TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा २३

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा २३
ततः गत्वा पुनः प्राप शिंशपापादपात् ततः ।
सः त्रिविक्रमसेनः तम् वेतालम् राजसत्तमः ॥१॥

स्कन्धे कृत्वा च तम् मौनी दर्शितानेकवैकृतम् ।
यावत् प्रतिष्ठते तावत् सः वेतालः तम् अब्रवीत् ॥२॥

राजन् अकार्ये अपि एतस्मिन् दुःवारः अयम् ग्रहः तव ।
तत् ते श्रमविनोदाय कथयामि कथाम् शृणु ॥३॥

आसीत् कलिङ्गविषये नाम्ना शोभावती पुरी ।
दिवि इव शक्रनगरी वसतिः शुभकर्मणाम् ॥४॥

याम् प्रद्युम्नः इव ऐश्वर्यवीर्यातिशयविश्रुतः ।
प्रद्युम्ननामा नृपतिः शशास ऊर्जितशासनः ॥५॥

गुणापकर्षः चापेषु मुरजेषु कर- आहतिः ।
युगेषु अश्रूयत कलिः यस्याम् प्रज्ञासु तीक्ष्णता ॥६॥

एकदेशे पुरः तस्याः नृपेण प्रतिपादितः ।
यज्ञस्थलाभिधानः अभूत् अग्रहारः बहुद्विजः ॥७॥

तत्र आसीत् यज्ञसोम- आख्यः ब्राह्मणः वेदपारगः ।
महाधनः अग्निहोत्री च पूजितातिथिदेवतः ॥८॥

तस्य व्यतीते तारुण्ये मनःरथशतैः सुतः ।
भार्यायाम् अनुरूपायाम् एकः एव उदपद्यत ॥९॥

ववृधे च पितुः सः अस्य गृहे बालः सुलक्षणः ।
कृताभिधानः विधिवत् देवसोमः इति द्विजैः ॥१०॥

प्राप्तषोडशवर्षः च सः विद्याविनय- आदिभिः ।
आवर्जितजनः अकस्मात् ज्वरेण प्राप पञ्चताम् ॥११॥

ततः परासुम् स्नेहात् तम् आश्लिष्य सह भार्यया ।
यज्ञसेनः पिता शोचन् न दाहाय जहौ चिरम् ॥१२॥

ब्रह्मन् संसारगन्धर्वनगरस्य न वेत्सि किम् ।
परावरज्ञः अपि गतिम् वारिबुद्बुदभङ्गुराम् ॥१३॥

ये सैन्यैः पूरितधराः हर्म्यपृष्ठेषु हारिषु ।
लसत्संगीतनादेषु रत्नपर्यङ्कवर्तिनः ॥१४॥

श्रीखण्डद्रवलिप्ताङ्गाः वरस्त्रीपरिवारिताः ।
व्यलसन् अमरम्मन्याः भूलोके अस्मिन् नराधिपाः ॥१५॥

ते अपि एककाः श्मशानेषु रुदत्प्रेतानुयायिषु ।
चिताधिशयिनः यत्र जग्धाः क्रव्यात्कृशानुभिः ॥१६॥

शिवाभिः वलितौपान्ताः कालेन कवलीकृताः ।
न रोद्धुम् शकिताः कैःचित् तत्र अन्येषाम् कथा एव का ॥१७॥

तत् एतम् प्रेतम् आश्लिष्य विद्वन् वद करोषि किम् ।
इति- आदि अबोधयन् वृद्धाः मिलिताः तम् द्विजम् ततः ॥१८॥

ततः तेन कथम्चित् तम् मुक्तम् आरोप्य तत्सुतम् ।
शिबिकायाम् गतप्राणम् कृतप्रेतप्रसाधनम् ॥१९॥

बान्धवाः वैशसौदश्रुमिलत्बन्धुजनान्विताः ।
श्मशानम् प्रापयामासुः कोलाहलसमाकुलाः ॥२०॥

अत्र अन्तरे च तत्र आसीत् श्मशाने कः अपि तापसः ।
वृद्धः पाशुपतः योगी मठिकायाम् कृतस्थितिः ॥२१॥

वयसा तपसा च अतिभूयसा सुकृशाम् तनुम् ।
बिभ्राणः भङ्गभीत्या इव सिराभिः परिवेष्टितम् ॥२२॥

नाम्ना वामशिवः भस्मपाण्डुरोम- आवृत- आकृतिः ।
विद्युत्पिङ्गजटाजूटः महेश्वर इव अपरः ॥२३॥

सः तापसः अत्र तत् कालम् दत्तौपालम्भखेदितम् ।
मूर्खम् शठम् ध्यानयोग- आदि- अवलिप्तम् अहम्कृतम् ॥२४॥

भिक्षाफलव्रतधरम् शिष्यम् अन्तिकवासिनम् ।
जगाद दूरात् श्रुत्वा तम् जनकोलाहलम् बहिः ॥२५॥

उत्तिष्ठ गत्वा अत्र बहिः विज्ञाय आगच्छ सत्वरम् ।
कुतः अत्र अश्रुतपूर्वः अयम् श्मशाने तुमुल- आरवः ॥२६॥

इति उक्ते गुरुणा तेन सः शिष्यः प्रत्युवाच तम् ।
न अहम् यामि स्वयम् याहि भिक्षावेला हि अपैति मे ॥२७॥

तत् श्रुत्वा उवाच सः गुरुः धिक् मूर्ख उदरतत्पर ।
अह्नः अर्धप्रहरे याते भिक्षावेला अत्र का तव ॥२८॥

श्रुत्वा एव एतत् सः तम् क्रुद्धः कुशिष्यः प्राह तापसम् ।
धिक् जराजीर्ण न अहम् ते शिष्यः न त्वम् गुरुः मम ॥२९॥

अहम् अन्यत्र यास्यामि वह पात्रीम् इमाम् स्वयम् ।
इति उक्त्वा उत्थाय सः प्रायात् त्यक्त्वा अग्रे दण्डकुण्डिकाम् ॥३०॥

विहसन् अथ निर्गत्य मठिकायाः सः तापसः ।
तत्र आगात् यत्र दाहार्थम् आनीतः सः द्विजार्भकः ॥३१॥

दृष्ट्वा च तम् जनतया शोच्यमानाग्र्ययौवनम् ।
योगी प्रवेष्टुम् तत्देहम् मतिम् चक्रे जरा- अर्दितः ॥३२॥

गत्वा च द्रुतम् एकान्ते मुक्तकण्ठम् प्ररुद्य च ।
ननर्त सः ततः क्षिप्रम् अङ्गहारैः यथा- उचितैः ॥३३॥

ततः विवेश योगात् तत् द्विजपुत्रकलेवरम् ।
क्षणात् सः स्वतनुम् त्यक्त्वा तपस्वी यौवनैच्छया ॥३४॥

तत् क्षणम् रचितायाम् च चितायाम् सहसा एव सः ।
लब्धजीवः द्विजयुवा प्रोत्तस्थौ कृतजृम्भिकः ॥३५॥

तत् दृष्ट्वा बन्धुवर्गस्य दिष्ट्या जीवति जीवति ।
इति उद्बभूव नादः अत्र निखिलस्य जनस्य च ॥३६॥

अथ अमोक्ष्यन् व्रतम् सर्वान् मृषा योग- ईस्वरः स तान् ।
विप्रपुत्रशरीरान्तःप्रविष्टः तापसः अब्रवीत् ॥३७॥

लोकान्तरगतस्य अद्य महापाशुपतव्रतम् ।
ग्राह्यम् साक्षात् मम अभाष्य दत्तम् शर्वेण जीवितम् ॥३८॥

अधुना एव च धार्यम् तत् गत्वा एकान्ते व्रतम् मया ।
जीवितम् मे अन्यथा न अस्ति तत् यूयम् यात यामि अहम् ॥३९॥

इति सर्वान् सः तत्रस्थान् संबोध्य दृढनिश्चयः ।
स्वगृहान् प्रेषयामास हर्षशोक- आकुलान् व्रती ॥४०॥

स्वयम् च गत्वा श्वभ्रे तत् क्षिप्त्वा पूर्वकलेवरम् ।
आत्तव्रतः महायोगी युवीभूतः अन्यतः ययौ ॥४१॥

इति व्याख्याय वेतालः कथाम् निशि तदा पथि ।
तम् त्रिविक्रमसेनम् सः राजानम् पुनः अब्रवीत् ॥४२॥

राजन् ब्रूहि सः योगी- इन्द्रः कस्मात् परपुरे वसन् ।
प्ररुरोद ननर्त अथ कौतुकम् महत् अत्र मे ॥४३॥

इति वेतालतः श्रुत्वा शापशङ्की सः भूपतिः ।
विमुच्य मौनम् एवम् तम् अवादीत् धीमताम् वरः ॥४४॥

शृणु तत्र बभूव अस्य यः अभिप्रायः तपस्विनः ।
सह वृद्धम् चिराय इदम् शरीरम् सिद्धिसाधनम् ॥४५॥

पितृभ्याम् लालितम् बाल्ये त्यजामि अद्य इति दुःखितः ।
सः जरत् तापसः अरोदीत् देहस्नेहः हि दुःत्यजः ॥४६॥

नवम् देहम् प्रवेक्ष्यामि साधयिष्यामि अतः अधिकम् ।
इति हर्षात् अनृत्यत् च कस्य न इष्टम् हि यौवनम् ॥४७॥

एतत् तस्य वचः निशम्य नृपतेः अंसत् सः भूयः अपि
अगात् वेतालः मृतपूरुषान्तरगतः तम् शिंशपापादपम् ।
राजा सः अपि तम् अन्वधावत् अधिकौत्साहः पुनः प्रेप्सया
कल्पान्ते अपि अचलम् कुलाद्रिविजयि स्थैर्यम् हि धीर- आत्मनाम् ॥४८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:44.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

detrivore

  • पु. Zool. गाळभक्षी 
RANDOM WORD

Did you know?

सोळा वर्षाखालील मुलांना शनिची साडेसाती कां त्रस्त करत नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.