संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथमृताशौचम्

धर्मसिंधु - अथमृताशौचम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथमृताशौचम् तत्रमृताशौचवतामस्पृश्यत्वंकर्मानधिकारश्च दशाहानन्तरं

नामकरणात्प्राक्‌ शिशुमरणेसपिण्डानांस्नानमात्रम् मातापित्रोस्तुपुत्रमृतौत्रिरात्रंकन्यामृतौचैकाहः

सापत्नमातुः सर्वत्रपितृवत् नाम्नःपूर्वखननमेव नित्यम्

नामकरणानन्तरंचूडाकरणपर्यन्तंतदभावेवर्षत्रयपूर्तिपर्यन्तंदाहखनन्योर्विकल्पः नामकरणोत्तरं

दन्तोत्पत्तेःप्राक्‌पुत्रमरणेदाहेसपिण्डानामेकाहःखननेतुस्नानाच्छुद्धिः मातापित्रोरुभयत्रापित्रिरात्रम्

कन्यामृतौतुत्रिपुरुषसपिण्डानामुभयत्रस्नानाच्छुद्धिः मातापित्रोः कन्यामृतौदन्तोत्पत्तिपर्यन्तमुभयत्रैकाहः

अत्रनामकरणंद्वादशदिनोपलक्षणम् दन्तजननंसप्तममासोपलक्षणम् तेनद्वादशदिनमारभ्यषण्मासपर्यन्तमेकाहादिफलितम्

सप्तममासप्रभृतिचूडाकरणपर्यन्तंतदभावेतृतीयवर्षपूर्तिपर्यन्तंदाहेखननेवासपिण्डानामेकाहः केचित्खनने

एकाहोदाहेत्रिरात्रमित्याहुः मातापित्रोरुभयत्रत्रिरात्रम् एतत्पुत्रमृतौ कन्यामृतौतुवर्शत्रयपर्यन्तंसपिण्डानास्नानाच्छुद्धिः

मातापित्रोःसप्तममासप्रभृतिकन्यामृतौविरात्रम्

विज्ञानेश्वरस्त्वेकादशदिनमारभ्ययवदुपनयनंपुत्रमृतौकन्यामृतौतुयावदिवाहंमातापित्रेस्त्रिरात्रमेवेत्याह

प्रथमवर्षादौकृतचूडस्यपुत्रस्मरणेपित्रादीनांसर्वेषांत्रिदिनंनियतंदाहश्चनियतः

त्रिवर्षोर्ध्वकृतचूडस्याकृतचूडस्यवामरणेप्रागुपनयनात्पित्रादिसर्वसपिण्डनांत्रिदिनम् दाहोनियतः

सोदकानांत्वनुपनीतमरणेऽनूढकन्यामरणेचनाशौचंकितुस्नानमात्रम् अनुपनीतभ्रातृमरणेभगिन्यानाशौचम्

ऊनद्विवर्षस्यखननंमुख्यम् अनुगमनवैकल्पिकम् पूर्वद्विवर्षस्यदाहोमुख्यः अनुगमनंनित्यम्

अत्रदाहोदकदानादितूष्णीमेव कृतचूडायपूर्णत्रिवर्षायचभूमौपिण्डदानम्

दन्तजननपर्यन्तंतत्तुल्यवयस्केभ्योद्वितीयदिनेतदुद्देशेनदुग्धदानम्

त्रिवर्षान्तंचौलान्तंवापायसदानम् तदूर्ध्वमुपनयनपर्यन्तमाशौचान्तेसवयोभ्यस्तदुद्देशेनभोजनादिदानम् ॥

स्त्रीशूद्रयोस्तुकृतचूडचोरप्युदकादानादिवैकल्पिकम् शूद्रस्यत्रिवर्षपर्यन्तमेतदेवा शौचम् अस्योपनयनस्थानेविवाहः

तथाचत्रिवर्षोर्ध्वविवाहापर्यन्तंतदभावेषोडशवर्षपर्यन्तवा शूद्रस्यमरणेत्रिदिनंतदूर्घ्वजात्याशौचम्

कन्यायावर्षत्रयानन्तरंवाग्दानात्प्राङ्मरणेत्रिपुरुषसपिण्डानामेकाहः मातापित्रोस्त्रिदिनम् दाहादितूष्णीम्

वाग्दानोत्तरंविवाहात्प्राक्कन्यामरणेपितृसपिण्डानांभर्तृसपिण्डानां चत्रिदिनम् अत्रोभयकुलेपिसाप्तपुरुषं

सापिण्यम दाहादितूष्णीमेव जननेऽनुपनीतमरणेचातिक्रान्ताशौचनास्ति

पितुरपत्यजननश्रवणेदेशान्तरेकालान्तरेस्नानंभवत्येव अनुपनीतमरणेतिक्रान्तेऽपिस्नानंभव्त्येवेतिस्मृत्यर्थसारः

अनुपनीतस्यानूढकन्यायाश्चमातापितृमरणे एवदशाहाशौचम् अन्यमरणेतु नकिमपि उपनयनोत्तरंमरणे

सपिण्डानांदशाहम् सोदकानांत्रिरात्रम् सगोत्राणामेकाहंस्नानाच्छुद्धिर्वेत्यादिविशेषःप्रागुक्तोत्रानुसन्धेयः ॥

स्त्रीशूद्रयोर्विवाहोत्तरमरणेदशाहः शूद्रस्यविवाहाभावेशोडशवर्षात्तरमित्युक्तम् विवाहोर्ध्व

कन्यायाःपितृगृहेमरणे मातापित्रोःसापत्नमातुःसापत्नभ्रातुःसोदरभ्रातुश्च त्रिरात्रम पितृव्यादीनांतद्गृहवर्तिनामेकाहः

तद्गृहवर्तिनामपिसपिण्डानामेकाह इतिकेचित ग्रामान्तरमृतौपित्रोःपक्षिणीतिकेचित

ऊढायाःकन्यायाःपतिग्रुहेमरणेपित्रोःसापत्नमातुश्चत्रिरात्रम् भ्रातुः पक्षिणी पितृव्यादीनामेकाह इतिकेचित ॥

मातापित्रोर्मरणेसापत्नमातुर्मृतौचौढकन्यायास्त्रिरात्रंदशाहान्तःदशाहोर्ध्वकालान्तरेपिपक्शःइणी

भ्रातुरुपनीतस्यविवाहितभगिन्याश्चपरसप्रगृहमरणेपरसप्रस्यत्रिरात्रम् गृहान्तरमृतौपरस्परस्यपक्षिणी

ग्रामान्तरेत्वेकाहः अत्यन्तनिर्गुणत्वे एकग्रामेपिस्नानम् एवंसापत्न भ्रातृभगिन्योरपि

भगिनीमृतौबगिन्याअप्येवमेवेतिभाति ऊढकन्यायाःपितामहपितृव्यादिमरणेस्नानमेव

मातुलमरणेभगिनी पुत्रस्यभगिनीकन्यायाश्चपक्षिणी उपकारकमातुलमरणे स्वगृहेमातुलमरणेचत्रिरात्रम्

अनुपनीतमातुलमरणेग्रामान्तरेमातुलमरणेचैकरात्रम् एवंसापत्नमातुलमरणेऽपि

मातुलानीमरणेभर्तृभगिन्यपत्यस्यपुंसरूपस्यपक्षिणी सापत्नमातुलानीमरनेतुनाशौचम्

उपनीतभागिनेयमरणेमातुलस्यमातुलभगिन्याश्चत्रिरात्रम् एवंसापतन्भागिनेयेमृतेपि

अनुपनीतभागिनेयमरणेमातुलस्यमातुलभगिन्याश्चपक्षिणी एवंसापत्नबागिनेये मृतेपि

अनुपनीतपदेनावशिष्टोपनयनमात्रःकृतचूडश्चूडायाअभावेत्रिवर्षोएध्ववयस्कोवाग्राह्य इतिभाति

एवमग्रेप्यनुपनीतदस्यार्थोबोध्यः भागिनेयीमरणेतुस्नानमात्रामितिभाति

मातामहमरणेदुहित्रपत्यस्यपुत्ररूपस्यकन्यारूपस्यवात्रिरात्रम् ग्रामान्तरेपक्षिणी

मातामह्यामृतायांदौहित्रस्यदौहित्र्याश्चपक्षिणि

अत्रसर्वत्रपुरुषस्योपनीतस्यैवस्त्रियाश्चविवाहितायाएवमातापित्रतिरिक्ताशौचेधिकार

इत्युक्तम् अत्रमातुलमातुलानीमातामहादिमृतौख्यपत्यस्याशौचोक्तिस्र्यम्बकीयानुसारेणान्यत्रतुनैवस्पष्टमुपलभ्यते

उपनीतदौहित्रमरणेमातामहस्यमातामह्याश्चत्रिरात्रम्

अनुपनीतेदौहित्रेमृतेमातामहस्यमातामह्याश्चपक्षिणी दौहित्रीमरणेतुनाशौच मितिभाती ॥

श्वश्रूश्वशुरयोर्मरणेजामातुःसन्निधौ त्रिरात्रम असन्निधौतुपक्षिणी

उपकारकयोर्मरणेत्वसन्निधावपित्रिरात्रमेव ग्रामान्तरे

एकरात्रम् भार्यामरणेनानष्टत्तसंबन्धयोःश्वश्रूश्वश्रुयोरनुपकारकयोर्मृतेतुपक्षिण्येकाहोवेतिभाति

जामातरिमृतेश्वशूश्वशुरयोरेकरात्रस्नान्च्छुद्धिर्वा स्वगृहेजामात्रुमरणेत्रिरात्रम् उपनीतेशालकेमृतेभगिनीभर्तुरेकाहः

अनुपनीतेतुशालकेस्नानम ग्रामान्तरेमृतेपिस्नानम् भार्यामरणेननिवृत्तसंबन्धे

शालकेस्नानमितिनागोजीभट्टीयेशालकसुतमरणेस्नानम् कश्चिच्छालिकाया

मृतायांशालयवदेकाहादिकमाह मातुःस्वसरिमृतायांस्वस्त्रपत्ययोःकन्यापुत्रयोःपक्षिणी

वंसापत्नमातुःस्वसृमरणेपि पितुःस्वसरिमृतायाभ्रात्रपत्ययोःकन्यापुत्रयोःपक्षिणीपितुःसाप्त्नस्वसृमरणेतुस्नानमात्रम्

भ्रात्रपत्यमरणेतुपिवृष्वसुःस्नानम् स्वगृहेपितृष्वसृमातृष्वसृमरणेत्र्यहम् ॥

उपनीतबन्धुत्रयमरणेपक्षिणी अनुपनीतस्यगुणहीनस्यवाबन्धुत्रयस्यमरणे एकाहः

स्वगृहेमरणेतुत्रिरात्रम् अत्रबन्धुत्रयपदेनात्मबन्धुत्रयंपितृबन्धुत्रयंमातृबन्धुत्रयमितिनव

बन्धवोग्राह्याः तेयथा आत्मपितृष्वसुःपुत्राआत्ममातृष्वसुसुताः ।

आत्ममातुलपुत्राश्चविज्ञेयाआत्मबान्धवा पितुःपितृष्वसुःपुताःपितुर्मातृष्वसुःसुता ।

पितुर्मातुलपुत्रश्चविज्ञेयाःपितृबान्धवाः मातुःपितृष्वसुःपुत्रामातुर्मातृष्वसुःसुताः ।

मातुर्मातुलपुत्राश्चविज्ञेयामातृबान्धवाः ३ इति पितृष्वस्रादिकन्यानांतुविवाहितानामरने

तद्बान्धुवर्गस्त्वेकेनेतिवचनबलादेकाहोऽनूढानातुमरणेस्नानमात्रमितिनिर्णयसिन्ध्वाशयः

नागोजीभट्टास्तुबन्धुत्रयवाक्येपुत्रपद्कंन्योपलक्षकमित्याहुः तन्मतेपितृष्वस्रादिकन्यानामूढानामरणेपक्षिणी

अनूढानामेकाह इत्यादि पितृष्वस्रादिकन्याभिस्तुबन्धुत्रयमरणेस्नानमात्रंअकर्यमितिसिन्ध्वाशयेनसिध्यति

भट्टमतेतुपुत्रपदवत्तद्वाक्यस्थात्मपदस्यापिकन्यापरत्वापत्त्याकन्याभिरपिबन्धुत्रयाशौचंकार्यमित्यापतति

तत्रच बहुशिष्टाचारविगानमितिसिन्ध्वाशयोयुक्तोभाति ॥

अत्रेदंतत्वम् देवदतीयबन्धुनवकमध्ये

आत्मबन्धुत्रयेसंबन्धसाम्यात्परस्परमाशौचम् अवशिष्टबन्धुषटकेतुबन्धुषटकमरणेदेवदत्तस्य

आशौचंदेवदत्तस्यमरणेतुबन्धुषटकस्यनाशौचंसंबन्धाभावादितिसुधीभिरूह्यम्

दत्तकस्यमरणेपूर्वापरप्तिरोस्त्रिरात्रंसपिण्डानामेकाहमाशौचम्

नीलकण्ठीयेदत्तकनिर्णयेतूपनीतदत्तकमरणादौअपलकपित्रादिसपिण्डानादशाहादिकमेवाशौचमित्युक्तम्

दत्तकेनापिपूर्वापरपित्रोर्मृतौत्रिरात्रंपूर्वापरसपिण्डानामरणे एकाहः

पित्रोरौर्घ्वदेहिककरणेतुकर्माङ्गदशाहमेव दत्तकस्यपुत्रपौत्रादेजननेमरणेवापूर्वापरसपिण्डानामेकाहः

एवंपूर्वापरसपिण्डमरणादाव्पिदत्तकपुत्रपौत्रादेरेकाहः इदंसपिण्डसमानोदकभिन्ने

दत्तीकृतेज्ञेयम् सगोत्रसपिण्डेसोदकेचदत्तीकृतेयथाक्रमंदशाहंत्रिरात्रंचयथाप्राप्तंभवत्येव ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP