङ्गरसेनैकं पुटं दत्त्वा समाहरेत् ॥१४.५१॥सहस्रांशेन तेनैव तं शुल्बं तु वेधयेत् ।शुद्धं वा द्रावितं नागं वेधं स्यात्क्रामणेन वै ।तत्सर्वं जायते स्वर्णं देवाभरणमुत्तमम् ॥१४.५२॥{बीजः: ओफ़् गोल्द्}स्वर्णार्कं तीक्ष्णनागं च सम्यक्सस्याभ्रकस्य च ।वैक्रांतस्य च सत्त्वं च चूर्णं कुर्यात्समं समम् ॥१४.५३॥द्वन्द्वमेलापलिप्तायां मूषायामन्धितं धमेत् ।समुद्धृत्य तु तत्खोटं मूषायां प्रकटं धमेत् ॥१४.५४॥वापो माक्षिकचूर्णेन दत्ते देयः शनैः शनैः ।यावत्स्वर्णावशेषं स्यादर्कायां दापयेत्पुनः ॥१४.५५॥पूर्ववत्क्रमयोगेन धमेत्स्वर्णावशेषितम् ।इत्येवं च पुनः कुर्याज्जायते स्वर्णबीजकम् ॥१४.५६॥{बीजः: फ़्रों गोल्द्}अभ्रसत्त्वायसं ताम्रं चूर्णं कृत्वा समं समम् ।शुद्धताप्यस्य चूर्णं च ताम्रस्य द्विगुणं भवेत् ॥१४.५७॥मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ।तत्खोटं सूक्ष्मचूर्णं च रुद्ध्वा गजपुटे पचेत् ॥१४.५८॥एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे च वाहयेत् ।धमेत्प्रकटमूषायां यावद्दशगुणं शनैः ॥१४.५९॥ताप्यचूर्णं प्रदातव्यं किंचित्किंचित्तु वापयेत् ।स्वर्णशेषं समुद्धृत्य स्यादिदं स्वर्णबीजकम् ॥१४.६०॥{चन्द्रार्क => गोल्द्}स्वर्णबीजं समं सूते जारयेदभ्रसत्त्ववत् ।ततस्तेन शतांशेन मधुनाक्तेन लेपयेत् ॥१४.६१॥समं चंद्रार्कपत्राणि वेष्टयेच्चार्कपत्रकैः ।दोलायंत्रे सारनाले दशाहं पाचयेच्छनैः ॥१४.६२॥उद्धृत्यावर्तयेत्तानि दिव्यं भवति कांचनम् ॥१४.६३॥{बीजः: फ़्रों गोल्द्}मृततीक्ष्णार्कभागं च ताप्यचूर्णं समम् ।एतद्वाह्यं द्रुते स्वर्णे यावद्दशगुणं शनैः ।स्वर्णशेषं समादाय स्यादिदं स्वर्णबीजकम् ॥१४.६४॥{बीजः: फ़्रों गोल्द्}तीक्ष्णं कांतं मृतं चैव शुल्वं तारं समं समम् ।मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥१४.६५॥तत्खोटं द्राविते स्वर्णे वाह्यं दशगुणैः शनैः ।पूर्ववत्ताप्यचूर्णेन स्वर्णबीजमिदं परम् ॥१४.६६॥{सिल्वेर्=> गोल्द्}यथेष्टं स्वर्णबीजैकं पादांशं जारयेद्रसे ।पूर्ववत्क्रमयोगेन सत्त्वबीजेन सारयेत् ॥१४.६७॥सारिते जारयेत्तद्वदनुसार्येण जारयेत् ।प्रतिसार्य ततो जार्यं मुखं बद्ध्वा च बन्धयेत् ॥१४.६८॥पञ्चांशं दशयोगेन तारे वेधं प्रदापयेत् ।क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥१४.६९॥{सिल्वेर्=> गोल्द्}नागं रसकसत्त्वं च ताम्रं भागं क्रमोत्तरम् ।ध्मापितं वाहयेत्स्वर्णे षड्गुणं वापयेच्छनैः ॥१४.७०॥स्वर्णशेषं तु तज्जार्यं समांशं पारदे क्रमात् ।यथापूर्वं मारणादिबंधनान्तं च कारयेत् ॥१४.७१॥अनेन षष्टिभागेन पूर्ववत्कांचनं भवेत् ॥१४.७२॥{चन्द्रार्क => स्वर्ण}ताप्येन मारयेच्छुल्बं यथागंधेन मारितम् ।तत्ताम्रं वाहयेन्नागे मूषामध्ये धमन्धमन् ॥१४.७३॥शनैः शतगुणं यावत्ताप्यचूर्णं क्षिपन्क्षिपन् ।तत्ताम्रं वाहयेत्स्वर्णे द्वात्रिंशद्गुणितं क्रमात् ॥१४.७४॥स्वर्णशेषं तु तद्बीजं समांशं जारयेद्रसे ।अनेनैव तु बीजेन सारयेज्जारयेत्पुनः ॥१४.७५॥पूर्ववत्क्रमयोगेन बंधनान्तं च कारयेत् ।क्रामणेन समायुक्तं सहस्रांशेन वेधयेत् ।चंद्रार्कं जायते स्वर्णं देवाभरणमुत्तमम् ॥१४.७६॥{सिल्वेर्=> गोल्द्}रसकाभ्रकयोः सत्त्वं ताम्रचूर्णं क्रमोत्तरम् ।मूषायां द्वंद्वलिप्तायां रुद्ध्वा ध्माते समुद्धरन् ॥१४.७७॥तत्खोटांशं ताप्यचूर्णं दत्त्वा चाम्लेन मर्दयेत् ।रुद्ध्वा लघुपुटे पच्यादेवं पञ्चपुटैः पचेत् ॥१४.७८॥तच्चूर्णं वाहयेत्स्वर्णे धाम्यमाने शनैः शनैः ।सहस्रगुणितं यावत्तद्बीजं जारयेद्रसे ॥१४.७९॥यावच्छतगुणं यत्नादनेनैव तु सारयेत् ।जारणं सारणं चैव बंधनान्तं च पूर्ववत् ॥१४.८०॥कृत्वाथ लक्षभागेन तारं भवति कांचनम् ॥१४.८१॥{सिल्वेर्=> गोल्द्}अभ्रसत्त्वं रविं नागं क्रमवृद्ध्या विचूर्णयेत् ।मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥१४.८२॥तत्समं ताप्यचूर्णं तु सर्वमम्लेन मर्दयेत् ।रुद्ध्वा पञ्चपुटैः पच्यात्तच्चूर्णं वाहयेद्द्रुतम् ॥१४.८३॥स्वर्णे शतं यावत्तावत्स्वर्णं च जारयेत् ।युक्त्या शतगुणं यावत्त्रिधानेनैव सारयेत् ॥१४.८४॥सारिते जारणं कुर्याद्बंधनान्तं च पूर्ववत् ।अयुतांशेन तेनैव तारं भवति कांचनम् ॥१४.८५॥{चन्द्रार्क => गोल्द्}अथवा पूर्वचूर्णं तु सहस्रगुणितं द्रुते ।स्वर्णे वाह्यं क्रमेणैव तद्बीजं जारयेद्रसे ॥१४.८६॥सहस्रगुणितं यावत्त्रिधा तेनैव सारयेत् ।सारितं जारयेत्पश्चात्पुनः सार्यं च जारयेत् ॥१४.८७॥सप्तशृङ्खलिकायोगात्सारितं जारयेद्बुधः ।मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ।क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥१४.८८॥{चोप्पेर्=> सिल्वेर्}विमला तालकं तीक्ष्णं भागवृद्ध्या विचूर्णयेत् ।मूषायां द्वंद्वलिप्तायां तत्खोटं सुविचूर्णयेत् ॥१४.८९॥अम्लैर्मर्द्यं पुटे पच्यादित्येवं पंचधा पुटेत् ।तारे दशगुणं वाह्यं तालचूर्णं क्षिपन्क्षिपन् ॥१४.९०॥एतद्बीजं समं सूते जारयेत्पूर्ववत्क्रमात् ।ततस्तु तारबीजेन सारयेत्सारणात्रयम् ॥१४.९१॥तेनैव तु शतांशेन द्रुतं ताम्रं तु वेधयेत् ।शंखकुंदेन्दुसंकाशं तारं भवति शोभनम् ॥१४.९२॥{चोप्पेर्=> सिल्वेर्}मृतबंगं तालसत्त्वं समं चूर्णं प्रकल्पयेत् ।द्विरष्टगुणितं तारे वाहयेत्तं धमन्धमन् ॥१४.९३॥तद्बीजं जारयेत्सूते यावद्दशगुणं क्रमात् ।ततस्तं तारबीजेन सारयेत्सारणात्रयम् ॥१४.९४॥सहस्रांशेन चानेन ताम्रवेधं प्रदापयेत् ।तत्ताम्रं जायते तारं शंखकुंदेन्दुसन्निभम् ॥१४.९५॥{मेर्चुर्यः: शतवेधिन्}श्वेताभ्रतालयोः सत्त्वं रसकस्य च सत्त्वकम् ।चतुर्थं तारमाक्षीकं समं चूर्णं प्रकल्पयेत् ॥१४.९६॥चूर्णतुल्यं बंगचूर्णं सर्वमेकत्र तं धमेत् ।द्वंद्वमेलापलिप्तायां जातं खोटं विचूर्णयेत् ॥१४.९७॥अम्लपिष्टं पुटे पच्यादित्येवं पंचधा पुटेत् ।तच्चूर्णं वाहयेत्तारे यावद्दशगुणं धमेत् ॥१४.९८॥तत्तारं रसराजस्य समं जार्यं क्रमेण वै ।पूर्ववच्च त्रिधा सार्यं शतवेधी भवेद्रसः ॥१४.९९॥{चोप्पेर्=> सिल्वेर्}एवं सत्त्वाभ्रसत्त्वं च चूर्णं द्वंद्वं च पूर्ववत् ।पादांशं तालकं दत्त्वा अम्लैः पिष्ट्वा निरुध्य च ॥१४.१००॥पचेत्पञ्चपुटैरेवं तारे वाह्यं द्विषड्गुणम् ।एतद्बीजं समं जार्यं प्रत्येकं दशभागकम् ॥१४.१०१॥बंगं श्वेताभ्रसत्त्वं च प्रत्येकं दशभागकम् ।ताराख्या विमला तीक्ष्णं प्रत्येकं पञ्चभागिकम् ॥१४.१०२॥द्वंद्वमेलापलिप्तायां मूषायां तं धमेद्दृढम् ।अम्लपिष्टं पुटे पाच्यं पञ्चवारं पुनः पुनः ॥१४.१०३॥तद्वाह्यं तारभागस्य तारचूर्णं क्षिपन्क्षिपन् ।तद्बीजं रसराजस्य जार्यं शतगुणं क्रमात् ॥१४.१०४॥सारयेत्तारबीजेन विधिना सारणात्रयम् ।अनेनैवायुतांशेन द्रुतं ताम्रं तु वेधयेत् ।जायते रजतं दिव्यं शंखकुन्देन्दुसन्निभम् ॥१४.१०५॥इत्थं रसे कनकबीजमनन्तयोगैः कृत्वा भिषक्तमखिलं विधिवच्च जार्यम् ।तेनैव हेमनिचयं रजतं च कृत्वा दारिद्र्यदाहमखिलेषु जनेषु कुर्यात् ॥१४.१०६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP