संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथपिण्डदानम्

धर्मसिंधु - अथपिण्डदानम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपिण्डदानम् तच्चार्चनोत्तरमग्नौकरणोत्तरंभोजनोत्तरंविकिरोत्तरं

स्वधावाचनोत्तरविप्रविसर्जनोत्तरमितिषटपक्षाःस्मृत्युक्ताः तेषांशाखाभेदेनव्यवस्थेतिसिन्धुः

तत्राश्वलायनानांभुक्तवत्स्वनाचान्तेष्वाचान्तेषुवाविप्रेषुपिण्डदानंततोविकिरः

आपस्तम्बहिरण्यकेशीयादीनाविप्रविसर्जनान्तेपिण्डदानम कातियानांविकिरोत्तरमाचान्तेष्वनाचान्तेषुवा

तत्राग्निहोमेऽग्निसम्पेपाणिहोमेविप्रसम्पेबह्वृचानांपिण्डदानम् अन्येषांप्रायोविप्रसमीपएव

तत्रद्विजोच्छिष्टादुत्तरतोव्याममात्रेऽरत्निमात्रेवापिण्डदानंसंकल्प्य

बह्वृचानामेककरेणान्येषांकराभ्यांधृतेनस्फ्येन खादिरकाष्ठेनदर्भमूलेन

वाऽपहताअसुराइतिमन्त्रंप्रतिलेखापठन्नाग्नेय्यग्रंप्रत्यगपवर्गापार्वणसंख्ययारेखामेकाद्वित्र्यादिकांवोल्लिख्यप्रत्येकमभ्युक्षेत

पिण्डसंकल्पेरेखाकरणेचसव्यापसव्ययोर्विकल्पः अत्रकातीयैर्येरूपाणितिमन्त्रेणाग्नौकरणाग्नेरुल्मुकंरेखादक्षिणतोनिधेयम

रेखासुसकृदाच्छिन्नंबर्हिर्दक्षिनाग्रमास्तीर्यशुन्धन्तापितरः शुन्धन्तांपितामहाइत्यादिमन्त्रैस्तिलोदकंबर्हिष्यासिञ्चेत्

अत्रकातीयानांपितरमुकनामगोत्रावनेनिक्ष्वेत्यादिमन्त्राः अन्येषामार्जयन्तांपितरःसोम्यास इत्यादयोमन्त्राः ॥

N/A

References : N/A
Last Updated : June 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP