TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेतालपञ्चविंशति - कथा ९

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


कथा ९
ततः गत्वा पुनः तस्मात् शिंशपापादपात् नृपः ।
सः त्रिविक्रमसेनः तम् स्कन्धे वेतालम् अग्रहीत् ॥१॥

प्रस्थितः च ततः तेन वेतालेन अभ्यधायि सः ।
राजन् क्व राज्यम् क्व एतस्मिन् श्मशाने भ्रमणम् निशि ॥२॥

किम् एतत् न ईक्षसे भूतसंकुलम् रात्रिभीषणम् ।
चिताधूमैः इव ध्वान्तैः निरुद्धम् पितृकाननम् ॥३॥

कष्टम् कीदृक् ग्रहः अयम् ते भिक्षोः तस्य अनुरोधतः ।
तत् इदम् शृणु तावत् मे प्रश्नम् मार्गविनोदनम् ॥४॥

अवन्तिषु अस्ति नगरी युग- आदौ देवनिर्मिता ।
शैवी तनुः इव उद्दामभोगिभूतिविभूषिता ॥५॥

पद्मावती भोगवती या हिरण्यवती इति च ।
कृत- आदिषु त्रिषु ख्याता कलौ उज्जयिनी इति च ॥६॥

तस्याम् च वीरदेव- आख्यः राजा अभूत् भूभृताम् वरः ।
तस्य पद्मरतिः नाम महादेवी बभूव च ॥७॥

सः अथ राजा तया साकम् गत्वा मन्दाकिनीतटे ।
हरम् आराधयामास तपसा पुत्रकाम्यया ॥८॥

चिरम् तपःस्थितः च अत्र परितुष्ट- ईश्वरौदिताम् ।
कृतस्नानार्चनविधिः शुश्राव इमाम् गिरम् दिवः ॥९॥

राजन् उत्पत्स्यते पुत्रः शूरः तव कुलौद्भवः ।
ख़न्या च अनन्यसामान्यलावण्यन्यक्कृताप्सराः ॥१०॥

श्रुत्वा एताम् नाभसीम् वाणीम् सिद्धाभीष्टः सः भूपतिः ।
वीरदेवः स्वनगरीम् आययौ महिषीसखः ॥११॥

तत्र अस्य शूरदेव- आख्ये जाते प्रथमम् आत्मजे ।
तस्याम् पद्मरतौ देव्याम् क्रमात् अजनि कन्यका ॥१२॥

अनङ्गस्य अपि रूपेण रतिम् उत्पादयेत् इयम् ।
इति अनङ्गरतिः नाम्ना पित्रा तेन व्यधायि सा ॥१३॥

वृद्धिम् गतायाः तस्याः च सः पिता सदृशम् वरम् ।
प्रेप्सुः आनाययत् पृथ्व्याम् पटेषु लिखिथान् नृपान् ॥१४॥

तेषु एकः अपि न यत् तस्य तत्तुल्यः प्रत्यभासत ।
तेन राजा सः वात्सल्यात् ताम् सुताम् प्रत्यभाषत ॥१५॥

अहम् तावत् न पश्यामि सदृशम् पुत्रि ते वरम् ।
तत् कुरुष्व नृपान् सर्वान् मेलयित्वा स्वयम्वरम् ॥१६॥

एतत् पितृवचः श्रुत्वा राजपुत्री जगाद सा ।
तात स्वयम्वरम् कर्तुम् ह्रेपणात् न अहम् उत्सहे ॥१७॥

किम् तु एकम् वेत्ति यः अपूर्वम् विज्ञानम् स्वाकृतिः युवा ।
तस्मै त्वया अहम् दातव्या न अर्थः अन्येन अधिकेन मे ॥१८॥

इति अनङ्गरतेः तस्याः श्रुत्वा स्वदुहितुः वचः ।
तादृशम् तत्वरम् यावत् अन्विष्यति सः भूपतिः ॥१९॥

तावत् तत्लोकतः बुद्ध्वा चत्वारः तम् उपाययुः ।
वीराः विज्ञानिनः भव्याः पुरुषाः दक्षिणापथात् ॥२०॥

ते राज्ञा पूजिताः तस्मै स्वम् स्वम् विज्ञानम् एकशः ।
शशंसुः संनिधौ तस्याः राजपुत्र्याः ततर्थिनः ॥२१॥

एकः जगाद शूद्रः अहम् आख्यया पञ्चपट्टिकः ।
पञ्चाग्र्यवस्त्रयुग्मानि करोमि एकः अहम् अन्वहम् ॥२२॥

तेभ्यः एकम् प्रयच्छामि देवाय एकम् द्विजन्मने ।
एकम् च परिगृह्णामि वाससोः आत्मनः कृते ॥२३॥

एकम् ददामि भार्यायै यदि सा भवति इह मे ।
एकम् विक्रीय च आहारपान- आदि विदधामि अहम् ॥२४॥

एवम् विज्ञनिने अनङ्गरतिः मे दीयताम् इति ।
इति एकेन उदिते तेन द्वितीयः पुरुषः अब्रवीत् ॥२५॥

भाषाज्ञः नाम वैश्यः अहम् सर्वेषाम् मृगपक्षिणाम् ।
रुतम् वेद्मि तत् एषा मे राजपुत्री प्रदीयताम् ॥२६॥

एवम् उक्ते द्वितीयेन तृतीयः प्रोक्तवान् ततः ।
अहम् खड्गधरः नाम दोःशाली क्षत्रियः नृप ॥२७॥

न खड्गविद्याविज्ञाने प्रतिमल्लः अस्ति मे क्षितौ ।
तत् एषा तनया राजन् त्वया मह्यम् वितीर्यताम् ॥२८॥

इति उक्ते तु तृतीयेन चतुर्थः इदम् अभ्यधात् ।
विप्रः अहम् जीवदत्त- आख्यः विज्ञानम् च मम ईदृशम् ॥२९॥

जन्तूम् मृतान् अपि आनीय दर्शयामि आशु जीवतः ।
तत्वीरचर्यासिद्धम् माम् पतिम् एषा प्रपद्यताम् ॥३०॥

एवम् वक्त्क़्न् सः तान् पश्यन् दिव्यवेष- आकृतीन् नृपः ।
वीरदेवः सुतायुक्तः दोला- आरूढः इव अभवत् ॥३१॥

इति आख्याय कथाम् एताम् वेतालः पृष्टवान् नृपम् ।
सः त्रिविक्रमसेनम् तम् दत्तपूर्वौक्तशापभीः ॥३२॥

तत् भवान् वक्तु तावत् मे कस्मै देया विशाम्पते ।
तेषाम् चतुर्णाम् मध्यात् सा कन्या अनङ्गरतिः भवेत् ॥३३॥

एतत् श्रुत्वा सः राजा तम् वेतालम् प्रत्यभाषत ।
मौनम् त्याजयति प्रायः कालक्षेपाय माम् भवान् ॥३४॥

अन्यथा गहनः कः अयम् प्रश्नः योग- ईश्वर उच्यताम् ।
शूद्राय हि कुविन्दाय क्षत्रिया दीयते कथम् ॥३५॥

वैश्याय अपि कथम् देया क्षत्रिया यत् च तत् गतम् ।
मृग- आदिभाषाविज्ञानम् कार्ये तत् क्व उपयुज्यते ॥३६॥

यः अपि विप्रः तृतीयः अत्र तेन अपि पतितेन किम् ।
स्वकर्मप्रच्युतेन इन्द्रजालिना वीरमानिना ॥३७॥

तस्मात् तस्मै क्षत्रियाय चतुर्थाय समाय सा ।
देया खड्गधराय एव स्वविद्यावीर्यशालिने ॥३८॥

एतत् तस्य वचः निशम्य नृपतेः अंसस्थलात् पूर्ववत्
वेतालः सः जगाम योगबलतः स्वस्थानम् एव आशु तत् ।
भूपालः अपि सः तम् तथा एव पुनः अपि आनेतुम् अन्वक् ययौ
उत्साहएकघने हि वीरहृदये न आप्नोति खेदः अन्तरम् ॥३९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:43.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stratified squamous epithelium

  • स्तरित पट्टकी उपकला 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site