संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण २.५ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण २.५ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण २.५ Translation - भाषांतर उद्वर्तनं पलितहारि परं नराणां शोभावहं सुखकरं कचरञ्जनं च ।वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥५.१॥पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् ।विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥५.२॥आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् ।यवचूर्णं तिलाश्चैव प्रत्येकं रसतुल्यकम् ॥५.३॥क्षिपेत्तस्मिन्घृतैः क्षौद्रैः सर्वमालोड्य रक्षयेत् ।अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥५.४॥वत्सराद्दिव्यदेहः स्याज्जीवेद्वर्षसहस्रकम् ।वज्रकापालिनीमूलं पारदं च समं समम् ॥५.५॥शिवाम्बुना त्र्यहं मर्द्यमुद्वर्तात्पूर्ववत्फलम् ।उत्पलानि समूलानि पारदं च समं समम् ॥५.६॥सप्ताहं मर्दयेत्खल्वे स्वकीयेनाशिवाम्बुना ।तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥५.७॥पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् ।क्षिप्त्वा सप्तदिनं मर्द्यं स्वकीयेनाशिवाम्बुना ॥५.८॥अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् ।गन्धकं कटुतैलेन घर्मे भाव्यं दिनावधि ॥५.९॥तत्पलार्धं सदा खादेद्दिव्यकायकरं नृणाम् ।जायते स्वर्णवद्देहो वत्सराद्वलिवर्जितः ॥५.१०॥कुष्ठचूर्णं समध्वाज्यं नित्यं कर्षं लिहेत्तु यः ।वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥५.११॥कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् ।काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥५.१२॥भाण्डे रुद्ध्वा क्षिपेन्मासं धान्यराशावथोद्धरेत् ।अनेन लेपयेच्छीर्षं नस्यं कुर्यादनेन वै ॥५.१३॥त्र्यहाद्भ्रमरसंकाशाः केशाः स्युर्वत्सरार्धकम् ।नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥५.१४॥पथ्याचूर्णं निष्कमेकं सर्वं पेष्यं दिनावधि ।अम्लदध्ना युतं यत्नात्स्नात्वादौ शिरसि क्षिपेत् ॥५.१५॥मर्दयेद्घटिकार्धं तु वेष्ट्यं एरण्डपत्त्रकैः ।शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥५.१६॥इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् ।पञ्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥५.१७॥तुल्यं सर्वं कृतं सूक्ष्ममिडामूत्रेण मर्दयेत् ।दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥५.१८॥गुञ्जाबीजं तु त्वग्वर्ज्यं कुष्ठैलादेवदारुकम् ।तुल्यं चूर्णं दिनं भाव्यं भृङ्गराजभवैर्द्रवैः ॥५.१९॥सर्वं चतुर्गुणे तैले पाचयेन्मृदुवह्निना ।तेनाभ्यङ्गेन केशानां रञ्जनं भ्रमरोपमम् ॥५.२०॥हस्तिदन्तस्य दग्धस्य समं योज्यं रसाञ्जनम् ।अजाक्षीरेण तत्पिष्ट्वा लेपनात्केशरञ्जनम् ॥५.२१॥त्रिफला लोहचूर्णं तु कृष्णमृद्भृङ्गजद्रवम् ।इक्षुदण्डद्रवं चैव मासं भाण्डे निरोधयेत् ॥५.२२॥तल्लेपाद्रञ्जयेत्केशान्स्याद्यावन्मासपञ्चकम् ।लोहकिट्टं जपापुष्पं पिष्ट्वा धात्रीफलं समम् ॥५.२३॥त्रिदिनं लेपितास्तेन कचाः स्युर्भ्रमरोपमाः ।भृङ्गराजरसप्रस्थं तैलं कृष्णतिलोद्भवम् ॥५.२४॥तुल्यं च नीलिकाद्रावं सर्वं यामं विमर्दयेत् ।तल्लेपस्त्रिदिनं कार्यः केशानां रञ्जनं भवेत् ॥५.२५॥सिन्दूरस्य समं चूर्णं साबुणं च तयोः समम् ।तज्जले पेषितं लेप्यं तत्क्षणात्कचरञ्जनम् ॥५.२६॥शतपुष्पा काकमाची तिलाः कृष्णाश्च रोचनम् ।दिनं शिवाम्बुना सर्वं मर्दयेल्लोहपात्रके ॥५.२७॥तल्लेपं त्रिदिनं कुर्यात्केशानां रञ्जनं भवेत् ।चूर्णं सर्जी यवक्षारं सिद्धार्थं काञ्जिकैः सह ॥५.२८॥नागपुष्पाद्रवैर्मर्द्यं तल्लेपाद्रञ्जनं भवेत् ।नीलीपत्त्राणि कासीसं भृङ्गराजरसं दधि ॥५.२९॥लोहचूर्णं समं पिष्ट्वा तल्लेपं केशरञ्जनम् ।चूर्णं सिन्दूरमङ्गारं कदलीकन्दसंयुतम् ॥५.३०॥लोहपात्रे लोहमुष्ट्या मर्द्यं जम्बीरजैर्द्रवैः ।दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥५.३१॥कुरण्टकस्य पत्त्राणि नागमुष्ट्या विमर्दयेत् ।तल्लेपं त्रिदिनं कुर्याज्जायते केशरञ्जनम् ॥५.३२॥आम्रास्थि त्रिफला भृङ्गी प्रियङ्गुर्मातुलुङ्गकम् ।निशा नीली मृणालानि नागं लोहं च चूर्णितम् ॥५.३३॥समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् ।मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥५.३४॥काकमाचीयबीजानि समाः कृष्णतिलास्तथा ।तत्तैलं ग्राहयेद्यन्त्रे तन्नस्यं केशरञ्जनम् ॥५.३५॥गोघृतं भृङ्गजं द्रावं मयूरशिखया सह ।मृद्वग्निना पचेत्तेन स्यान्नस्यं केशरञ्जनम् ॥५.३६॥जपापुष्पद्रवं क्षौद्रं कर्षैकं नस्यमाचरेत् ।सप्ताहाद्रञ्जयेत्केशान्सर्वनस्येष्वयं विधिः ॥५.३७॥त्रिफला लोहचूर्णं तु वारिणा पेषयेत्समम् ।तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥५.३८॥पचेत्तैलावशेषं तत्स्निग्धभाण्डे निरोधयेत् ।मासैकं भूगतं कुर्यात्तेन शीर्षं प्रलेपयेत् ॥५.३९॥कारवल्ल्या दलैर्वेष्ट्य ततो वस्त्रेण बन्धयेत् ।निर्वाते क्षीरभोजी स्यात्क्षालयेत्त्रिफलाजलैः ॥५.४०॥नित्यमेवं प्रकर्तव्यं लेपनं दिनसप्तकम् ।कपालरञ्जनं ख्यातं यावज्जीवं न संशयः ॥५.४१॥बीजानि काकतुण्ड्याश्च सिर्यालीबीजसंयुतम् ।तच्चूर्णं दिनचत्वारि भाव्यं निर्गुण्डीजैर्द्रवैः ॥५.४२॥जपापुष्पद्रवैस्तावत्ततः पातालयन्त्रके ।तैलं प्राह्यं तु तल्लेपात्केशानां रञ्जनं भवेत् ॥५.४३॥वेष्ट्यमेरण्डपत्त्रैश्च निर्वाते क्षीरभोजनम् ।कुर्यात्स्नानं काञ्जिकैश्च नित्यं सप्तदिने कृते ॥५.४४॥यावज्जीवं न संदेहः केशाः स्युर्भ्रमरोपमाः ।भृङ्गराजं काचमाचीं समांशं जलमण्डवीम् ॥५.४५॥संपिष्ट्यापूपिकां कृत्वा तैलमध्ये विपाचयेत् ।पक्वां तां पेषयेत्तैलैर्लेपः स्यात्केशरञ्जनम् ॥५.४६॥पूर्ववत्क्रमयोगेन सप्ताहात्तत्फलं भवेत् ।अयस्कान्तमये पात्रे रात्रौ लेप्यं फलत्रयम् ॥५.४७॥भृङ्गराजद्रवैः सार्धं प्रातः केशान्प्रलेपयेत् ।एवं कुर्यात्त्रिसप्ताहं जायते पूर्ववत्फलम् ॥५.४८॥प्रक्षिपेन्माहिषे शृङ्गे कृष्णजीरं तदन्धयेत् ।गृहाग्रे कर्दमे क्षिप्त्वा षण्मासात्तत्समुद्धरेत् ॥५.४९॥तद्द्रुतं जायते कृष्णं कर्षैकं शिरसि क्षिपेत् ।वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥५.५०॥भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः ।नीलीपत्त्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥५.५१॥मदनस्य च बीजानि पुष्पं कोरण्टकस्य च ।अर्जुनस्य त्वचं चूर्णं नलिनीमूलकर्दमम् ॥५.५२॥सर्वं तुल्यं क्षिपेद्भाण्डे लोहजे तन्निरोधयेत् ।पक्षमेकं क्षिपेद्भूमौ भाण्डात्कल्कं समुद्धरेत् ॥५.५३॥कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् ।भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥५.५४॥परीक्षार्थं क्षिपेत्पक्षं बलाकाया यदा भवेत् ।कृष्णवर्णं तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥५.५५॥मासैकं धारयेत्तस्मिंस्ततः केशान्विलेपयेत् ।तिष्ठन्ति मासषट्कं तु भ्रमरस्तोमसंनिभाः ॥५.५६॥वासापलाशचिञ्चोत्थैर्दण्डैर्वाश्वत्थजैर्दृढम् ।नागं पात्रगतं चाल्यं यावद्भवति मूर्छितम् ॥५.५७॥पलैकं तत्समादाय लोहचूर्णं पलद्वयम् ।त्रिपलं त्रिफलाचूर्णं दाडिमस्य फलत्वचः ॥५.५८॥शुष्कं चूर्णं पलैकं तत्सर्वेषां काञ्जिकं समम् ।भाण्डे सर्वं पचेत्किंचित्तं क्षिपेल्लोहभाजने ॥५.५९॥भृङ्गराजकुरण्टोत्थद्रवं दत्त्वातपे क्षिपेत् ।त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥५.६०॥ततस्तं रक्षयेत्तेन लेपात्स्यात्केशरञ्जनम् ।उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्त्रकैः ॥५.६१॥शिरो रात्रौ दिवा स्नानं युक्तिरेषा प्रशस्यते ।वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् ।तच्चूर्णयुक्ततैलस्य लेपाच्छुक्ला भवन्ति हि ॥५.६२॥केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै ।सप्ताहं वज्रदुग्धेन सुश्वेतान्भावयेत्तिलान् ॥५.६३॥तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति वै ।गौर्यामलकचूर्णं तु वज्रीक्षीरेण सप्तधा ॥५.६४॥भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः ।सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥५.६५॥तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि ।मासैकं मागधीचूर्णं वज्रीक्षीरेण भावयेत् ॥५.६६॥नराश्वगजवाजिनां शुक्लीकरणमुत्तमम् ।इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥५.६७॥मनःशिला च तुल्यांशं चूर्णं स्नुक्पयसा त्र्यहम् ।भावयेदर्कजैः क्षीरैस्त्रिदिनं चातपे खरे ॥५.६८॥ततः कुष्माण्डजैर्द्रावैर्भावयेद्दिनसप्तकम् ।कूष्माण्डस्य ततो गर्भे क्षिप्त्वा मासात्समुद्धरेत् ॥५.६९॥तैलेन सर्वरोमाणि केशान्संलेपयेत्त्र्यहम् ।वेष्टयेदर्कजैः पत्त्रैः शुक्लवर्णा भवन्ति च ॥५.७०॥स्नाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्ट्यम् ।दध्ना तिलैः स्नानमतः प्रभाते कुर्यात्त्र्यहं लेपनमित्थमेव ॥५.७१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP