संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
भोजननिमित्तकाशौच

धर्मसिंधु - भोजननिमित्तकाशौच

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यदातुतदस्वामिकमाशौचिस्पृष्टमात्रमन्नंभुङ्क्तेतदामत्याभोजनेकृच्छ्रम्‌ अमत्यार्धमितिस्मृत्यर्थसारेउक्तम्‌

आशौचिस्पृष्टाशौचिस्वामिकान्नभोजीतुतत्स्वामिकान्नाशननिमित्तंतत्स्पृष्टान्नाशननिमित्तंचेतिप्रायश्चित्तद्वयंसमुच्चयेनकुर्यात्‌

आशौचिस्वामिकामान्नप्रतिग्रहेतूक्तप्रायश्चित्तार्धम्‌ आशौचंतुनास्ति दातृभोक्तृभ्यामुभाभ्यामज्ञातेजननेमरणेवानदोषः

अन्यतरेणज्ञातेदोषः तत्रदातुर्ज्ञानेभोक्तुरज्ञानेभोक्तुरल्पंप्रायश्चित्तम्‌ दातुरज्ञानेपिभोक्तुर्ज्ञानेपूर्णमेव भोजननिमित्तकाशौचेपिकर्मलोपोन ॥

अथतुकथमपिस्वल्पसबन्धयुक्तेस्नानंवासोयुतंस्यादितित्रिंशच्छलोकी स्मृत्यर्थसारेप्येवम्‌ अयमस्यार्थः

स्वल्पेनापिएकाहाद्याशौचप्रयोजकेनसंबन्धेनयुक्ते शालकजामात्रादौमृतेसचैलंस्नानंकार्यम्‍

सर्वत्रगुरुणोलघुनोवामृताशौचस्यप्राप्तिकालेसमाप्तिकालेचस्नातव्यमितियावत्‌

अथवास्वल्पैर्दशाहाभिन्नपक्षिणीत्रिदिनाद्याशौचप्रयोजकैः

संबन्धैर्युक्तेबन्धुत्रयमातुलानुपनितसपिण्डादौमृतेदेशान्तरेकालान्तरेपिस्नानंभवत्येव

तथाचयस्यसन्निहितकाले आशौचप्राप्तिस्तस्यातिक्रान्तकालेस्नानम्‍

यस्यतुसन्निहितकालेपिन्नानमात्रंतस्यकालान्तरेस्नानमपिनेत्यर्थः यद्वास्वल्प

आशौचप्रयोजकसंबन्धभिन्नसंबन्धःयथाशालकसुतत्वंऊढकन्यायाः

पितृव्यतत्पुत्रत्वादिभगिन्याभ्रातृपुत्रत्वादितद्युक्तेआशौचाभावेपिस्नानमात्रंभवत्येव

यत्किंचित्संबन्धेआशौचाभावेपिस्नानमात्रंसन्निधौसर्वत्रकार्यमित्यर्थः पक्षत्रयमपिइदंशिष्टाचारेदृश्यते इतियुक्तंभाति ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP