संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथनवश्राद्धम्

धर्मसिंधु - अथनवश्राद्धम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथनवश्राद्धम् प्रथमेह्नितृतीयेचपञ्चमेसप्तमेतथा ।

नवमैकादशेचैवतन्नवश्राद्धमुच्यते नवश्राद्धनिपञ्चाहुराश्वलायनशाखिनः ।

आपस्तम्बाःषडित्याहुर्विभाषात्वितरेषुहि पञ्चपक्षेएकादशाहेनवश्राद्धंनकार्यम्

एतान्येवविषमश्राद्धानीत्युच्यन्ते नवश्राद्धनिदशाहान्तर्नवमिश्रंतुवत्सरइत्यन्यत्र

अकृत्वातुनवश्राद्धंप्रेतत्वान्नैव मुच्यते । नवश्राद्धंत्रिपक्षंचषण्मासंमासिकानिच ।

नकरोतिसुतोयस्तुतस्याधःपितरोगताः अर्घ्यहीनमधूपंचगन्धमाल्यविवर्जितम् ।

नवश्राद्धममन्त्रंस्यादवनेजनवर्जितम् आशिषोद्विगुणादर्भाजयाशीः स्वस्तिवाचनम् ।

पितृशब्दःस्वसंबन्धःशर्मशब्दस्तथैवच ३ पात्नालम्भोवगाहश्चउल्मुकोल्लेखनादिकम् ।

तृप्तिप्रश्नश्चविकिरः शेषप्रश्नस्तथैवच प्रदक्षिणाविसर्गश्चसीमान्तगमनंतथा ।

अष्टादशपदार्थाश्चप्रेतश्राद्धेविवर्जयेत्

तिलोसीतिमन्त्रेस्वधानमःपितृशब्दानवाच्याःकिंतुप्रेतशब्दोहेनतूष्णींवातिलावपनम्

तूष्णीमर्घ्यदानम् अमुष्मैस्वाहेतिप्रेतनाम्नापाणिहोमः

बहृचानांसर्वैकोद्दिष्टेष्वग्नौकरणमस्त्येव अन्यशाखिनांतुतान्निषेधः

नाम्नैकःपिण्ड:: निनयनमन्त्रेऊहः अनुमन्त्रणादिकंत्वमन्त्रकम्

अभिरम्यतामितिविसर्जनम् एवंनवश्राद्धवर्ज्यैकोद्दिष्टेषु

नवश्राद्धंत्वमन्त्रकंसर्वमितिनारायणवृत्तिः उत्तानंस्थापयेत्पात्नमेकोद्दिष्टेसदाबुधः ।

न्युब्जंतुपार्वणेकुर्यात्तस्योपरिकुशानन्यसेत्

सपिण्डीकरणान्तानिप्रेतश्राद्धानिलौकिकाग्नावित्याश्वलायनमतम्

नवश्राद्धानिसंभवेऽन्नेनकुर्यादन्यथामान्नेन ॥

विघ्नेतु नवश्राद्धंमासिकंचयद्यदन्तरितंभवेत्तत्तदुत्तरश्राद्धेनसहतन्त्रेणकार्यम्

शावेआशौचान्तरप्राप्तौनवश्राद्धानिकुर्यादेव सहगमनेतु नवश्राद्धानिभिन्नानिसपिण्डीकरणंपृथक् ।

एकएववृषोत्सर्गोगौरेकातत्रदीयते शूद्रस्यामन्त्रकंसर्वद्विजवन्नाम्नैवकार्यमितिस्मृत्यर्थसारः

अत्रवयोधिकमरणेतत्कनिष्ठानांसपिण्डानांदशमेहनिमुण्डनंकेचिदाहुः

मातापित्नाचार्येषुमृतेषुनियमेनदशमेहनिमुण्डनम् एवंभर्तरिमृतेस्त्रियाअपिमुण्डननियमः

पुत्राणांसर्वेषांदाहकर्तुश्चदाहाङ्गभूतंप्रथमदिनेदशमदिनेचमुण्डनम् अत्नदेशाचाराव्द्यवस्था

अत्नरात्रिमृतस्यरात्नौदाहेपिप्रातरेवमुण्डनमित्युक्तम् ॥

ततोदशेमहनिपूर्ववस्त्रशुद्धिंगृहशुद्धिंचकृत्वागौरसर्षपतिलकल्केनसशिरः

स्त्रानंकृत्वानववस्त्रेपरिधायपरिहितवस्त्राणिप्रेतवस्त्राणिचान्त्यजेभ्यः

आश्रितेभ्यश्चदत्त्वासुवर्णादीनिमङ्गलवस्तूनिस्पृष्टागृहंप्राविशेत् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP