संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.८ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.८ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.८ Translation - भाषांतर {तिनः: शोधन}कार्पासार्ककरञ्जधूर्तमुनिजैर्भल्लातगुञ्जाग्निजैः स्नुग्वज्रीपयसा च सूरणभवैर्द्रावैश्च मूलैः फलैः ।तक्राक्तैर्बहुतप्तखर्परगतं वङ्गं निषिञ्च्यान्मुहुर्यावत्पञ्चदिनं तदेव विमलं वादे सदा योजयेत् ॥८.१॥{तिनः: शोधन}अथवा वङ्गचूर्णं तु माषैर्भल्लातजैः फलैः ।समं खल्वे दिनं मर्द्यं भल्लाततैलसंयुतम् ॥८.२॥तत्पिण्डं माहिषे शृङ्गे क्षिप्त्वा रुद्ध्वा महापुटे ।पचेत्तस्मात्समुद्धृत्य पुनस्तद्वच्च मर्दयेत् ॥८.३॥इत्येवं सप्तधा कुर्यात्खोटं पाकं च मर्दनम् ।तद्वङ्गं मलनिर्मुक्तं स्तम्भकर्मणि योजयेत् ॥८.४॥{तिनः: स्तम्भन}तीक्ष्णपाषाणसत्त्वं च द्रुतवङ्गे द्रुतं क्षिपेत् ।चतुःषष्टितमांशेन स्तम्भमायाति निश्चितम् ॥८.५॥{तिन्=> सिल्वेर्}श्वेताभ्रं श्वेतकाचं च टंकणं शङ्खपुष्पिका ।विषं च तुल्यतुल्यांशं चूर्णं भाव्यं त्रिसप्तधा ॥८.६॥काकमाचीद्रवैः क्षीरैः स्नुह्यर्कैश्चातपे खरे ।द्रुते वङ्गे प्रदातव्यं प्रतिवापं च सेचयेत् ॥८.७॥पुत्रजीवोत्थतैलेन सप्तवारं पुनः पुनः ।तत्तारं जायते दिव्यं यावच्चन्द्रार्कतारकम् ॥८.८॥{तिन्=> सिल्वेर्}श्वेताभ्रं श्वेतकाचं च विषसैन्धवटंकणम् ।स्नुहीक्षीरैर्दिनं मर्द्यं श्वेतवङ्गस्य पत्रकम् ॥८.९॥लेप्यं पादांशकल्केन चांधमूषागतं धमेत् ।आदाय द्रावयेद्भूमौ पूर्वतैलेन सेचयेत् ॥८.१०॥पत्रादिलेपसेकं च सप्तवाराणि सेचयेत् ।तद्वङ्गं जायते तारं शंखकुन्देन्दुसन्निभम् ॥८.११॥{तिन्=> सिल्वेर्}समं तालं शिलां पिष्ट्वा देवदाल्या द्रवैर्दिनम् ।द्रवैरीश्वरलिङ्ग्याश्च दिनमेकं विमर्दयेत् ॥८.१२॥नागं वङ्गं समं द्राव्यं तच्चूर्णं पलपञ्चकम् ।पूर्वकल्केन संतुल्यं समालोड्यान्धितं पुटेत् ॥८.१३॥एवं पुनः पुनः पाच्यं पूर्वकल्केन संयुतम् ।भवेत्षष्टिपुटैः सिद्धं वङ्गस्तम्भकरं परम् ॥८.१४॥शतमांशेन दातव्यं वेधात्तारं करोत्यलम् ॥८.१५॥{तिन्=> सिल्वेर्}सूतकं तालमेकैकं नृकपालं द्विभागकम् ।सर्वतुल्यं विषं योज्यं पञ्चाङ्गं रक्तचित्रकात् ॥८.१६॥विषतुल्यं क्षिपेच्चूर्णं वज्रीक्षीरेण भावितम् ।मासमात्रं दिवारात्रौ तद्वापं षोडशांशतः ॥८.१७॥दत्ते वारत्रयं वङ्गे तारं भवति शोभनम् ॥८.१८॥{तिन्=> सिल्वेर्}गोरम्भा ह्यौषधी नाम नरमूत्रेण पेषयेत् ।तेन पिण्डद्वयं कृत्वा तत्रैकस्योपरि क्षिपेत् ॥८.१९॥क्षारत्रयस्य चूर्णं तु तत्पृष्ठे वङ्गचूर्णकम् ।क्षारत्रयं ततो दत्त्वा पिण्डं तस्योपरि क्षिपेत् ॥८.२०॥मुखं बद्ध्वा पुटे पच्यात्स्वाङ्गशीतं समुद्धरेत् ।एवं वारत्रयं कुर्यात्तारं भवति शोभनम् ॥८.२१॥वसन्ते जायते सा तु गोरम्भा पीतपुष्पिका ।तस्या मध्यमकाण्डार्धे श्वेतकार्पासवद्भवेत् ॥८.२२॥वसन्तपुष्पिकां वापि तदभावे नियोजयेत् ।बाला नाम समाख्याता कट्या धूलीसमा तथा ॥८.२३॥{तिन्=> सिल्वेर्}श्वेतपालाशपुष्पाणि छायाशुष्काणि चूर्णयेत् ।एकविंशतिवारेण मेषीक्षीरेण भावयेत् ॥८.२४॥तच्चूर्णं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ।तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ॥८.२५॥{तिन्=> सिल्वेर्}तत्पुष्पं हरितालं च मेषीदुग्धेन पेषयेत् ।तद्वापं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ॥८.२६॥तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ।{तिन्=> सिल्वेर्}तक्रेण तानि पुष्पाणि भावयित्वा त्रिसप्तधा ॥८.२७॥तेन कल्केन वङ्गस्य पत्राणि परिलेपयेत् ।अंधमूषागतं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥८.२८॥तत्तारं जायते दिव्यं धर्मकामफलप्रदम् ।{तिन्=> सिल्वेर्}रसो मूषकपाषाणं फट्किरी नीलं अञ्जनम् ॥८.२९॥अगस्तिपत्रनिर्यासैः सर्वं मर्द्यं दिनावधि ।भाण्डमध्ये निधायाथ पाचयेद्दीपवह्निना ॥८.३०॥अगस्तिपत्रनिर्यासं जीर्णे जीर्णे प्रदापयेत् ।दिनान्ते तत्समुद्धृत्य द्रुते वङ्गे प्रदापयेत् ॥८.३१॥त्रिंशदंशेन तत्तारं जायते देवभूषणम् ।{तिन्=> सिल्वेर्}तारेण द्वंद्वयेद्वज्रं स्वर्णेन द्वंद्वितं यथा ॥८.३२॥अस्य द्वंद्वस्य भागौ द्वौ त्रिभागं शुद्धपारदम् ।अम्लेन मर्दयेत्तावद्यावद्भवति गोलकम् ॥८.३३॥मेषशृङ्ग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् ।अनेन वेष्टयेद्गोलं तद्बहिर्निगडेन च ॥८.३४॥स्वेदादिधमनान्तं च कर्तव्यं हेमपिष्टिवत् ।उत्तरावारुणीक्षीरैस्तत्खोटं च प्रलेपयेत् ॥८.३५॥मूषामध्ये निधायाथ तारं दत्त्वा समं समम् ।दत्त्वा विडवटीं चैव धमेत्सूतावशेषितम् ॥८.३६॥एवं पुनः पुनस्ताप्यं एकविंशतिवारकम् ।दत्त्वा समं समं जार्यं त्रिधा तारेण सारयेत् ॥८.३७॥इदमेव सहस्रांशं द्रुते वङ्गे विनिक्षिपेत् ।तद्वङ्गं जायते तारं वङ्गस्तम्भं शिवोदितम् ॥८.३८॥{तिन्=> सिल्वेर्}रक्तपारदभागैकं भागैकं शंखचूर्णकम् ।श्वेताभ्रकस्य सत्त्वं च सम्यग्भागद्वयं भवेत् ॥८.३९॥टंकणस्य च भागैकं सर्वमेतद्दिनत्रयम् ।वज्रीक्षीरेण संमर्द्यमेवं वारांश्चतुर्दश ॥८.४०॥अनेन शतमांशेन द्रुतं वङ्गं च वेधयेत् ।स्तम्भते नात्र संदेहस्तारं भवति शोभनम् ॥८.४१॥{तिन्=> सिल्वेर्}हेमसूताद्यथा जातं पिष्टीखोटं तु शोभनम् ।तथैव तारसूतेन पिष्टीखोटं तु कारयेत् ॥८.४२॥तत्खोटं तारवङ्गं च सत्त्वं श्वेताभ्रजं समम् ।जार्यं विडवटीं दत्त्वा यावत्खोटावशेषितम् ॥८.४३॥जारणेन त्रिधा सार्यं द्रुते शुल्बे नियोजयेत् ।शतांशेन तु तत्तारं जायते शंभुभाषितम् ॥८.४४॥{तिन्=> सिल्वेर्}द्रुतं सूतं तीक्ष्णचूर्णं समांशं तप्तखल्वके ।टेण्टूछल्लीद्रवैर्मर्द्यं यावद्भवति गोलकम् ॥८.४५॥गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।तप्तखल्वे दिनं मर्द्यं टेण्टूछल्लीरसैर्नवैः ॥८.४६॥अन्धितं भूधरे पच्याद्दिनान्ते तत्समुद्धरेत् ।पूर्वतुल्यं द्रुतं सूतं दत्त्वा मर्द्यं च पूर्ववत् ॥८.४७॥पूर्ववद्भूधरे पच्यादित्येवं सप्तधा क्रमात् ।द्रुतसूतं प्रदातव्यं मर्दनं च पुटं क्रमात् ॥८.४८॥अनेन षोडशांशेन द्रुतं वङ्गं तु वेधयेत् ।जायते दिव्यरूपाढ्यं तारं कुन्देन्दुसन्निभम् ॥८.४९॥{तिन्=> सिल्वेर्}षोडशांशेन यद्दत्तं वङ्गं तस्यापरो विधिः ।तत्तुल्यं गंधकं रुद्ध्वा ध्माते खोटं प्रजायते ॥८.५०॥तत्खोटं तीक्ष्णचूर्णं च समभागं प्रकल्पयेत् ।ताभ्यां तुल्यं द्रुतं सूतं तत्सर्वं तप्तखल्वके ॥८.५१॥मर्दयेट्टेण्टुजद्रावैर्यावद्भवति गोलकम् ।रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ॥८.५२॥पूर्वांशं द्रुतसूतं च दत्त्वा तद्वच्च मर्दयेत् ।तं रुद्ध्वा च पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥८.५३॥अंधमूषागतं धाम्यं तत्खोटं जायते रसः ।तुल्येन तीक्ष्णचूर्णेन मर्दयेच्चान्धितं धमेत् ॥८.५४॥अनेन क्रमयोगेन तीक्ष्णं देयं पुनः पुनः ।यावत्सप्तगुणं तीक्ष्णं दत्त्वा दत्त्वा धमेद्धि तत् ॥८.५५॥तं खोटं सारयेत्पश्चात्क्षारेणैव त्रिधा क्रमात् ।लक्षांशेनैव तेनैव वङ्गवेधं प्रदापयेत् ।शंखकुन्देन्दुसंकाशं तारं भवति शोभनम् ॥८.५६॥{चोप्पेर्=> सिल्वेर्}मधुसंजीवनीं पिष्ट्वा गर्दभस्य तु मूत्रतः ।सप्ताहं तेन मूत्रेण भावयित्वा ततः पुनः ॥८.५७॥तेनैव मर्दयेत्सूतं तप्तखल्वे दिनत्रयम् ।तत्तुल्यं गंधकं दत्त्वा ह्यंधमूषागतं धमेत् ॥८.५८॥तत्खोटं जायते दिव्यं रञ्जनं तस्य कथ्यते ।वङ्गं श्वेताभ्रसत्त्वं च द्वंद्वमेलापसंयुतम् ॥८.५९॥मूषामध्ये तु तत्खोटं पलमात्रं विचूर्णयेत् ।मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥८.६०॥पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।अनेन पूर्वखोटं तु रञ्जयेत्सप्तवारकम् ॥८.६१॥यथा वङ्गाभ्रकेनैव तथा नागाभ्रकैः पुनः ।रञ्जयेत्सप्तवाराणि सूक्ष्मचूर्णं तु कारयेत् ॥८.६२॥द्रुतसूतेन संयुक्तं द्रावयेत्पूर्ववत्क्रमात् ।द्रुतस्य जारयेत्तारं दोलास्वेदेन यत्नतः ॥८.६३॥त्रिषड्गुणं यदा तारं जीर्णं भवति पारदे ।सारयेत्सारणास्तिस्रः सहस्रांशेन वेधयेत् ॥८.६४॥द्रुतं शुल्बं भवेत्तारं शंखकुन्देन्दुसन्निभम् ॥८.६५॥{चोप्पेर्=> सिल्वेर्}श्वेताभ्रकस्य सत्त्वं तु कान्तसत्त्वं तथायसम् ।वङ्गं तारं च वैक्रांतं कदम्बं नागमेव च ॥८.६६॥तुल्यांशमंधमूषायां ध्माते खोटं विचूर्णयेत् ।द्रुतसूतेन संमर्द्यं यावदम्लेन गोलकम् ॥८.६७॥गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥८.६८॥रुद्ध्वाथ भूधरे पच्यादेवं कुर्यात्त्रिसप्तधा ।तत्तुल्यं गंधकं दत्त्वा चांधमूषागतं धमेत् ॥८.६९॥रजतेन समावर्त्य सारणात्रयसारितम् ।सहस्रांशेन शुल्बस्य द्रुतस्योपरि दापयेत् ॥८.७०॥तत्तारं जायते दिव्यं पुटे दत्ते न हीयते ॥८.७१॥{चोप्पेर्Oऱ् तिन्=> सिल्वेर्}वज्रेण सारितं यत्तु सूतभस्म पुरा कृतम् ।तेनैव चाम्लपिष्टेन तारपत्रं चतुर्गुणम् ॥८.७२॥लिप्त्वा रुद्ध्वा पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।पादांशं भस्मसूतं च दत्त्वा रुद्ध्वा पुटे पचेत् ॥८.७३॥एवं चतुःपुटैः पक्वं तत्तारं म्रियते ध्रुवम् ।तेनैव षोडशांशेन द्रुतं ताम्रं तु वेधयेत् ।अथवा द्रावितं वङ्गं तारं भवति शोभनम् ॥८.७४॥{चोप्पेर्=> सिल्वेर्}तारवन्मारयेद्वङ्गं तेन ताम्रं तु वेधयेत् ।तत्तारं जायते दिव्यं षोडशांशे न संशयः ॥८.७५॥{चोप्पेर्=> सिल्वेर्}शुद्धसूतसमां राजीं मर्दयेत्कन्यकाद्रवैः ।त्रिदिनं तप्तखल्वे तु तत्सूतं खर्परोदरे ॥८.७६॥चुल्ल्यां चण्डाग्निना पाच्यं प्रक्षिपेत्कन्यकाद्रवैः ।त्रिदिनान्ते समुद्धृत्य सैन्धवं तच्चतुर्गुणम् ॥८.७७॥दत्त्वा विमर्दयेद्यामं पातनायन्त्रके पचेत् ।चतुर्यामात्समुद्धृत्य क्षालयेदारनालकैः ॥८.७८॥अधःस्थितं समादद्यात्शुद्धः स्यात्पारदः शुभः ।एतत्सूतं मृतं वङ्गं श्वेताभ्रसत्त्वटङ्कणम् ॥८.७९॥विषं च तुल्यतुल्यांशं तालसत्त्वं चतुःसमम् ।मर्द्यं स्नुह्यर्कसत्त्वाभ्यां खल्वके दिवसत्रयम् ॥८.८०॥तद्वटीः काचकूप्यान्तः क्षिप्त्वा कूपीं मृदा लिपेत् ।सच्छिद्रवालुकायन्त्रे हण्डीं मन्दाग्निना पचेत् ॥८.८१॥शुष्के द्रावे मुखं रुद्ध्वा शनैर्यामाष्टकं पचेत् ।स्वाङ्गशीतं समुद्धृत्य द्रुतं शुल्बं तु वेधयेत् ।चतुःषष्टितमांशेन तारं भवति शोभनम् ॥८.८२॥{तिन्+ सिल्वेर्+ चोप्पेर्=> सिल्वेर्}पलं सूतं पलं तालं तालस्थानेऽथवा शिला ।कृष्णोन्मत्तद्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् ॥८.८३॥वज्रमूषागतं रुद्ध्वा चक्रयन्त्रे दिनं पचेत् ।पुनर्मर्द्यं पुनः पाच्यमेवं सप्तविधे कृते ॥८.८४॥तन्मृतं वङ्गतारार्कैः क्रमेणावेष्टयेत्समैः ।रुद्ध्वा तीव्राग्निना धाम्यं तारं भवति शोभनम् ॥८.८५॥{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}शुद्धसूतत्रयो भागा भागैकं ताम्रपत्रकम् ।स्त्रीस्तन्ये मर्दयेद्यामं जायते तारपिष्टिका ॥८.८६॥बीजान्युत्तरवारुण्याः स्त्रीस्तन्येन तु पेषयेत् ।तेनैव लेपयेत्पिष्टीं वज्रमूषां निरोधयेत् ॥८.८७॥दिनैकं भूधरे पच्यात्पुनर्लिप्त्वा च पाचयेत् ।इत्येवं सप्तधा पाच्यं पिष्टीस्तम्भो भवेद्दृढः ॥८.८८॥द्वात्रिंशांशेन तेनैव शुल्बे वेधं प्रदापयेत् ।दशांशं च क्षिपेत्तारं रौप्यं भवति शोभनम् ॥८.८९॥{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}शृङ्गाटी शंखचूर्णं तु गोमूत्रैः सारनालकैः ।पिष्ट्वा तत्कल्कमध्ये तु तप्तं तप्तं निषिञ्चयेत् ॥८.९०॥शुल्बपत्रं भवेद्यावज्जीर्णं तच्च समुद्धरेत् ।मध्वाज्यटंकणैः सार्धं मूषामध्ये गतं धमेत् ॥८.९१॥तारार्धेन समावर्त्य शुद्धं तारं भवेत्तु तत् ॥८.९२॥{चोप्पेरः: दलयोग्य}अर्कापामार्गकदलीक्षारमम्लेन लोलितम् ।तेन लिप्तं ताम्रपत्रं धाम्यं मूषागतं पुनः ॥८.९३॥पत्रं कृत्वा प्रलिप्याथ तद्वद्धाम्यं पुनः पुनः ।इत्येवं सप्तधा कुर्यात्वादे स्याद्दलयोग्यकम् ॥८.९४॥{चोप्पेरः: दलयोग्य}अथवा ताम्रपत्राणि सुतप्तानि निषेचयेत् ।लोणारनालमध्ये तु शतधा पूर्ववद्भवेत् ॥८.९५॥पलाशमूलजं क्षारं फट्किरी चाम्लपेषितम् ।ताम्रपत्राणि संलिप्य द्रावयेत्पत्त्रयेत्पुनः ॥८.९६॥इत्येवं सप्तधा कुर्याद्दलयोग्यं भवेत्तु तत् ॥८.९७॥{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}सुशुद्धं तालकं सूतं सामुद्रलवणं समम् ।द्वियामं मर्दयेत्खल्वे नवभाण्डगतं पचेत् ॥८.९८॥मन्दाग्नौ चालयेत्तावद्यावत्कृष्टिर्भवेत्तु तत् ।ततः समुद्रलवणं तालांशं मर्दयेत्पृथक् ॥८.९९॥यावच्चिटचिटीशब्दो निवर्तेत समाहरेत् ।चूर्णितं मृण्मये यन्त्रे लवणार्धमथो क्षिपेत् ॥८.१००॥तत्पृष्ठे पूर्वत्रितयं तन्मध्ये लवणार्धकम् ।क्षिप्त्वा मृल्लवणैः संधिं लिप्त्वा शुष्कं विचूर्णयेत् ॥८.१०१॥यामद्वादशपर्यन्तं भाण्डपृष्ठे दृढाग्निना ।तत्सत्त्वं मृतसूताभं ऊर्ध्वलग्नं समाहरेत् ॥८.१०२॥बद्ध्वा वस्त्रेण दण्डाग्रे कुन्तवेधं नियोजयेत् ।दशांशे तु द्रुते ताम्रे ढालयेद्दधिगोमये ।तारार्धेन समावर्त्य शंखकुन्देन्दुसन्निभम् ॥८.१०३॥{सिल्वेरः: प्रोदुच्तिओन्}इत्येवं मर्दयेन्नागं कान्तलोहाष्टभागकम् ।मूषायां द्वंद्वलिप्तायां सर्वचूर्णं दृढं धमेत् ।तत्खोटं समतारेण द्रावितं तारतां व्रजेत् ॥८.१०४॥{सिल्वेरः: रञ्जन}ताम्रायस्कांतनागं च चूर्णितं पूर्ववद्धमेत् ।तारार्धेन समावर्त्य तारं भवति शोभनम् ॥८.१०५॥{सिल्वेरः: रञ्जन, ओप्तिमिसिन्ग्थे चोलोउर्}तारं बंगं तथा कांस्यं समं द्राव्यं सटङ्कणम् ।अस्य खोटस्य भागैकं त्रिभागं शुद्धताम्रकम् ॥८.१०६॥समावर्त्य कृतं खोटं समे तारे विमिश्रयेत् ।तत्तारं जायते शुद्धं हिमकुंदेन्दुसन्निभम् ॥८.१०७॥{सिल्वेरः: रञ्जन, ओप्तिमिसिन्ग्थे चोलोउर्}मुण्डलोहस्य चूर्णं तु ग्राहयेद्भागपञ्चकम् ।तद्गर्भे तालसत्त्वं तु भागैकं संनिवेशयेत् ॥८.१०८॥टंकणं श्वेतकाचं च ऊर्ध्वं दत्त्वा निरोधयेत् ।ध्मातं तीव्रं तु संचूर्ण्य पुनः सत्त्वं तु दापयेत् ॥८.१०९॥काचं टंकणकं दत्त्वा मूषायां चान्धितं धमेत् ।इत्येवं पञ्चधा कुर्यात्सत्त्वं दत्त्वा पुनः पुनः ॥८.११०॥तत्तुल्यं शुद्धतारं च मृतोत्थं बंगभस्मकम् ।त्रितयं तु समावर्त्य ताम्रारे द्राविते समे ॥८.१११॥वेधो देयो दशांशेन बीजं पादं च योजयेत् ।तत्तारं जायते दिव्यं शंखकुंदेन्दुसन्निभम् ॥८.११२॥{सिल्वेरः: रञ्जन}शुद्धसूतं मृतं बंगं श्वेताभ्रं टंकणं समम् ।तथा मूषकपाषाणं पञ्चानां च चतुर्गुणम् ॥८.११३॥योजयेत्तालकं शुद्धं स्नुह्यर्कपयसा दृढम् ।सर्वं दिनत्रयं मर्द्यं काचकूप्यां निवेशयेत् ॥८.११४॥सम्यङ्मृद्वस्त्रलिप्तायां सुशुष्कायां पचेत्ततः ।सच्छिद्रे वालुकायन्त्रे कूप्यामारोपितं पचेत् ॥८.११५॥शुष्के द्रवे मुखं रुद्ध्वा लोणमृत्तिकया दृढम् ।ततश्चण्डाग्निना पच्याद्यावत्षोडशयामकम् ॥८.११६॥स्वांगशीतं समुद्धृत्य स्फोटयेत्काचकूपिकाम् ।ऊर्ध्वलग्नं तालसत्त्वं संग्राह्य तेन वेधयेत् ॥८.११७॥षोडशांशेन शुल्बं तु ढालयेद्दधिगोमये ।ततः शुद्धेन तारेण समावर्त्य समेन तु ।तत्तारं जायते शुद्धं हिमकुन्देन्दुसन्निभम् ।{चोप्पेर्=> सिल्वेर्}तालकं साबुणीतुल्यं पिष्ट्वा भ्रष्टं च खर्परे ॥८.११८॥चालयन्नेव लघ्वग्नौ यावत्कृष्णं भवेत्तु तत् ।मृल्लिप्तकाचकूप्यान्तः क्षिप्त्वा तस्यां क्षिपेत्पुनः ॥८.११९॥भर्जितं लवणं चैव तालकाद्दशमांशकम् ।पूर्ववद्वालुकायन्त्रे पक्त्वा सत्त्वं समाहरेत् ॥८.१२०॥साबुणीसत्त्वपादांशं दत्त्वा पिष्ट्वा पचेत्पुनः ।पूर्ववद्वालुकायन्त्रे कूपिकामष्टयामकम् ॥८.१२१॥तत्सत्त्वं तिलतैलं च समांशे पिशिते पचेत् ।चालयेल्लोहपात्रे तु तैलं यावत्तु जीर्यते ॥८.१२२॥इत्येवं सप्तधा पाच्यं समं तैले पुनः पुनः ।तद्वच्च सप्तधा पाच्यं सिद्धं कथकेन समं समम् ॥८.१२३॥चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् ।वेधयेत्कुन्तवेधेन ढालयेद्दधिगोमये ।पादांशं दापयेद्बीजं तारं भवति शोभनम् ॥८.१२४॥{सिल्वेरः: शोधन (?); चोप्पेर्+ सिल्वेर्=> सिल्वेर्(?)}टंकणं शुद्धतालस्य दशांशेन दापयेत् ।मेषीक्षीरैस्तथाज्यैश्च खल्वे मर्द्यं दिनत्रयम् ॥८.१२५॥दिनमेरंडतैलेन मर्द्यं कूप्यां निवेशयेत् ।पूर्ववत्पाचयेद्यंत्रे द्रवे शुष्के निवेशयेत् ॥८.१२६॥ग्राह्यं षोडशयामान्ते सत्त्वं मृदुतरं महत् ।षोडशांशेन तेनैव शुल्बकं तेन वेधयेत् ॥८.१२७॥तारार्धं च द्रुतं द्राव्यं शुद्धं भवति पूर्ववत् ॥८.१२८॥{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}षण् निष्कं ताम्रमावर्त्य आखुपाषाणनिष्ककम् ।प्रदेयं कुंतवेधेन ह्यर्धबीजं भवेद्दलम् ॥८.१२९॥तालकं टंकणं सर्जिक्षारं चैवापामार्गजम् ।वज्रिदुग्धैः समं मर्द्यं खल्वे यामचतुष्टयम् ॥८.१३०॥अनेन चार्धभागेन ताम्रपत्राणि लेपयेत् ।अंधमूषागतं ध्मातं एवं वारत्रये कृते ।तारार्धेन समावर्त्य शुद्धतारं भवेत्तु तत् ॥८.१३१॥{चोप्पेर्=> सिल्वेर्}गुंजाकार्पासशिग्रूणां तैलमेकस्य चाहरेत् ।तस्मिंस्तैले द्रुतं ताम्रं ढालयेच्च त्रिसप्तधा ॥८.१३२॥षडंशं दापयेद्बीजं शुद्धतारं भवेत्तु तत् ।शिग्रुमूलप्रलिप्तायां मूषायां द्रावयेत्ततः ॥८.१३३॥{सिल्वेर्, गोल्दः: मृदूकरण}अर्कापामार्गकदलीभस्मतोयेन लोलयेत् ।तद्वस्त्रगलितं ग्राह्यं स्वच्छं तोयं तदातपे ॥८.१३४॥शोषितं लवणं तस्मात्समादाय प्रयत्नतः ।रौप्ये वा यदि वा स्वर्णे द्राविते शतमांशतः ॥८.१३५॥तदेव दापयेद्वाप्यं ढालयेत्तिलतैलके ।इत्येवं तु त्रिधा कुर्यादत्यन्तं मृदुतां व्रजेत् ॥८.१३६॥{मृदूकरण}अश्वगोमहिषीणां च खुरं शृङ्गं समाहरेत् ।तच्चूर्णवापमात्रेण अत्यन्तं मृदुतां व्रजेत् ॥८.१३७॥{मृदूकरण}गजदन्तस्य चूर्णं वा शुष्कं वाथ नृणां मलम् ।कठिने दापयेद्वापं भवेन्मृदुतरं महत् ॥८.१३८॥{दल (?):: निर्मलीकरण (?)}नानाविधानि कार्याणि भूषणानि दलेन वै ।श्वेतं रक्तं च वर्षाभूमूलं पिष्ट्वारनालकैः ॥८.१३९॥पिष्ट्वाथ लवणं किंचित्क्षिप्त्वा तत्रैव पेषयेत् ।तत्किंचिद्दलजातं तु घटिकार्धात्समुद्धरेत् ॥८.१४०॥घर्षयन्लवणाम्लाभ्यां धाम्यमग्नौ पुनः पचेत् ।इत्येवं तु त्रिधा कुर्यात्दलं भवति निर्मलम् ॥८.१४१॥{दल (?):: निर्मलीकरण (?)}फट्करीचूर्णमादाय खर्परे ह्यधरोत्तरम् ।दत्त्वा दलस्य संरुध्य सम्यग्गजपुटे पचेत् ॥८.१४२॥आदाय रज्जुकां बद्ध्वा दोलायंत्रे दिनं पचेत् ।चिञ्चारनालभाण्डे तु शुभ्रं भवति शंखवत् ॥८.१४३॥अभिनवसुखसाध्यैः साधने युक्तिगर्भैर्गदितमिह सुसिद्धं स्तम्भनं शुद्धबंगे ।सुगममपि च तारं सूतशुल्बारयोगैः दलं अतिमलहीनं वार्तिकानां हितार्थम् ॥८.१४४॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP