संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथास्थिक्षेपविधिः

धर्मसिंधु - अथास्थिक्षेपविधिः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथास्थिक्षेपविधिः तत्रादौसंचयनादिनेऽस्थिस्थापनप्रकारः प्रेतस्थानेबलिंदत्त्वाक्षीरेणाभ्युक्ष्यवाग्वतः ।

प्रेतस्यास्थीनिगृह्णीयात्प्रधानाङ्गोद्भवानिव १ पञ्चगव्येनसंस्त्राप्यक्षौमवस्त्रेणवेष्ट्यच ।

प्रक्षिप्यमृन्मयेभाण्डेनवेसाच्छादनेशुभे २ अरण्येवृक्षमूलेवाशुद्धेसंस्थापयेद्थ ।

सूक्ष्मान्यस्थीनि तद्भस्मनीत्वातोयेविनिक्षिपेत् ३ ततःसंमार्जनंभूमेःकर्तव्यंगोमयाम्बुभिः ।

पूजांचपुष्पधूपाद्यैर्बलिभिःपूर्ववच्चरेत् ४ तत्स्थानाच्छनकैनींत्वातीर्थेवाजाह्नवीजले ।

कश्चिच्चप्रक्षिपेत्पुत्नोदौहित्नोवासहोदरः ५ मातुःकुलंपितृकुलंवर्जयित्वानराधमः ।

अस्थीन्यन्यकुलस्थस्यनीत्वाचान्द्रायणंचरेत् ६ गङ्गातोयेषुयस्यास्थिक्षि प्यतेशुभकर्मणः ।

नतस्यपुनरावृत्तिर्ब्रह्मलोकात्सनातनात् ७ अस्तंगतेगुऔशुक्रेतथामासेमलिम्लुचे ।

गङ्गायामस्थिनिक्षेपंनकुर्यादितिगौतमः ८ दशाहान्तरस्थिप्रक्षेपेतुनास्तादिदोषः

दशाहाभ्यन्तरेयस्यगङ्गातोयेस्थिमज्जति गङ्गायांमरणंयादृकतादृकफलमवाप्नुयात् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP