संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.२ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.२ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.२ Translation - भाषांतर भक्त्या शास्त्रविचारणादनुदिनं पूजाविधेः पालनात्स्वात्मानन्दनिमज्जनात्परहितात्कार्यक्रियागोपनात् ।नित्यं सद्गुरुसेवनादनुभवात्सूतस्य सद्भावनाद्दास्यन्ते निजरश्मयो वरबलात्सत्सम्प्रदायात्स्फुटम् ॥२.१॥रसादिलोहपर्यन्तं शोधने मारणे हितम् ।भावनायां क्वचिच्चैव नानावर्गो निगद्यते ॥२.२॥{देफ़ौल्त्वलुएस्}अङ्गे नोक्ते भवेन्मूलं द्रवः सर्वाङ्गतो भवेत् ।अमात्रायां समा मात्रा विज्ञेया रसकर्मणि ॥२.३॥{क्षारवर्ग}तिलापामार्गकदलीचित्रकार्द्रकमूलकम् ।शिग्रुमोक्षपलाशं च सर्वमन्तःपुटे दहेत् ॥२.४॥समालोड्य जलैर्वस्त्रैर्बद्ध्वा ग्राह्यमधोजलम् ।शोधयेत्पाचयेदग्नौ मृद्भाण्डेन तु तज्जलम् ॥२.५॥ग्राह्यं क्षारावशेषं तद्वृक्षक्षारमिदं स्मृतम् ।{श्वेतवर्ग, शुक्लवर्ग}चुन्नं कूर्पं शङ्खशुक्तिवराटैः शुक्लवर्गकः ॥२.६॥{विड्वर्ग}कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् ।{अम्लवर्ग}चाङ्गेरी चणकाम्लं तु मातुलुङ्गाम्लवेतसम् ॥२.७॥चिञ्चानारङ्गजम्बीरमम्लवर्ग इति स्मृतः ।{लवणपञ्चक}सामुद्रं सैन्धवं काचं चुल्लिका च सुवर्चलम् ॥२.८॥चूलिकानवसारः स्यादेतल्लवणपञ्चकम् ।{त्रिक्षार}सज्जीक्षारं यवक्षारं टङ्कणं च तृतीयकम् ॥२.९॥{मूत्रवर्ग}क्षारत्रयमिदं ख्यातं अजाश्वमहिषीगवाम् ।नारीमेषीखरोष्ट्राणां मूत्रवर्गो गजस्य च ॥२.१०॥{मित्रपञ्चक}मध्वाज्यटङ्कणं गुञ्जा गुडः स्यान्मित्रपञ्चकम् ।{पित्तवर्ग}नराश्वशिखिगोमत्स्यपित्तानि पित्तवर्गके ॥२.११॥{वसावर्ग}मत्स्याहिनरमेषीणां शिखिनां च वसा मता ।{रक्तवर्ग}मञ्जिष्ठा कुङ्कुमं लाक्षा दाडिमं रक्तचन्दनम् ॥२.१२॥बन्धूकं करवीरं च रक्तवर्गो ह्ययं भवेत् ।{पीतवर्ग}कुसुम्भं किंशुकं रात्रिः पतंगं मदयन्तिका ॥२.१३॥पीतवर्गो ह्ययं ख्यातो दिव्यौषधिगणं शृणु ।{दिव्यौषधिगण}अजकर्णी शङ्खपुष्पी रुदन्ती काकतुण्डिका ॥२.१४॥हंसपादी व्याघ्रनखी चाण्डाली क्षीरकन्दकः ।वन्ध्याकर्कोटकी रम्भा गोजिह्वा कोकिलाक्षकः ॥२.१५॥शाकवृक्षो हेमवल्ली पातालगरुडी शमी ।कटुतुम्बी वज्रलता सूरणं वनसूरणम् ॥२.१६॥मेषशृङ्गी चक्रमर्दो जलकुम्भी शतावरी ।गुञ्जा कोशातकी नीली आखुकर्णी त्रिपर्णिका ॥२.१७॥कुक्कुटी कृष्णतुलसी पुङ्खा श्वेतापराजिता ।गरुडी लाङ्गली ब्राह्मी चाङ्गेरी पद्मचारिणी ॥२.१८॥{वज्रशोधनं (१)}गृहीत्वाथ शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।महिषीविष्ठया लिप्त्वा तुलाग्नौ च पुटे पचेत् ॥२.१९॥अहोरात्रात्समुद्धृत्य हयमूत्रैर्निषेचयेत् ।व्याघ्रीकन्दे पुनः क्षिप्त्वा वज्रकंदोदरे क्षिपेत् ।हयमूत्रैर्निषिञ्च्याच्च पुटेत्सिञ्च्याच्च पूर्ववत् ॥२.२०॥एवं सप्तदिनैः शुद्धं वज्रं स्यान्नात्र संशयः ।{वज्रशोधनं (२)}कुलत्थकोद्रवक्वाथहयमूत्रस्नुहीपयः ॥२.२१॥क्षिप्त्वा भाण्डे क्षिपेत्तस्मिन्व्याघ्रीकन्दगतं पविम् ।दोलायंत्रे दिवारात्रौ समुद्धृत्य पुनः क्षिपेत् ॥२.२२॥व्याघ्रीकन्दं महाकन्दे क्षिप्त्वा गजपुटे पचेत् ।तत्पक्वं काञ्चनीद्रावैः सेचयेच्छुद्धिमाप्नुयात् ।{वज्रशोधनं (३)}आखुकर्णी मेघनादः प्रियङ्गुर्मेषशृङ्गिका ।अम्लवेतसनिर्गुण्डीकुलत्थकोद्रवाः शमी ॥२.२३॥मुनिश्च हयमूत्रेण कषायं कारयेच्छुभम् ।जम्बीरे सूरणे वाथ क्षिप्त्वा वज्रं दिनं पचेत् ॥२.२४॥पूर्वक्वाथेन दोलायां शुद्धिमाप्नोति नान्यथा ।{वज्रः: मारण}शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्तु तत् ॥२.२५॥अग्निवर्णं क्षिपेन्मूत्रे गर्दभोत्थे पुनः पुनः ।लेपितं धामितं तद्वदेवं कुर्यात्त्रिसप्तधा ॥२.२६॥{वज्रः: मारण}तालकं मत्कुणैः पिष्ट्वा गोले तस्मिन्क्षिपेत्तु तत् ।रुद्ध्वा मूषां धमेद्दार्ढ्यात्हयमूत्रे विनिक्षिपेत् ॥२.२७॥समुद्धृत्य पुनस्तद्वत्सप्तवारान्मृतो भवेत् ।{वज्रमारणं (३)}मेषशृंगी भुजगास्थि कूर्मपृष्ठं शिलाजतु ॥२.२८॥गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ।त्रिक्षारं पंचलवणं मेषशृङ्गीन्द्रवारुणी ॥२.२९॥वज्रवल्ली मूषकर्णी बदरीकुड्मलानि च ।मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणाः ॥२.३०॥पञ्चाङ्गां शरपुङ्खां च हस्तिनीरं नृछागयोः ।पेटारीबीजं स्त्रीपुष्पं पारावतमलं शिलाम् ॥२.३१॥पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं निम्बकस्य च ।धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा चाजमूत्रकम् ॥२.३२॥हंसपादी वज्रकन्दं बृहतीफलसूरणे ।गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ॥२.३३॥एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ।तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ॥२.३४॥कुलत्थं कोद्रवं पिष्ट्वा हयमूत्रैर्विलोडयेत् ।तन्मध्ये सेचयेत्तप्तां मूषां पुटविनिर्गताम् ॥२.३५॥एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।आदाय पूर्वजं वज्रताले मत्कुणपेषिते ॥२.३६॥गोलके निक्षिपेद्रुद्ध्वा मूषां तीव्रानले धमेत् ।इत्येवं सप्तधा धाम्यं हयमूत्रैर्निषेचयेत् ॥२.३७॥अनेन क्रमयोगेन मृतं भवति निश्चितम् ।तं मृतं चूर्णयेत्खल्वे सिद्धयोग उदाहृतः ॥२.३८॥{मेर्चुर्यः: शोधन}भ्रामकस्य मुखं ताप्यं पेटारीबीजटङ्कणे ।क्षारं चोत्तरवारुण्या गन्धकं तालकं शमी ॥२.३९॥भूधरस्थं पुटैकेन समुद्धृत्य विमर्दयेत् ।पूर्ववत्पूर्वजैर्द्रावैस्तद्वद्रुद्ध्वा च पाचयेत् ॥२.४०॥पुनर्मर्द्यं पुनः पाच्यं दशवारं च पूर्ववत् ।पातयेत्पातनायंत्रे सम्यक्शुद्धो भवेद्रसः ॥२.४१॥{मेर्चुर्यः: शोधन}रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।जम्बीरोत्थैर्द्रवैर्यामं पात्यं पातनयन्त्रके ॥२.४२॥पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।{मेर्चुर्यः: शोधन}अथवा पारदं मर्द्यं तप्तखल्वे दिनावधि ।कुमारीरजनीचुन्नैः पात्यं पातनयन्त्रके ॥२.४३॥कन्याग्नित्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।इत्येवं सप्तधा कुर्यात्सम्यक्शुद्धो भवेद्रसः ॥२.४४॥{मेर्चुर्यः: मर्दनः: अप्प्लिचतिओन्}युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् ।शोधने चारणे चैव जारणे च विशेषतः ।मूर्छने मारणे चैव बन्धने च प्रशस्यते ॥२.४५॥{तप्तखल्व}अजाशकृत्तुषाग्निं च भूगर्ते त्रितयं क्षिपेत् ।तस्योपरि स्थितं खल्वं तप्तखल्वमिदं भवेत् ॥२.४६॥खल्वं लोहमयं शस्तं मर्दकं चैव लोहजम् ।तदभावे शिलोत्थं वा योग्यं खल्वं च मर्दकम् ॥२.४७॥{मेर्चुर्यः: हिङ्गुलाकृष्ट}अथवा हिंगुलात्सूतं ग्राहयेत्तन्निगद्यते ।गोमूत्रैर्माहिषैर्मूत्रैस्तिलतैलसुराम्लकैः ॥२.४८॥सप्ताहं हिंगुलं पाच्यं लोहपात्रे क्रमाग्निना ।चालयेल्लोहदण्डेन द्रावं दत्त्वा पुनः पुनः ॥२.४९॥सद्रवं तं समादाय शिखिपित्तेन भावयेत् ।दिनान्ते पातनायन्त्रे पातयेच्चण्डवह्निना ॥२.५०॥सप्तकञ्चुकनिर्मुक्तः ख्यातोऽयं शुद्धसूतकः ॥२.५१॥कन्याभिस्त्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।इत्येवं सप्तधा कुर्यात्सम्यक्शुद्धो भवेद्रसः ॥२.५२॥{मेर्चुर्यः: हिङ्गुलाकृष्ट}दिनैकं हिङ्गुलं खल्वे मर्द्यमम्लेन केनचित् ।पातयेत्पातनायंत्रे दिनान्ते तत्समुद्धरेत् ।विना कर्माष्टकेनैव सूतोऽयं सर्वकार्यकृत् ॥२.५३॥सर्वसिद्धमतमेतदीरितं सूतशुद्धिकरमद्भुतं परम् ।अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ॥२.५४॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP